प्रभा हि सौरी पादेन ह्यस्तं याति दिवाकरे। अग्निमाविशते रात्रौ तस्माद्दूरात् प्रकाशते ।। ५३.
उद्यन्तञ्च पुनः सूर्यमौष्ण्यमाग्नेयमाविशत्। पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ ।। ५३.
प्रकाशश्च तथौष्ण्यञ्च सौराग्नेये तु तेजसी। परस्परानुप्रवेशादाप्यायेते दिवानिशम् ।। ५३.
उत्तरे चैव भूम्यर्द्धे तस्मादस्मिंश्च दक्षिणे। उत्तिष्ठति पुनः सूर्ये रात्रिराविशते त्वपः। तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् ।। ५३.
अस्तं याति पुनः सूर्ये अहर्वै प्रविशत्यपः। तस्मान्नक्तं पुनः शुक्ला आपो विश्यन्ति भास्करे ।। ५३.
एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे । उदयास्तमये नित्यमहोरात्रं विशत्यपः ।। ५३.
यश्चासौ तपते सूर्ये पिबन्नम्भो गभस्तिभिः। पार्थिवो हि विमिश्रोऽसौ दिव्यः शुचिरिति स्मृतः ।। ५३.
सहस्रपादः सोऽग्निस्तु वृत्तः कुम्भनिभः शुचिः। आदत्ते तत्तु रश्मीनां सहस्रेण समन्ततः ।। ५३.
नादेयीश्चैव सामुद्रीः कौप्याश्चैव सधान्वनीः। स्थावरा जङ्गमाश्चैव यश्च सूर्यो हिरण्मयः। तस्य रश्मिसहस्रन्तु वर्षशीतोष्णनिःस्रवम् ।। ५३.
तासाञ्चतुःशता नाड्यो वर्षन्ति चित्रमूर्त्तयः। वन्दनाश्चैव वन्द्यश्च ऋतना नूतनास्तथा। अमृता नामतः सर्व्वा रश्मयो वृष्टिसर्जनाः ।। ५३.
हिमवाहाश्च ताभ्योऽन्या रश्मयस्त्रिशताः पुनः। दृश्या मेध्याश्च वाह्याश्च ह्रादिन्यो हिमसर्जनाः ।। ५३.
चन्द्रास्ता नामतः सर्वाः पीताभास्तु गभस्तयः। शुक्लाश्च ककुभश्चैव गावो विश्वभृतस्तथा ।। ५३.
शुक्लास्ता नामतः सर्वास्त्रिशता घर्मसर्जनाः। समं बिभर्ति ताभिस्तु मनुष्यपितृदेवताः ।। ५३.
मनुष्यानौषधेनेह स्वधया च पितॄनपि। अमृतेन सुरान् सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ।। ५३.
वसन्ते चैव ग्रीष्मे च सतैः सुतपते त्रिभिः। वर्षास्वथो शरदि च चतुर्भिः सम्प्रकर्षति ।। ५३.
हेमन्ते शिशिरे चैव हिमं स सृज ते त्रिभिः। ओषधीषु बलन्धत्ते स्वधया च पितॄनपि। सूर्योऽमरत्वममृतत्रयन्त्रिषु नियच्छति ।। ५३.
एवं रश्मिसहस्रन्तत् सौरं लोकार्थ साधकम्। भिद्यते ऋतुमासाद्य जलशीतोष्णनिःस्रवम् ।। ५३.
इत्येतन्मण्डलं शुक्लं भास्वरं सूर्यसंज्ञितम्। नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च। ऋक्षचन्द्रग्रहाः सर्वे निज्ञेयाः सूर्यसम्भवाः ।। ५३.
नक्षत्राधिपतिः सोमो ग्रहराजो दिवाकरः। शेषाः पञ्चग्रहा ज्ञेया ईश्वराः कामरूपिणः ।। ५३.
पठ्यते चाग्निरादित्य औदकश्चन्द्रमाः स्मृतः। शेषाणां प्रकृतिं सम्यग्वर्ण्यमानां निबोधत ।। ५३.
सुरसेनापति स्कन्दः पठ्यतेऽङ्गारको ग्रहः । नारायणं बुधं प्राहुर्देवं ज्ञानविदो विदुः ।। ५३.
रुद्रो वैवस्वतः साक्षाद्धर्मो लोके प्रभुः स्वयम्। महाग्रहो द्विजश्रेष्ठो मन्दगामी शनैश्चरः ।। ५३.
देवासुरगुरू द्वौ तु भानुमन्तौ महाग्रहौ। प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती। दैत्यो महेन्द्रश्च तयोराधिपत्ये विनिर्मितौ ।। ५३.
आदित्यमूलमखिलं त्रिलोकं नात्र संशयः। भवत्यस्य जगत्कृत्स्नं सदेवासुरमानुषम् ।। ५३.
रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्रास्त्रिदिवौकसाम्। द्युतिर्द्युतिमतां कृत्स्ना यत्तेजः सार्वलौकिकम् ।। ५३.
सर्वात्मा सर्वलोकेशो मूलं परमदैवतम्। ततः संजायते सर्वं तत्र चैव प्रलीयते ।। ५३.
बावाभावौ हि लोकानामादित्यान्निः सृतौ पुरा। जगज्ज्ञेयो ग्रहो विप्रा दीप्तिमान् सुग्राहो रविः ।। ५३.
यत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः। क्षणा मुहूर्त्ता दिवसा निशाः पक्षाश्च कृत्स्नशः। मासाः संवत्सराश्चैव ऋतवोऽन्दयुगानि च ।। ५३.
तदादित्यादृते तेषां कालसंख्या न विद्यते। कालादृते न निगमो न दीक्षा नाह्निकक्रमः ।। ५३.
ऋतुनामविभागश्च पुष्पमूलफलं कुतः। कुतः सस्याभिनिष्पत्तिर्गुणौषधिगणादि वा ।। ५३.