एतच्छ्रुत्वा तु मुनयः पुनस्ते संशयान्विताः। पप्रच्छुरुत्तरं भूयस्तदा ते लोमहर्षणम् ।। ५३.
यदेतदुक्तम्भवता गृहाण्येतानि विश्रितम्। कथं देवगृहाणि स्युः कथं ज्योतींषि वर्णय ।। ५३.
एतत्सर्वं समाचक्ष्व ज्योतिषाञ्चैव निश्चयम्। श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः ।। ५३.
अस्मिन्नर्थे महाप्राज्ञैर्यदुक्तं ज्ञानबुद्धिभिः। तद्वोऽहं सम्प्रवक्ष्यामि सूर्याचन्द्रमसोर्भवम्। यथा देवगृहाणीह सूर्याचन्द्रमसोर्गृहम् ।। ५३.
अतः परं त्रिविधाग्नेर्वक्ष्येऽहन्तु समुद्भवम्। दिव्यस्य भौतिकस्याग्नेरथाग्नेः पार्थिवस्य च ।। ५३.
व्युष्टायान्तु रजन्यां वै ब्रह्मणोऽव्यक्तजन्मनः। अव्याकृतमिदन्त्वासीन्नैशेन तमसावृतम् ।। ५३.
चतुर्भूतावशिष्टेऽस्मिन् पार्थिवः सोऽग्निरुच्यते। यश्चादौ तपते सूर्ये शुचिरग्निस्तु स स्मृतः ।। ५३.
वैद्युताख्यस्तु विज्ञेयस्तेषां वक्ष्येऽथ लक्षणम्। वैद्युतो जाठरः सौरो ह्यपाङ्गर्भास्त्रयोऽग्नयः। तस्मादपः पिबन् सूर्यो गोभिदीर्प्यत्यसौ दिवि ।। ५३.
वैद्युतेन समाविष्टो वार्क्षो नाद्भिः प्रशाम्यति । मानवानाञ्च कुक्षिस्थो नाद्भिः शाम्यति पावकः ।। ५३.
अर्च्चिष्मान् परमः सोऽग्निः प्रभवो जाठरः स्मृतः। यश्चायं मण्डली शुक्लो निरूष्मा संप्रकाशते ।। ५३.
प्रभा हि सौरी पादेन ह्यस्तं याति दिवाकरे। अग्निमाविशते रात्रौ तस्माद्दूरात् प्रकाशते ।। ५३.
उद्यन्तञ्च पुनः सूर्यमौष्ण्यमाग्नेयमाविशत्। पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ ।। ५३.
प्रकाशश्च तथौष्ण्यञ्च सौराग्नेये तु तेजसी। परस्परानुप्रवेशादाप्यायेते दिवानिशम् ।। ५३.
उत्तरे चैव भूम्यर्द्धे तस्मादस्मिंश्च दक्षिणे। उत्तिष्ठति पुनः सूर्ये रात्रिराविशते त्वपः। तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् ।। ५३.
अस्तं याति पुनः सूर्ये अहर्वै प्रविशत्यपः। तस्मान्नक्तं पुनः शुक्ला आपो विश्यन्ति भास्करे ।। ५३.
एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे । उदयास्तमये नित्यमहोरात्रं विशत्यपः ।। ५३.
यश्चासौ तपते सूर्ये पिबन्नम्भो गभस्तिभिः। पार्थिवो हि विमिश्रोऽसौ दिव्यः शुचिरिति स्मृतः ।। ५३.
सहस्रपादः सोऽग्निस्तु वृत्तः कुम्भनिभः शुचिः। आदत्ते तत्तु रश्मीनां सहस्रेण समन्ततः ।। ५३.
नादेयीश्चैव सामुद्रीः कौप्याश्चैव सधान्वनीः। स्थावरा जङ्गमाश्चैव यश्च सूर्यो हिरण्मयः। तस्य रश्मिसहस्रन्तु वर्षशीतोष्णनिःस्रवम् ।। ५३.
तासाञ्चतुःशता नाड्यो वर्षन्ति चित्रमूर्त्तयः। वन्दनाश्चैव वन्द्यश्च ऋतना नूतनास्तथा। अमृता नामतः सर्व्वा रश्मयो वृष्टिसर्जनाः ।। ५३.
हिमवाहाश्च ताभ्योऽन्या रश्मयस्त्रिशताः पुनः। दृश्या मेध्याश्च वाह्याश्च ह्रादिन्यो हिमसर्जनाः ।। ५३.
चन्द्रास्ता नामतः सर्वाः पीताभास्तु गभस्तयः। शुक्लाश्च ककुभश्चैव गावो विश्वभृतस्तथा ।। ५३.
शुक्लास्ता नामतः सर्वास्त्रिशता घर्मसर्जनाः। समं बिभर्ति ताभिस्तु मनुष्यपितृदेवताः ।। ५३.
मनुष्यानौषधेनेह स्वधया च पितॄनपि। अमृतेन सुरान् सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ।। ५३.
वसन्ते चैव ग्रीष्मे च सतैः सुतपते त्रिभिः। वर्षास्वथो शरदि च चतुर्भिः सम्प्रकर्षति ।। ५३.
हेमन्ते शिशिरे चैव हिमं स सृज ते त्रिभिः। ओषधीषु बलन्धत्ते स्वधया च पितॄनपि। सूर्योऽमरत्वममृतत्रयन्त्रिषु नियच्छति ।। ५३.
एवं रश्मिसहस्रन्तत् सौरं लोकार्थ साधकम्। भिद्यते ऋतुमासाद्य जलशीतोष्णनिःस्रवम् ।। ५३.
इत्येतन्मण्डलं शुक्लं भास्वरं सूर्यसंज्ञितम्। नक्षत्रग्रहसोमानां प्रतिष्ठायोनिरेव च। ऋक्षचन्द्रग्रहाः सर्वे निज्ञेयाः सूर्यसम्भवाः ।। ५३.
नक्षत्राधिपतिः सोमो ग्रहराजो दिवाकरः। शेषाः पञ्चग्रहा ज्ञेया ईश्वराः कामरूपिणः ।। ५३.
पठ्यते चाग्निरादित्य औदकश्चन्द्रमाः स्मृतः। शेषाणां प्रकृतिं सम्यग्वर्ण्यमानां निबोधत ।। ५३.