साम्ना प्रसूयमानेन सद्य एव गजोऽभवत्। स प्रायच्छदिरावत्यै पुत्रार्थं स तु भौवनः ॥ ८.
इरावत्याः सुतो यस्मात्तस्मादैरावतः स्मृतः । देवराजोपवाह्यत्वात् प्रथमः स मतङ्गराट्। शुभ्राभ्रभाश्चतुर्द्दंष्ट्रः श्रीमानैरावतो गजः ॥ ८.
अप्सुजस्यैकमूलस्य सुवर्णाभस्य हस्तिनः । षड्दन्तस्य हि भद्रस्य औपावाह्यश्च वै बलः ॥ ८.
तस्य पुत्रोऽञ्जनश्चैव सुप्रतीकोऽथ वामनः। पद्मश्चैव चतुर्थोऽभूद्धस्तिनी चाभ्रमुस्तथा ॥ ८.
thumb|400px|दिग्गज1 दिग्गजांस्तांश्च चत्वारः श्वेताऽजनयताशुगान् । भद्रं मृगञ्च मन्दं च सङ्कीर्णं चतुरः सुतान् ॥ ८.
सङ्कीर्णोऽप्यञ्जनो यस्तु उपवाह्यो यमस्य तु। भद्रो यः सुप्रतीकस्तु हरितः स ह्यपाम्पतेः ॥ ८.
पद्मो मन्दस्तु यो गौरो द्विपो ह्यैलविलस्य सः। मृगः श्यामस्तु यो हस्ती उपवाह्यः स पावकैः ॥ ८.
पद्मोत्तरस्तु यः पद्मौ गजो वै वरुणो गणः। उपलेपनमेषश्च तस्याष्टौ जज्ञिरे सुताः ॥ ८.
उदग्रभावेनोपेता जायन्ते तस्य चान्वये। श्वेतबालनखाः पिङ्गा वर्ष्मवन्तो मतङ्गजाः। मतङ्गजान् प्रवक्ष्यामि नागानन्यानपि क्रमात् ॥ ८.
कपिलः पुण्डरीकश्च सुमनाभो रथान्तरः। जातौ नाम्ना सुतौ ताभ्यां सुप्रतिष्ठप्रमर्द्दनौ ॥ ८.
शूलाः स्थूलाः शिरोदान्ताः शुद्धबालनखास्तथा। बलिनः शक्तिनश्चैव स्मृतास्त्वाकुलिका गजाः ॥ ८.
पुष्पदन्तो बृहत्सामा षड्दन्तो दन्त पुष्पवान्। ताम्रवर्णश्च तत्पुत्रः सहचारिविषाणितः ॥ ८.
अन्वये चास्य जायन्ते लम्बोष्ठाश्चारुदर्शिनः। श्यामाः सुदर्शनाश्चण्डा नानापीडायताननाः ॥ ८.
वामदेवोऽञ्जनश्यामः साम्नो जज्ञेऽथ वामनः। भार्या चैवाङ्गदा तस्य नीलवल्लक्षणौ सुतौ ॥ ८.
चण्डश्चात्रशिरो ग्रीवा व्यूढोरस्कास्तरस्विनः। नरैर्बद्धाः कुले तेषां जायन्ते विकृता गजाः ॥ ८.
सुप्रतीकस्तु रूपेण नास्त्यस्य सदृशो गजः । तस्य प्रहारी सम्पाती पृथुश्चित्तिसुतास्त्रयः ॥ ८.
पशवो दीर्घताल्वौष्ठाः सुविभक्तशिरोदराः। जायन्ते मृदुसम्भूता वंशे तस्य मतङ्गजाः ॥ ८.
अञ्जनादञ्जना साम्नो विजज्ञे चाञ्जनावती। एवं माता तयोश्चापि प्रथितायुरजःसुतौ ॥ ८.
महाविभक्तशिरसः स्निग्धजीमूतसन्निभाः। सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः। शूनाः पीतायतमुखा गजास्तस्यान्वयेऽभवन् ॥ ८.
जज्ञे चन्द्रमसः साम्नः पिङ्गला कुमुदद्युतिः। पिङ्गलायाः सुतौ तस्या महापद्मोर्मिमालिनौ ॥ ८.
समायवरदांश्चण्डान् प्रवृद्धबलिनोदरान् । हस्तियुद्धे प्रियान्नागान् विद्धि तस्य कुलोद्भवान् ॥ ८.
एतान् देवासुरे युद्धे जयार्थे जगृहुः सुराः। कृतार्थैश्च विसृष्टास्तैः पूर्वोक्ताः प्रययुर्दिशः ॥ ८.
एतेषामन्वये जातान् विनीतांस्त्रिदशा ददुः । अङ्गाय लोमपादाय सूत्रकाराय वै द्विपान् ॥ ८.
द्विरदो द्विरदाभ्याञ्च हस्ताद्धस्ती करात्करी। वरणाद्वारणो दन्ती दन्ताभ्यां गर्जनाद्गजः ॥ ८.
कुञ्जरः कुञ्जचारित्वान्नागो नगविरोधतः । मतङ्गादिति मातङ्गो द्विपो द्वाभ्यामपि स्मृतः। सामजः सामजातत्वादिति निर्वचनक्रमः ॥ ८.
एषां जिह्वापरावृत्तिरिवाक्तं ह्यग्निशापजम्। बलस्यानवतो या तु या चैषां गूढमुष्कता। उभयं दन्तिनामेतत्स्वयम्भूसूरशापजम् ॥ ८.
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः। कन्यासु जाता दिङ्नागैर्नानासात्त्वास्ततो गजाः ॥ ८.
सम्भूतिश्च प्रभूतिश्च नामनिर्वचनं तथा। एतद्गजानां विज्ञेयं येषां राजा विभावसुः ॥ ८.
कौशिकाद्याः समुद्रात्तु गङ्गायास्तदनन्तरम्। अञ्जनस्यैकमूलस्य प्राच्यान्नागवनन्तु तत् ॥ ८.
उत्तरा तस्य विन्ध्यस्य गङ्गाया दक्षिणञ्च यत्। गङ्गोद्भेदात्करूषेभ्यः सुप्रतीकस्य तद्वनम् ॥ ८.