अमावस्यान्तदा तस्य अन्तमापूर्यते परम्। वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृतौ ।। ५२.
एवं सूर्यनिमित्तैषा क्षयवृद्धि र्निशाकरे। ताराग्रहाणां वक्ष्यामि स्वर्भानोश्च रथं पुनः ।। ५२.
तोयतेजोमयः शुभ्रः सोमपुत्रस्य वै रथः। युक्तो हयैः पिशङ्गैस्तु अष्टाभिर्वातरंहसैः ।। ५२.
सवरूथः सानुकर्षः सूतो दिव्यो रथे महान्। सोपासङ्गपताकस्तु सध्वजो मेघसन्निभः ।। ५२.
भार्गवस्य रथः श्रीणांस्तेजसा सूर्यसन्निभः। पृथिवीसम्भवैर्युक्तो नानावर्णैर्हयोत्तमैः ।। ५२.
श्वेतः पिशङ्गः सारङ्गो नीलः पीतो विलोहितः। कृष्णश्च हरितश्चैव पृषतः पृष्णिरेव च। दशभि स्तैर्महाभागैरकृशैर्वातवेगितैः ।। ५२.
अष्टाश्वः काञ्चनः श्रीमान् सोमस्यापि रथोऽभवत्। असङ्गैर्लौहितैरश्वैः सर्वगैरग्निसम्भवैः। सर्पतेऽसौ कुमारो वै ऋजुवक्रानुचक्रगः ।। ५२.
ततस्त्वाङ्गिरसो विद्वान् देवाचार्यो बृहस्पतिः। शोणैरश्वैः काञ्चनेन स्यन्दनेन प्रसर्पति ।। ५२.
युक्तस्तु वाजिभिर्दिव्यैरष्टाभिर्वातसम्मितैः। नक्षत्रेऽब्दन्निवसति सवेगस्तेन गच्छति ।। ५२.
ततः शनैश्वरोप्यश्वैः शबलैर्व्योमसम्भवैः। कार्ष्णायसं समारुह्य स्यन्दनं याति वै शनैः ।। ५२.
स्वर्भानोस्तु तथैवाश्वाः कृष्णा ह्यष्टौ मनोजवाः। रथन्तमोमयन्तस्य सकृद्युक्ता वहन्त्युत ।। ५२.
आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु। आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ।। ५२.
अथ केतुरथस्याश्वा अष्टाष्टौ वातरंहसः। पलालधूमसङ्काशाः शबला रासभारुणाः ।। ५२.
एते वाहा ग्रहाणां वै मया प्रोक्ता रथैः सह। सर्वे ध्रुवनिबद्धास्ते प्रबद्धा वातरश्मिभिः ।। ५२.
एते वै भ्राम्यमाणास्तु यथा योगं भ्रमन्ति वै। वायव्याभिरदृश्याभिः प्रबद्धा वातरश्मिभिः ।। ५२.
परिभ्रमन्ति तद्बद्धाश्चन्द्रसूर्यग्रहा दिवि। भ्रमन्तमनुगच्छन्ति ध्रुवन्ते ज्योतिषां गणाः ।। ५२.
यथा नद्युदके नौस्तु सलिलेन सहोह्यते। तथा देवालया ह्येते उह्यन्ते वातरश्मिभिः। तस्मात्सर्वेण दृस्यन्ते व्योम्नि देवगणास्तु ते ।। ५२.
यावन्त्यश्चैव तारास्तु तावन्तो वातरश्मयः। सर्वा ध्रुवनिबद्धास्ता ब्रमन्त्यो भ्रामयन्ति तम् ।। ५२.
तैलपीडाकरं चक्रं भ्रमद्भ्रामयते यथा। तथा भ्रमन्ति ज्योतींषि वायबद्धानि सर्वशः ।। ५२.
अलातचक्रवद्यान्ति वातचक्रेरितानि तु। तस्माज्ज्योतींषि वहते प्रवहंस्तेन स स्मृतः ।। ५२.
एवं ध्रुवनिबद्धोऽसौ सर्पते ज्योतिषां गणः। सैष तारामयोज्ञेयः शिशुमारो ध्रुवो दिवि। यदह्ना कुरुते पापं दृष्टवा तं निशि मुच्यते ।। ५२.
यावत्यश्चैव तारास्ताः शिशूमाराश्रिता दिवि। तावन्त्येव तु वर्षाणि जीवन्त्यभ्यधिकानि तु ।। ५२.
शाश्वतः शिशुमारोऽसौ विज्ञेयः प्रविभागशः। उत्तानपादस्तस्याथ विज्ञेयो ह्युत्तरो हनुः ।। ५२.
यज्ञोऽधरस्तु विज्ञेयो धर्मो मूर्द्धानमाश्रितः। हृदि नारायणः साध्यः अश्विनौ पूर्वपादयोः ।। ५२.
वरुणश्चार्यमा चैव पश्चिमे तस्य सस्थिनि। शिश्रः संवत्सरस्तस्य मित्रोऽपाने समाश्रितः ।। ५२.
पुच्छेऽग्निश्च महेन्द्रश्च मरीचिः कश्यपो ध्रुवः। तारकाः शिशुमारश्च नास्तमेति चतुष्टयम् ।। ५२.
नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणेः सह। उन्मुखाभिमुखाः सर्वे चक्रीभूताश्रिता दिवि ।। ५२.
ध्रुवेणाधिष्ठिताः सर्वे ध्रुवमेव प्रदक्षिणम् । प्रयान्तीह वरं श्रेष्ठमेधीभूतं ध्रुवन्दिवि ।। ५२.
ध्रुवाग्निकश्यपानान्तु वरस्वासौ ध्रुवः स्मृतः। एक एव भ्रमत्येष मेरुपर्वतमूर्द्धनि ।। ५२.
ज्योतिषाञ्चक्रमेतद्धि सदा कर्षत्यवाङ्मुखः। मेरुमालोकयत्येष प्रयातीह प्रदक्षिणम् ।। ५२.