त्रिचक्रोभयपार्श्वस्थो विज्ञेयः शशिनो रथः। अपां गर्भसमुत्पन्नो रथः साश्वः ससारथिः। शतारैश्च त्रिभिश्चक्रैर्युक्तः शुल्कैर्हयोत्तमैः ।। ५२.
दश भिस्तु कृशैर्दिव्यैरसङ्गैस्तैर्मनोजवैः। सकृद्युक्ते रथे तस्मिन् वहन्ते चायुगक्षयात् ।। ५२.
संगृहीते रथे तस्मिन् श्वेतश्चक्षुःश्रवास्तु वै। अश्वा स्तमेकवर्णास्ते वहन्ते शङ्खवर्च्चसम् ।। ५२.
ययुश्च त्रिमनाश्चैव वृषो राजीवलो हयः। अस्वो वामस्तुरण्यश्च हंसो व्योमी मृगस्तथा ।। ५२.
इत्येते नामभिः सर्वे दश चन्द्रमसो हयाः । एते चन्द्रमसं देवं वहन्ति दिवसक्षयात् ।। ५२.
देवैः परिवृतः सौम्यः पितृभिश्चैव गच्छति। सोमस्य शुक्ल पक्षादौ भास्करे पुरतः स्थिते। आपूर्यते पुरस्यान्तः सततं दिवसक्रमात् ।। ५२.
देवैः पीतं क्षये सोममाप्याययति नित्यदा। पीतं पञ्चदशाहन्तु रश्मिनैकेन भास्करः ।। ५२.
आपूरयन् सुषुम्नेन भागं भागमहःक्रमात् । सुषुम्नाप्यायमानस्य शुक्ला वर्द्धन्ति वै कलाः ।। ५२.
तस्माद्ध्रसन्ति वै कृष्णे शुक्ल आप्याययन्ति च। इत्येवं सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः ।। ५२.
पौर्णमास्यां स दृश्येत शुक्लः सम्पूर्णमण्डलः । एवमाप्यायितः सोमः शुक्लपक्षे दिनक्रमात् ।। ५२.
ततो द्वितीयाप्रभृति बहुलस्य चतुर्द्दशी। अपां सारमयस्येन्दो रसमात्रात्मकस्य च। पिबन्त्यम्बुमयं देवा मधु सौम्यं सुधाम यम् ।। ५२.
सम्भृतञ्चार्द्धमासेन अमृतं सूर्यतेजसा । भक्षार्थममृतं सौम्यं पौर्णमास्यामुपासते ।। ५२.
एकरात्रं सुरैः सर्वैः पितृभिश्च महर्षिभिः। सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य च ।। ५२.
प्रक्षीयते पुरस्यान्तः पीयमानाः कलाः क्रमात्। क्षीयन्ते तस्मात् कृष्णे याः शुक्ले ह्याप्याययन्ति ताः ।। ५२.
एवं दिनक्रमातीते विबुधास्तु निशाकरम् । पीत्वाऽर्द्धमासङ्गच्छन्ति अमावास्यां सुरोत्तमाः । पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम् ।। ५२.
ततः पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके। अपराह्ने पितृगणैर्जघन्यः पर्युपास्यते ।। ५२.
पिबन्ति द्विकलाकालं शिष्टा तस्य तु या कला। निःसृतं तदमावास्याङ्गभस्तिभ्यः स्वधामृतम्। तां स्वधां मासतृप्त्यै तु पीत्वा गच्छन्ति तेऽमृतम् ।। ५२.
सौम्या बर्हिषदश्चैव अग्निष्वात्तास्तथैव च। कव्याश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते ।। ५२.
संवत्सरास्तु वै कव्याः पञ्चाब्दा ये द्विजैः स्मृताः। सौम्यास्तु ऋतवो ज्ञेया मासा बर्हिषदः स्मृताः। अग्निष्वात्तार्तवश्चैव पितृसर्गा हि वै द्विजाः ।। ५२.
पितृभिः पीयमानस्य पञ्चदश्यां कला तु वै। यावन्न क्षीयते तस्य भागः पञ्चदश स्तु सः ।। ५२.
अमावस्यान्तदा तस्य अन्तमापूर्यते परम्। वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृतौ ।। ५२.
एवं सूर्यनिमित्तैषा क्षयवृद्धि र्निशाकरे। ताराग्रहाणां वक्ष्यामि स्वर्भानोश्च रथं पुनः ।। ५२.
तोयतेजोमयः शुभ्रः सोमपुत्रस्य वै रथः। युक्तो हयैः पिशङ्गैस्तु अष्टाभिर्वातरंहसैः ।। ५२.
सवरूथः सानुकर्षः सूतो दिव्यो रथे महान्। सोपासङ्गपताकस्तु सध्वजो मेघसन्निभः ।। ५२.
भार्गवस्य रथः श्रीणांस्तेजसा सूर्यसन्निभः। पृथिवीसम्भवैर्युक्तो नानावर्णैर्हयोत्तमैः ।। ५२.
श्वेतः पिशङ्गः सारङ्गो नीलः पीतो विलोहितः। कृष्णश्च हरितश्चैव पृषतः पृष्णिरेव च। दशभि स्तैर्महाभागैरकृशैर्वातवेगितैः ।। ५२.
अष्टाश्वः काञ्चनः श्रीमान् सोमस्यापि रथोऽभवत्। असङ्गैर्लौहितैरश्वैः सर्वगैरग्निसम्भवैः। सर्पतेऽसौ कुमारो वै ऋजुवक्रानुचक्रगः ।। ५२.
ततस्त्वाङ्गिरसो विद्वान् देवाचार्यो बृहस्पतिः। शोणैरश्वैः काञ्चनेन स्यन्दनेन प्रसर्पति ।। ५२.
युक्तस्तु वाजिभिर्दिव्यैरष्टाभिर्वातसम्मितैः। नक्षत्रेऽब्दन्निवसति सवेगस्तेन गच्छति ।। ५२.
ततः शनैश्वरोप्यश्वैः शबलैर्व्योमसम्भवैः। कार्ष्णायसं समारुह्य स्यन्दनं याति वै शनैः ।। ५२.