एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च। भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः ।। ५२.
मानवानां शुभं ह्येते हरन्ति दुरितात्मनाम्। दुरितं हि प्रचाराणां व्यपोहन्ति व्कचित् व्कचित् ।। ५२.
विमानेऽवस्थिता दिव्ये कामगा वातरंहसः। एते सहैव सूर्येण भ्रमन्ति दिवसानुगाः ।। ५२.
वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः। गोपायन्ति तु भूतानि सर्वानीहामनुक्षयात् ।। ५२.
स्थानाभिमानिनामेतत् स्थानं मन्वन्तरेषु वै। अतीतानागतानां वै वर्त्तन्ते साम्प्रतन्तु ये ।। ५२.
एवं वसन्ति वै सूर्ये सप्तकास्ते चतुर्द्दिशम्। चतुर्द्दशसु सर्गेषु गणा मन्वन्तरेषु च ।। ५२.
ग्रीष्मे हिमे च वर्षासु मुञ्चमाना घर्मं हिम़ञ्च वर्षञ्च दिनं निशाञ्च। कालेन गच्छत्यृतुवशात् परिवृत्तरश्मि र्देवान् पितॄंश्च मनुजांश्च तर्पयन् वै ।। ५२.
प्रीणाति देवानमृतेन सूर्यः सोमं सुषुम्नेन विवर्द्धयित्वा । शुक्ले तु पूर्णं दिवसक्रमेण तं कृष्णपक्षे विबुधाः पिबन्ति ।। ५२.
पीतन्तु सोमं द्विकालावशिष्टं कृष्णक्षये रश्मिभिस्तं क्षरन्तम्। सुधामृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव कव्यम् ।। ५२.
सूर्येण गोभिस्तु समुद्धृताभिरद्भिः पुनश्चैव समुद्धृताभिः। वृष्ट्यातिवृद्धाभिरथौषधीभिर्मर्त्याः क्षुधन्त्वन्नपानैर्जयन्ति ।। ५२.
अमृतेन तृप्तिस्त्वर्द्धमासं सुराणां मासार्द्धतृप्तिः स्वधया पितॄणाम्। अन्नेन शश्वत्तु दधाति मर्त्यान् सूर्यः स्वयं तच्च बिभर्ति गोभिः ।। ५२.
अयं हरिस्तैर्हरिभिस्तुरङ्गमैरयन् हि चापो हरतीति रश्मिभिः। विसर्गकाले विसृजंश्च ताः पुनर्बिभर्ति शश्वत् सविता चराचरम् ।। ५२.
हरिर्हरिद्भिर्ह्रियते तुरङ्गमैः पिबत्यथापो हरिभिः सहस्रधा। ततः प्रमुञ्चत्यपि तास्त्वसौ हरिः स मुह्यमानो हरिभिस्तुरङ्गमैः ।। ५२.
इत्येष एकचक्रेण सूर्यस्तूर्णं रथेन तु। भद्रैस्तैरक्षतैरश्वैः सर्पतेऽसौ दिवि क्षये ।। ५२.
अहोरात्राद्रथैनासौ एकचक्रेण तु भ्रमन्। सप्तद्वीपसमुद्रान्तं सप्तभिः सप्तभिर्हयैः ।। ५२.
छन्दोभिरश्वरूपैस्तैर्यतश्चक्रन्ततः स्थितैः। कामरूपैः सकृद्युक्तैरमितैस्तैर्मनोजवैः ।। ५२.
हरितैरव्ययैः पिङ्गैरीश्वरैर्ब्रह्मवादिभिः। अशीति मण्डलशतं भ्रमन्त्यब्देन ते हयाः ।। ५२.
बाह्यमभ्यन्तरञ्चैव मण्डलं दिवसक्रमात् । कल्पादौ सम्प्रयुक्तास्ते वहन्त्याभूतसम्प्लवात्। आवृता वालखिल्यैस्ते भ्रमन्ते रात्र्यहानि तु ।। ५२.
प्रथितैर्वचोभङिरग्र्यैः स्तूयमानो महर्षिभिः। सैव्यते गीतवृत्यैश्च गन्धर्वैरप्सरोगणैः। पतङ्गः पत गैरश्वैर्भ्रममाणो दिवस्पतिः ।। ५२.
वीथ्याश्रयाणि चरति नक्षत्राणि तथा शशी। ह्रासवृद्धी तथैवास्य रश्मीनां सूर्यवत् स्मृते ।। ५२.
त्रिचक्रोभयपार्श्वस्थो विज्ञेयः शशिनो रथः। अपां गर्भसमुत्पन्नो रथः साश्वः ससारथिः। शतारैश्च त्रिभिश्चक्रैर्युक्तः शुल्कैर्हयोत्तमैः ।। ५२.
दश भिस्तु कृशैर्दिव्यैरसङ्गैस्तैर्मनोजवैः। सकृद्युक्ते रथे तस्मिन् वहन्ते चायुगक्षयात् ।। ५२.
संगृहीते रथे तस्मिन् श्वेतश्चक्षुःश्रवास्तु वै। अश्वा स्तमेकवर्णास्ते वहन्ते शङ्खवर्च्चसम् ।। ५२.
ययुश्च त्रिमनाश्चैव वृषो राजीवलो हयः। अस्वो वामस्तुरण्यश्च हंसो व्योमी मृगस्तथा ।। ५२.
इत्येते नामभिः सर्वे दश चन्द्रमसो हयाः । एते चन्द्रमसं देवं वहन्ति दिवसक्षयात् ।। ५२.
देवैः परिवृतः सौम्यः पितृभिश्चैव गच्छति। सोमस्य शुक्ल पक्षादौ भास्करे पुरतः स्थिते। आपूर्यते पुरस्यान्तः सततं दिवसक्रमात् ।। ५२.
देवैः पीतं क्षये सोममाप्याययति नित्यदा। पीतं पञ्चदशाहन्तु रश्मिनैकेन भास्करः ।। ५२.
आपूरयन् सुषुम्नेन भागं भागमहःक्रमात् । सुषुम्नाप्यायमानस्य शुक्ला वर्द्धन्ति वै कलाः ।। ५२.
तस्माद्ध्रसन्ति वै कृष्णे शुक्ल आप्याययन्ति च। इत्येवं सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः ।। ५२.
पौर्णमास्यां स दृश्येत शुक्लः सम्पूर्णमण्डलः । एवमाप्यायितः सोमः शुक्लपक्षे दिनक्रमात् ।। ५२.