तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु। उद्वेष्टयन् स वेगेन मण्डलानि तु गच्छति ।। ५१.
स रथोऽधिष्ठितो देवैरादित्यैऋषिभिस्तथा। गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ।। ५२.
एते वसन्ति वै सूर्ये द्वौ द्वौ मासौ क्रमेण तु। धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापतिः ।। ५२.
उरगो वासुकिश्चैव सङ्कीर्णारश्च तावुभौ। तुम्बुरुर्नारदश्चैव गन्धर्वौ गायतां वरौ ।। ५२.
क्रतुस्थल्यप्सराश्चैव तथा वै पुञ्जिकस्थली। ग्रामणी रथकृच्छ्रश्च तपोर्यश्चैव तावुभौ ।। ५२.
रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ। मधुमाधवयोरेष गणो वसति भास्करे ।। ५२.
वासन्तौ ग्रैष्मिकौ मासौ मित्रश्च वरुणश्च ह। ऋषिरत्रिर्वसिष्ठश्च तक्षको रम्भ एव च ।। ५२.
मेनका सहजन्या च गन्धर्वौ च हहा हुहूः। रथस्वनश्च ग्रामण्यो रथचित्रश्च तावुभौ ।। ५२.
पौरुषेयो धवश्चैव यातुधानावुदाहृतौ। एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः ।। ५२.
ततः सूर्ये पुनस्त्वन्या निवसन्तीह देवताः। इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च ।। ५२.
एलापर्णस्तथा सर्पः शङ्खपालश्च तावुभौ। विश्वावसूग्रसेनौ च प्रातश्चैवारुणश्च ह ।। ५२.
प्रम्लोचेति च विख्याता निम्लोचेति च ते उभे। यातुधानस्तथा सर्पो व्याघ्रः श्वेतश्च तावुभौ। नभोनभस्ययोरेष गणो वसति भास्करे ।। ५२.
शरदृ-तौ पुनः शुभ्रा वसन्ति मुनि देवताः। पर्ज्जन्यश्चाथ पूषा च भरद्वाजः सगौतमः ।। ५२.
विश्वावसुश्च गन्धर्वास्तथैव सुरभिश्च यः। विश्वाची च घृताची च उभे ते शुभलक्षणे ।। ५२.
नाग ऐरावतश्चैव विश्रुतश्च धनञ्जयः। सेनजिच्च सुषेणशचव सेनानीर्ग्रामणीश्च तौ ।। ५२.
आपो वातश्च तावेतौ यातुधानावुभौ स्मृतौ। वसन्त्येते तु वै सूर्ये मासयोश्च इषोर्जयोः ।। ५२.
हैमन्तिकौ तु द्वौ मासौ वसन्ति तु दिवाकरे। अंशो भगश्च द्वावेतौ कश्यपश्च ऋतुश्च ह ।। ५२.
भुजङ्गश्च महापझः सर्पः कर्कोटकस्तथा। चित्रसेनश्च गन्धर्व ऊर्णायुश्चैव तावुभौ ।। ५२.
उर्वशी विप्रचित्तिश्च तथैवाप्सरसौ शुभे। तार्क्ष्यश्चारिष्टनेमिश्च सेनानीर्ग्रामणीश्च तौ ।। ५२.
विद्युत्स्फूर्ज्जश्च तावुग्रौ यातुधानावुदाहृतौ। सहे चैव सहस्ये च वसन्त्येते दिवाकरे ।। ५२.
ततः शैशिरयोश्वापि मासयोर्निवसन्ति वै। त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च ।। ५२.
काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ। गन्धर्वो धृतराष्ट्रश्च सूर्यवर्च्चास्तथैव च ।। ५२.
तिलोत्तमाप्सराश्चैव देवी रम्बा मनोरमा। ऋतजित्सत्यजिच्चैव ग्रामण्यौ लोकविश्रुतौ ।। ५२.
ब्रह्मोपेतस्तथा दक्षो यज्ञोपेतश्च स स्मृतः। एते देवा वसन्त्यर्के द्वौ मासौ तु क्रमेण तु ।। ५२.
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः। सूर्यमाप्याययन्त्येते तेजसा तेज उत्तमम् ।। ५२.
प्रथितैस्तैर्वचोबिस्तु स्तुवन्ति मुनयो रविम्। गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते ।। ५२.
ग्रामणीयक्षभूतास्तु कुर्वते भीमसंग्रहम्। सर्पा वहन्ति सूर्यञ्च यातुधानानुयान्ति च। वालखिल्या नयन्त्यस्तं परिचार्योदयाद्रविम् ।। ५२.
एतेषामेव देवानां यतावीर्यं यथातपः। यथायोगं यथासत्यं यथाधर्मं यताबलम् ।। ५२.
यथा तपत्यसौ सूर्यस्तेषां सिद्धस्तु तेजसा। इत्येते वै वसन्तीह द्वौ द्वौ मासौ दिवाकरे ।। ५२.
ऋषयो देवगन्धर्वाः पन्नगाप्सरसाङ्गणाः । ग्रामण्यश्च तथा यक्षा यातुधानाश्च भूरिशः ।। ५२.