श्रेष्ठः परिवहो नाम तेषां वायुरपाश्रयः। योऽसौ बिभर्त्ति भगवान् गङ्गामाकाशगोचराम्। दिव्यामतिजलां पुण्यां विद्यां स्वर्गपथिस्थिताम् ।। ५१.
तस्याविष्पन्दजन्तोयं दिग्गजाः पृथुभिः करैः। शीकरं सम्प्रमुञ्चन्ति नीहार इति स स्मृतः ।। ५१.
दक्षिणेन गिरिर्योऽसौ हेमकूट इति स्मृतः। उदग् हिमवतः शैलादुत्तरस्य च दक्षिणे। पुण्ड्रं नाम समाख्यातं नगरं तत्र वै स्मृतम् ।। ५१.
तस्मिन्निपतितं वर्षं यत्तुषारसमुद्भवम् । ततस्तदावहो वायुर्हिमशैलात् समुद्वहन्। आनयत्यात्मयोगेन सिञ्चमानो महागिरिम् ।। ५१.
हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम्। इहाभ्येति ततः पश्चादपरान्तविवृद्धये ।। ५१.
मेघावाप्यायतश्चैव सर्वमेतत् प्रकीर्त्तितम् । सूर्य एव तु वृष्टिनां स्रष्टा समुपदिश्यते ।। ५१.
ध्रुवेणा वेष्टितः सूर्यस्ताभ्यां वृष्टिः प्रवर्त्तते। ध्रुवेणावेष्टितो वायुर्वृष्टिं संहरते पुनः ।। ५१.
ग्रहान्निःसृत्य सूर्यात्तु कृत्स्ने नक्षत्रमण्डले । वारस्यान्ते विशत्यर्कं ध्रुवेण परिवेष्टितम् ।। ५१.
अतः सूर्यरथस्याथ सन्निवेशं निबोधत। संस्थितैनैकचक्रेण पञ्चारेण त्रिनाभिना ।। ५१.
हिरण्मयेन भगवान् पर्वणा तु महौजसा। नष्टवर्त्मान्धकारेण षट्प्रकारैकनेमिना। चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्प्पति ।। ५१.
दश योजनसाहस्रो विस्तारायामतः स्मृतः। द्विगुणोऽस्य रथोपस्थादीषादण्डप्रमाणतः ।। ५१.
स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु। असङ्गः काञ्चनो दिव्यो युक्तः परमगैर्हयैः ।। ५१.
छन्दोभिर्वाजिरूपैस्तु यतः शुक्रस्ततः स्थितः। वरुणस्यन्दनस्तेह लक्षणैः सदृशस्तु सः। ते नाऽसौ सर्पतिव्योम्नि भास्वता तु दिवाकरः ।। ५१.
अथेमानि तु सूर्यस्य प्रत्यङ्गानि रथस्य तु। संवत्सरस्यावयवैः कल्पितानि यथा क्रमम् ।। ५१.
अहस्तु नाभिः सूर्यस्य एकचक्रः स वै स्मृतः। आराः पञ्चर्त्तवस्तस्य नेमिः षढृतवः स्मृताः ।। ५१.
रथनीडः स्मृतो ह्यब्दस्त्वयने कूबरावुभौ । मुहूर्ता बन्धुरास्तस्य शम्या तस्य कलाः स्मृताः ।। ५१.
तस्य काष्ठाः स्मृता घोणा ईषादण्डः क्षणांस्तु वै। निमेषाश्चानुकर्षोऽस्य ईषा चास्य लवाः स्मृताः ।। ५१.
रात्रिर्वरूथो घर्मोऽस्य ध्वज ऊर्द्ध्वसमुच्छ्रितः। युगाक्षकोटी ते तस्य अर्थकामावुभौ स्मृतौ ।। ५१.
सप्ताश्वरूपाश्छन्दांसि वहन्ते वामतो धुराम्। गायत्री चैव त्रिष्टुप् च अनुष्टुब् जगती तथा ।। ५१.
पङ्क्तिश्च बृहती चैव उष्णिक् चैव तु सप्तमम्। अक्षे चक्रं निबद्धन्तु ध्रुवे त्वक्षः समर्पितः ।। ५१.
सहचक्रो भ्रमत्यक्षः सहाक्षो भ्रमति ध्रुवः। अक्षः सहैव चक्रेण भ्रमतेऽसौ ध्रुवेरितः ।। ५१.
एवमर्थ वशात्तस्य सन्निवेशो रथस्य तु। तथा संयोगभागेन संसिद्धो भास्वरो रथः ।। ५१.
तेनाऽसौ तरणिर्देवस्तरसा सर्पते दिवि। युगाक्षकोटिसम्बद्धौ रश्मी द्वौ स्यन्दनस्य हि ।। ५१.
ध्रुवेण भ्रमतो रश्मी विचक्रयुगयोस्तु वै। भ्रमतो मण्डलानि स्युः खेचरस्य रथस्य तु ।। ५१.
युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु। ध्रुवेण संगृहीते वै द्विचक्रश्वेतरज्जुवत् ।। ५१.
भ्रमन्तमनुगच्छेतां ध्रुवं रश्मी तु तावुभौ । युगाक्ष कोटी ते तस्य वातोर्मी स्यन्दनस्य तु ।। ५१.
कीलासक्तो यथा रज्जुर्भ्रमते सर्वतो दिशम्। ह्रसतस्तस्य रश्मी तौ मण्डलेषूत्तरायणे ।। ५१.
वर्द्धेते दक्षिणे चैव भ्रमतो मण्डलानि तु। ध्रुवेण संगृहीतौ तु रस्मी वै नयतो रविम् ।। ५१.
आकृष्येते यदा तौ वै ध्रुवेण समधिष्ठितौ। तदा सोऽभ्यन्तरं सूर्यो भ्रमते मण्डलानि तु ।। ५१.
अशीतिमण्डलशतं काष्ठयोरुभयोश्चरन् । ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु ।। ५१.