ततो वर्षति षण्मासान् सर्वभूतविवृद्धये। वायव्यं स्तनितञ्चैव वैद्युतञ्चाग्निसंभवम् ।। ५१.
मेहनाच्च मिहेर्द्धातोर्मेघत्वं व्यञ्जयन्ति च। न भ्रश्यन्ति यतस्त्वापस्तदभ्रं कवयो विदुः ।। ५१.
मेघानां पुनरुत्पत्तिस्त्रिविधा योनिरुच्यते। आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः। त्रिधा घनाः समाख्यातास्तेषां वक्ष्यामि सम्भवम् ।। ५१.
आग्नेयास्त्वर्णजाः प्रोक्तास्तेषां तस्मात् प्रवर्त्तनम्। शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः ।। ५१.
महिषाश्च वराहाश्च मत्तमातङ्गगामिनः। भूत्वा धरणिमभ्येत्य विचरन्ति रमन्ति च ।। ५१.
जीमूता नाम ते मेघा एतेभ्यो जीवसम्भवाः। विद्युद्गुणविहीनाश्च जलधारावलम्बिनः ।। ५१.
मूका घना महाकाया प्रवाहस्य वशानुगाः। क्रोशमात्राच्च वर्षन्ति क्रोशार्द्धादपि वा पुनः ।। ५१.
पर्वताग्रनितम्बेषु वर्षन्ति च रमन्ति च। बलाकागर्भदाश्चैव बलाकागर्भधारिणः ।। ५१.
ब्रह्मजानाम ते मेघा ब्रह्मनिःश्वाससम्भवाः। ते हि विद्युद्गुणोपेताः स्तनयन्ति स्वनप्रियाः ।। ५१.
तेषां शब्दप्रणादेन भूमिः स्वाङ्गरुहोद्घमा। राज्ञी राज्ञाभिषिक्तेव पुनर्यौवनमश्रुते। तेष्वियं प्रीतिमासक्ता भूतानां जीवितोद्भवा ।। ५१.
जीमूता नाम ते मेघास्तेभ्यो जीवस्य सम्भवः। द्वितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः ।। ५१.
एते योजनमात्राच्च सार्द्धार्द्धान्निष्कृतादपि। वृष्टिसर्गस्तथा तेषां धारासाराः प्रकीर्त्तिताः। पुष्करावर्त्तका नाम ये मेघाः पक्षसम्भवाः ।। ५१.
शक्रेण पक्षाश्छिन्ना ये पर्वतानां महोजसाम्। कामगानां प्रवृद्धानां भूतानां शिवमिच्छता ।। ५१.
पुष्करा नाम ते मेघा बृहन्तस्तोय मत्सराः। पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः ।। ५१.
नानारूपधराश्चैव महाघोरतराश्च ते। कल्पान्तवृष्टेः स्रष्टारः संवर्त्ताग्नेर्नियामकाः ।। ५१.
वर्षन्त्येते युगान्तेषु तृतीयास्ते प्रकीर्त्तिताः। अनेकरूपसंस्थानाः पूरयन्तो महीतलम् । वायुं परं वहन्तः स्युराश्रिताः कल्पसाधकाः ।। ५१.
यान्यस्याण्डकपालस्य प्राकृतस्याभवंस्तदा। तस्माद्ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयम्भुवः। तान्येवाण्डकपालस्य सर्वे मेघाः प्रकीर्त्तिताः ।। ५१.
तेषामाप्यायनं धूमः सर्वेषामविशेषतः । तेषां श्रेष्ठस्तु पर्ज्जन्यश्चत्वारश्चैव दिग्गजाः ।। ५१.
गजानां पर्वतानाञ्च मेघानां भोगिभिः सह। कुलमेकं पृथग्भूतं योनिरेका जलं स्मृतम् ।। ५१.
पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवाः। तुषारवृष्टिं वर्षन्ति सर्वसस्यविवृद्धये ।। ५१.
श्रेष्ठः परिवहो नाम तेषां वायुरपाश्रयः। योऽसौ बिभर्त्ति भगवान् गङ्गामाकाशगोचराम्। दिव्यामतिजलां पुण्यां विद्यां स्वर्गपथिस्थिताम् ।। ५१.
तस्याविष्पन्दजन्तोयं दिग्गजाः पृथुभिः करैः। शीकरं सम्प्रमुञ्चन्ति नीहार इति स स्मृतः ।। ५१.
दक्षिणेन गिरिर्योऽसौ हेमकूट इति स्मृतः। उदग् हिमवतः शैलादुत्तरस्य च दक्षिणे। पुण्ड्रं नाम समाख्यातं नगरं तत्र वै स्मृतम् ।। ५१.
तस्मिन्निपतितं वर्षं यत्तुषारसमुद्भवम् । ततस्तदावहो वायुर्हिमशैलात् समुद्वहन्। आनयत्यात्मयोगेन सिञ्चमानो महागिरिम् ।। ५१.
हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम्। इहाभ्येति ततः पश्चादपरान्तविवृद्धये ।। ५१.
मेघावाप्यायतश्चैव सर्वमेतत् प्रकीर्त्तितम् । सूर्य एव तु वृष्टिनां स्रष्टा समुपदिश्यते ।। ५१.
ध्रुवेणा वेष्टितः सूर्यस्ताभ्यां वृष्टिः प्रवर्त्तते। ध्रुवेणावेष्टितो वायुर्वृष्टिं संहरते पुनः ।। ५१.
ग्रहान्निःसृत्य सूर्यात्तु कृत्स्ने नक्षत्रमण्डले । वारस्यान्ते विशत्यर्कं ध्रुवेण परिवेष्टितम् ।। ५१.
अतः सूर्यरथस्याथ सन्निवेशं निबोधत। संस्थितैनैकचक्रेण पञ्चारेण त्रिनाभिना ।। ५१.
हिरण्मयेन भगवान् पर्वणा तु महौजसा। नष्टवर्त्मान्धकारेण षट्प्रकारैकनेमिना। चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्प्पति ।। ५१.