अष्टाशीतिसहस्राणि तेषामप्यूर्द्ध्वरेतसाम्। उदकूपन्थानमर्यम्णः श्रिता ह्याभूतसम्प्लवात् ॥ ५०.
इत्येतैः कारणैः शुद्धैस्तेऽ म़तत्वं हि भेजिरे। आभूतसम्प्लवस्थानममृतत्वं विभाव्यते ॥ ५०.
त्रैलोक्यस्थितिकालोऽयमपुनर्मार्गगामिनः। ब्रह्महत्याश्वमेधाभ्यां पुण्यापापकृतोऽपरम्। आभूतसम्प्लवान्ते तु क्षीयन्ते ह्यूर्द्ध्वरेतसः ॥ ५०.
ऊर्द्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्रास्ति वै स्मृतम्। एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥ ५०.
तत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम्। धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाधकाः ॥ ५०.
स्वायम्भुवे निसर्गे तु व्याख्यातान्युत्तराणि तु। भविष्याणि च सर्वाणि तेषां वक्ष्याम्यनुक्रमम् ।। ५१.
एतच्छ्रुत्वा तु मुनयः पप्रच्छुर्लोमहर्षणम्। सूर्याचन्द्रमसोश्चारं ग्रहाणाञ्चैव सर्वशः ।। ५१.
भ्रमन्ते कथमेतानि ज्योतींषि दिवि मण्डलम्। तिर्यग्व्यूहेन सर्वाणि तथैवासङ्करेण च। कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम् ।। ५१.
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम्। भूतसम्मोहनन्त्वेतच्छ्रोतुमिच्छा प्रवर्त्तते ।। ५१.
भूतसम्मोहनं ह्येतद् ब्रुवतो मे निबोधत। प्रत्यक्षमपि दृस्यं यत्तत् संमोहयते प्रजाः ।। ५१.
योऽसौ चतुर्दिशं पुच्छे शिशुमारे व्यवस्थितः। उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ।। ५१.
स हि भ्रमन् भ्रामयते चन्द्रादित्यौ ग्रहैः सह। भ्रमन्तमनुगच्छन्ति नक्षत्राणि च चक्रवत् ।। ५१.
ध्रुवस्य मनसा चासौ सर्पते भगणः स्वयम्। सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ।। ५१.
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै। तेषां योगस्व भेदाश्च कालचारस्तथैव च ।। ५१.
अस्तोदयौ तथोत्पाता अयने दक्षिणोत्तरे। विषुवद्ग्रहवर्णाश्च ध्रुवात्सर्वं प्रवर्त्तते ।। ५१.
वर्षा घर्मो हिमं रात्रिः सन्ध्या चैव दिनं तथा । शुभाशुभं प्रजानाञ्च ध्रुवात्सर्वं प्रवर्त्तते ।। ५१.
ध्रुवेणाधिकृतांश्चैव सूर्योऽपावृत्त्य तिष्ठति। तदेष दीप्तकिरणः स कालाग्निर्द्दिवाकरः ।। ५१.
परिवर्त्त क्रमाद्विप्रा भाभिरालोकयन् दिशः। सूर्यः किरणजालेन वायुयुक्तेन सर्वशः। जगतो जलमादत्ते कृत्स्नस्य द्विजसत्तमाः ।। ५१.
आधित्यपीतं सूर्याग्नेः सोमं संक्रमते जलम्। नाडीभिर्वायुयुक्ताभिर्लोकाधानं प्रवर्त्तते ।। ५१.
यत्सोमात् स्रवते सूर्यस्तदग्रेष्ववतिष्ठते। मेघा वायुनिघातेन विसृजन्ति जलम्भुवि ।। ५१.
एकमुत्क्षिप्यते चैव पतते च पुनर्ज्जलम्। नानाप्रकारमुदकन्तदेव परिवर्त्तते ।। ५१.
सन्धारणार्थं भूतानां मायैषा विश्वनिर्मिता। अनया मायया व्याप्तं त्रैलोक्यं सचराचरम् ।। ५१.
विश्वेशो लोककृद्देवः सहस्रांशुः प्रजापतिः। धाता कृत्स्नस्य लोकस्य प्रभु र्विष्णुर्दिवाकरः ।। ५१.
सर्वलौकिकमम्भो वै यत्सोमान्नभसः स्नुतम्। सोमाधारं जगत्सर्वमेतत्तथ्यं प्रकीर्तितम् ।। ५१.
सूर्यादुष्णं निस्रवते सोमाच्छीतं प्रवर्त्तते। शीतोष्णवीर्यौ द्वावेतौ युक्तौ धारयतो जगत् ।। ५१.
सोमाधारा नदी गङ्गा पवित्रा विमलोदका। सोमपुत्रपुरोगाश्च महानद्यो द्विजोत्तमाः ।। ५१.
सर्वभूतशरीरेषु आपो ह्यनुगताश्च याः । तेषु सन्दह्यमानेषु जङ्गमस्थावरेषु च। धूमभूतास्तु ता आपो निष्क्रामन्तीह सर्वशः ।। ५१.
तेन चाभ्राणि जायन्ते स्थानमत्राम्भसां स्मृतम् । आर्कन्तेजो हि भूतेभ्यो ह्यादत्ते रश्मिभिर्जलम् ।। ५१.
समुद्राद्वायुसंयोगाद्वहन्त्यापो गभस्तयः। यतस्त्वृतुवशात् काले परिवर्त्तो दिवाकरः। यच्छत्यपो हि मेघेभ्यः शुक्लाः शुक्लगभस्तिभिः ।। ५१.
अभ्रस्था प्रपतन्त्यापो वायुना समुदीरिताः। सर्वभूतहितार्थाय वायुभिश्च समन्ततः ।। ५१.