उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम्। पितृयाणः स वै पन्था वैश्वानरपथाद्बहिः ॥ ५०.
तत्रासते प्रजावन्तो मुनयो ह्यग्निहोत्रिणः । लोकस्य सन्तानकराः पितृयाणे पथि स्थिताः ॥ ५०.
भूतारम्भ कृतं कर्म आशिषा ऋत्विगुच्यते । प्रारभन्ते लोककामास्तेषां पन्थाः स दक्षिणः ॥ ५०.
चलितन्ते पुनर्द्धर्मं स्थापयन्ति युगे युगे। सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥ ५०.
जायमानास्तु पूर्वे वै पश्चिमानां गृहेषु च। पश्चिमाश्चैव जायन्ते पूर्वेषां निधनेष्वपि। एव मावर्त्तमानास्ते तिष्ठन्त्याभूतसम्प्लवात् ॥ ५०.
अष्टाशीतिसहस्राणि मुनीनां गृहमेधिनाम्। सवितुर्द्दक्षिणं मार्गं श्रिता ह्याचन्द्रतारकम्। क्रियावतां प्रसङ्ख्येया ये श्मशानानि भेजिरे ॥ ५०.
लोकशंव्यवहारेण भूतारम्भकृतेन च। इच्छाद्वेषप्रकृत्या च मैथुनोपगमेन च ॥ ५०.
तथा कायकृतेनेह सेवनाद्विषयस्य च। एतैस्तैः कारणैः सिद्धाः श्मशानानि हि भेजिरे। प्रजैषिणस्ते मुनयो द्वापरेष्विह जज्ञिरे ॥ ५०.
नागवीथ्युत्तरे यच्च सप्तर्षिभ्यश्च दक्षिणम् । उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ॥ ५०.
यत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः। सततन्ते जुगुप्सन्ते तस्मान्मृत्युर्ज्जितस्तु तैः ॥ ५०.
अष्टाशीतिसहस्राणि तेषामप्यूर्द्ध्वरेतसाम्। उदकूपन्थानमर्यम्णः श्रिता ह्याभूतसम्प्लवात् ॥ ५०.
इत्येतैः कारणैः शुद्धैस्तेऽ म़तत्वं हि भेजिरे। आभूतसम्प्लवस्थानममृतत्वं विभाव्यते ॥ ५०.
त्रैलोक्यस्थितिकालोऽयमपुनर्मार्गगामिनः। ब्रह्महत्याश्वमेधाभ्यां पुण्यापापकृतोऽपरम्। आभूतसम्प्लवान्ते तु क्षीयन्ते ह्यूर्द्ध्वरेतसः ॥ ५०.
ऊर्द्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्रास्ति वै स्मृतम्। एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥ ५०.
तत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम्। धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाधकाः ॥ ५०.
स्वायम्भुवे निसर्गे तु व्याख्यातान्युत्तराणि तु। भविष्याणि च सर्वाणि तेषां वक्ष्याम्यनुक्रमम् ।। ५१.
एतच्छ्रुत्वा तु मुनयः पप्रच्छुर्लोमहर्षणम्। सूर्याचन्द्रमसोश्चारं ग्रहाणाञ्चैव सर्वशः ।। ५१.
भ्रमन्ते कथमेतानि ज्योतींषि दिवि मण्डलम्। तिर्यग्व्यूहेन सर्वाणि तथैवासङ्करेण च। कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम् ।। ५१.
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम्। भूतसम्मोहनन्त्वेतच्छ्रोतुमिच्छा प्रवर्त्तते ।। ५१.
भूतसम्मोहनं ह्येतद् ब्रुवतो मे निबोधत। प्रत्यक्षमपि दृस्यं यत्तत् संमोहयते प्रजाः ।। ५१.
योऽसौ चतुर्दिशं पुच्छे शिशुमारे व्यवस्थितः। उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ।। ५१.
स हि भ्रमन् भ्रामयते चन्द्रादित्यौ ग्रहैः सह। भ्रमन्तमनुगच्छन्ति नक्षत्राणि च चक्रवत् ।। ५१.
ध्रुवस्य मनसा चासौ सर्पते भगणः स्वयम्। सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ।। ५१.
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै। तेषां योगस्व भेदाश्च कालचारस्तथैव च ।। ५१.
अस्तोदयौ तथोत्पाता अयने दक्षिणोत्तरे। विषुवद्ग्रहवर्णाश्च ध्रुवात्सर्वं प्रवर्त्तते ।। ५१.
वर्षा घर्मो हिमं रात्रिः सन्ध्या चैव दिनं तथा । शुभाशुभं प्रजानाञ्च ध्रुवात्सर्वं प्रवर्त्तते ।। ५१.
ध्रुवेणाधिकृतांश्चैव सूर्योऽपावृत्त्य तिष्ठति। तदेष दीप्तकिरणः स कालाग्निर्द्दिवाकरः ।। ५१.
परिवर्त्त क्रमाद्विप्रा भाभिरालोकयन् दिशः। सूर्यः किरणजालेन वायुयुक्तेन सर्वशः। जगतो जलमादत्ते कृत्स्नस्य द्विजसत्तमाः ।। ५१.
आधित्यपीतं सूर्याग्नेः सोमं संक्रमते जलम्। नाडीभिर्वायुयुक्ताभिर्लोकाधानं प्रवर्त्तते ।। ५१.
यत्सोमात् स्रवते सूर्यस्तदग्रेष्ववतिष्ठते। मेघा वायुनिघातेन विसृजन्ति जलम्भुवि ।। ५१.