सौरसौम्यं तु विज्ञेयं नक्षत्रं सावनं तथा। नामान्येतानि चत्वारि यैः पुराणं विभाव्यते ॥ ५०.
खे तस्योत्तरतश्चैव श्रृङ्गवान्नाम पर्वतः। त्रीणि तस्य तु श्रृङ्गाणि स्पृशन्तीव नभस्तलम् ॥ ५०.
तैश्चापि श्रृङ्गवान्नाम सर्वतश्चैव विश्रुतः। एकमार्गश्च विस्तारो विष्कम्भश्चापि कीर्तितः ॥ ५०.
तस्य वै सर्वतः श्रृङ्गं मध्यमन्तद्धिरण्मयम्। दक्षिणं राजतञ्चैव श्रृङ्गं तु स्फटिकप्रभम् ॥ ५०.
सर्वरत्नमयं चैकं श्रृङ्गमुत्तरमुत्तमम्। एवं कूटैस्रिभिः शैलैः श्रृङ्गवानिति विश्रुतः ॥ ५०.
यत्तद्विषुवतं श्रृङ्गन्तदर्कः प्रतिपद्यते। शरद्वसन्तयोर्मध्ये मध्यमां गतिमास्थितः। अहस्तुल्यामथो रात्रिं करोति तिमिरापहः ॥ ५०.
हरिताश्च हया दिव्यास्ते नियुक्ता महारथे। अनुलिप्ता इवाभान्ति पझरक्तैर्गभस्तिभिः ॥ ५०.
मेषान्ते च तुलान्ते च भास्करोदयतः स्मृताः । मुहूर्त्ता दश पञ्चैव अहोरात्रिश्च तावती ॥ ५०.
कृत्तिकानां यदा सूर्यः प्रथमांशगतो भवेत् । विशाखानां तथा ज्ञेयश्चतुर्थांशे निशाकरः॥ ५०.
विशाखायां यदा सूर्य श्च्रतेंऽशं तृतीयकम्। तदा चन्द्रं विजानीयात् कृत्तिकाशिरसि स्थितम् ॥ ५०.
विषुवन्तं तदा विद्यादेवमाहुर्महर्षयः। सूर्येण विषुवं विद्यात् कालं सोमेन लक्षयेत् ॥ ५०.
समा रात्रिरहश्चैव यदा तद्विषुवद्भवेत्। तदा दानानि देयानि पितृभ्यो विषुवत्यपि। ब्राह्मणेभ्यो विशेषेण मुखमेतत्तु दैवतम् ॥ ५०.
ऊनरात्राधिमासौ च कलाकाष्ठामुहूर्त्तकाः। पौर्णमासी तथा ज्ञेया अमावास्या तथैव च। सिनीवाली कुहूश्चैव राका चानुमति स्तथा ॥ ५०.
तपस्तपस्यौ मधुमाधवौ च शुक्रः शुचिश्चायनमुत्तरं स्यात्। नभो नभश्योऽथ इषुः सहोर्जः सहःसहस्याविति दक्षिणं स्यात् ॥ ५०.
संवत्सरास्ततो ज्ञेयाः पञ्चाब्दा ब्रब्मणः सुताः। तस्मात्तु ऋतवो ज्ञेया ऋतवो ह्यन्तराः स्मृताः ॥ ५०.
तस्मादनुमुखा ज्ञेया अमावास्यास्य पर्वणः. तस्मात्तु विषुवं ज्ञेयं पितृदैवहितं सदा ॥ ५०.
एवं ज्ञात्वा न मुह्येत दैवे पित्र्ये च मानवः। तस्मात् स्मृतं प्रजानां वै विषुवत्सर्वगं सदा ॥ ५०.
आलोकान्तः स्मृतो लोको लोकान्तो लोक उच्यते। लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः ॥ ५०.
चत्वारस्ते महात्मानस्तिष्ठन्त्याभूतसम्प्लवात्। सुधामा चैव वैराजः कर्द्दमः शङ्कृपस्तथा। हिरण्यलोमा पर्ज्जन्यः केतुमान् जातनिश्चयः ॥ ५०.
निर्द्वन्द्वा निरभीमाना निस्तन्त्रा निष्परिग्रहाः। लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ॥ ५०.
उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम्। पितृयाणः स वै पन्था वैश्वानरपथाद्बहिः ॥ ५०.
तत्रासते प्रजावन्तो मुनयो ह्यग्निहोत्रिणः । लोकस्य सन्तानकराः पितृयाणे पथि स्थिताः ॥ ५०.
भूतारम्भ कृतं कर्म आशिषा ऋत्विगुच्यते । प्रारभन्ते लोककामास्तेषां पन्थाः स दक्षिणः ॥ ५०.
चलितन्ते पुनर्द्धर्मं स्थापयन्ति युगे युगे। सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥ ५०.
जायमानास्तु पूर्वे वै पश्चिमानां गृहेषु च। पश्चिमाश्चैव जायन्ते पूर्वेषां निधनेष्वपि। एव मावर्त्तमानास्ते तिष्ठन्त्याभूतसम्प्लवात् ॥ ५०.
अष्टाशीतिसहस्राणि मुनीनां गृहमेधिनाम्। सवितुर्द्दक्षिणं मार्गं श्रिता ह्याचन्द्रतारकम्। क्रियावतां प्रसङ्ख्येया ये श्मशानानि भेजिरे ॥ ५०.
लोकशंव्यवहारेण भूतारम्भकृतेन च। इच्छाद्वेषप्रकृत्या च मैथुनोपगमेन च ॥ ५०.
तथा कायकृतेनेह सेवनाद्विषयस्य च। एतैस्तैः कारणैः सिद्धाः श्मशानानि हि भेजिरे। प्रजैषिणस्ते मुनयो द्वापरेष्विह जज्ञिरे ॥ ५०.
नागवीथ्युत्तरे यच्च सप्तर्षिभ्यश्च दक्षिणम् । उत्तरः सवितुः पन्था देवयानस्तु स स्मृतः ॥ ५०.
यत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः। सततन्ते जुगुप्सन्ते तस्मान्मृत्युर्ज्जितस्तु तैः ॥ ५०.