पूतना मातृसामान्यास्तथा भूतभयङ्कराः। बालानां मानुषे लोके ग्रहा वैमानहेतुकाः ॥ ८.
स्कन्दग्रहादयश्चैव आपकास्त्रासकादयः। कौमारास्ते तु विज्ञेया बालानां ग्रहवृत्तयः ॥ ८.
स्कन्दग्रहविशेषाणां मायिकानां तथैव च। पूतनानामभूतानां ये च लोकविनायकाः ॥ ८.
सहस्रशत सङ्ख्यानां मर्त्यलोकविचारिणाम्। एवं गणशतान्येव चरन्ति पृथिवीमिमाम् ॥ ८.
यक्षाः पुण्यतमा नाम तथा ये केऽपि गुह्यकाः। यक्षा देवजना श्चैव तथा पुण्यजनाश्च ये ॥ ८.
गुह्यकानाञ्च सर्वेषामगस्त्या ये च राक्षसाः । पौलस्त्या राक्षसा ये च विश्वामित्राश्च ये स्मृताः ॥ ८.
यक्षाणां राक्षसानाञ्च पौलस्त्यागस्त्ययश्च ये । तेषां राजा महाराजः कुबेरो ह्यलकाधिपः ॥ ८.
यक्षा दृष्ट्वा पिबन्तीह नृणां मांसमसृग्वसाम्। रक्षांस्यनुप्रवेशेन पिशाचाः परिपीडनैः ॥ ८.
सर्वलक्षणसम्पन्नाः समक्षेत्राश्च दैवतैः। भास्वरा बलवन्तश्च ईश्वराः करामरूपिणः ॥ ८.
अनाभिभक्षा विक्रान्ताः सर्वलोकनमस्कृताः। सूक्ष्माश्चौजस्विनो मेध्या वरदा यज्ञियाश्च ये ॥ ८.
देवानां तुल्यधर्माणां ह्यसुराः सर्वशः स्मृताः। त्रिभिः पाधैस्तु गन्धर्वा देवै र्हीनाः प्रभावतः ॥ ८.
गन्धर्वेभ्यस्त्रिभिः पादैर्हीना वै सर्वगुह्यकाः। प्रभावतुल्या यक्षाणां विज्ञेयाः सर्वराक्षसाः। ऐश्वर्यहीना यक्षेभ्यः पिशाचास्त्रि गुणं पुनः ॥ ८.
एवं धनेन रूपेण आयुषा च बलेन च। धर्मैश्वर्येण बुद्ध्या च तपःश्रुतपराक्रमैः ॥ ८.
देवासुरेभ्यो हीयन्ते त्रीन् पादान् वै परस्परम्। गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः ॥ ८.
अतः श्रृणुत भद्रं वः प्रजाः क्रोधवशत्मकाः । क्रोधायां कन्यका जज्ञे द्वादश ह्यात्मसम्भवाः। ता भार्याः पुलहस्यासन्नामतस्ता निबोधत ॥ ८.
मृगी च मृगमन्दा च हरिभद्रा इरावती। भूता च कपिशा दंष्ट्रा निशा तिर्या तथैव च। श्वेता चैव स्वरा चैव सुरसा चेति विश्रुताः ॥ ८.
मृग्यास्तु हरिणाः पुत्रा मृगाश्चान्ये शशास्तथा। न्यङ्कवः शरभा ये च रुरवः पृषताश्च ये ॥ ८.
मृगराजा मृगमन्दाया गवयाश्चापरे तथा। महिषोष्ट्रवराहाश्च खड्गगौरमुखास्तथा ॥ ८.
हरेस्तु हरयः पुत्रा गोलाङ्गुलतरक्षवः । वानराः किन्नराश्चैव व्याघ्राः किम्पुरुषास्तथा। इत्येवमादयोऽन्येऽपि इरावत्या निबोधत ॥ ८.
सूर्यस्याण्डकपाले द्वे समानीय तु भौवनः। हस्ताभ्यां परिगृह्याथ रथन्तरमगायत ॥ ८.
साम्ना प्रसूयमानेन सद्य एव गजोऽभवत्। स प्रायच्छदिरावत्यै पुत्रार्थं स तु भौवनः ॥ ८.
इरावत्याः सुतो यस्मात्तस्मादैरावतः स्मृतः । देवराजोपवाह्यत्वात् प्रथमः स मतङ्गराट्। शुभ्राभ्रभाश्चतुर्द्दंष्ट्रः श्रीमानैरावतो गजः ॥ ८.
अप्सुजस्यैकमूलस्य सुवर्णाभस्य हस्तिनः । षड्दन्तस्य हि भद्रस्य औपावाह्यश्च वै बलः ॥ ८.
तस्य पुत्रोऽञ्जनश्चैव सुप्रतीकोऽथ वामनः। पद्मश्चैव चतुर्थोऽभूद्धस्तिनी चाभ्रमुस्तथा ॥ ८.
thumb|400px|दिग्गज1 दिग्गजांस्तांश्च चत्वारः श्वेताऽजनयताशुगान् । भद्रं मृगञ्च मन्दं च सङ्कीर्णं चतुरः सुतान् ॥ ८.
सङ्कीर्णोऽप्यञ्जनो यस्तु उपवाह्यो यमस्य तु। भद्रो यः सुप्रतीकस्तु हरितः स ह्यपाम्पतेः ॥ ८.
पद्मो मन्दस्तु यो गौरो द्विपो ह्यैलविलस्य सः। मृगः श्यामस्तु यो हस्ती उपवाह्यः स पावकैः ॥ ८.
पद्मोत्तरस्तु यः पद्मौ गजो वै वरुणो गणः। उपलेपनमेषश्च तस्याष्टौ जज्ञिरे सुताः ॥ ८.
उदग्रभावेनोपेता जायन्ते तस्य चान्वये। श्वेतबालनखाः पिङ्गा वर्ष्मवन्तो मतङ्गजाः। मतङ्गजान् प्रवक्ष्यामि नागानन्यानपि क्रमात् ॥ ८.
कपिलः पुण्डरीकश्च सुमनाभो रथान्तरः। जातौ नाम्ना सुतौ ताभ्यां सुप्रतिष्ठप्रमर्द्दनौ ॥ ८.