काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत् कलान्तम् । त्रिंशत् कलाश्चैव भवेन्मुहूर्त्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥ ५०.
ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमम्। सन्ध्या मुहूर्तमानन्तु ह्रासे वृद्धौ समा स्मृता ॥ ५०.
लेखाप्रभृत्यथादित्ये त्रिमुहूर्त्तागते तु वै। प्रातस्तनः स्मृतः कालो भागस्त्वह्नः स पञ्चमः ॥ ५०.
तस्मात् प्रातस्तनात्कालात् त्रिमुहूर्त्तस्तु सङ्गवः। मध्याह्नस्त्रिमुहूर्त्तस्तु तस्मात्कालाच्च सङ्गवात् ॥ ५०.
तस्मान्मध्यन्दिनात् कालादपराह्न इति स्मृतः । त्रय एव मुहूर्त्तास्तु तस्मात् कालाच्च मध्यमात् ॥ ५०.
अपराह्ने व्यतीपाते काल- सायाह्न उच्यते। दशपञ्चमुहूर्त्ताद्वै मुहूर्त्तास्त्रय एव च ॥ ५०.
दशपञ्चमुहूर्त्तं वै अहर्विषुवति स्मृतम्। दशपञ्चमुहूर्त्ताद्वै रात्रिन्दिवमिति स्मृतम् ॥ ५०.
वर्ध्धते ह्रसते चैव अयने दक्षिणोत्तरे। अहस्तु ग्रसते रात्रिं रात्रिस्तु ग्रसते त्वहः ॥ ५०.
शरद्वसन्तयोर्मध्ये विषुवन्तद्विभाव्यते। अहोरात्रं कलाश्चैव सप्त सोमः समश्रुते ॥ ५०.
तथा पञ्चदशाहानि पक्ष इत्याभिधीयते। द्वौ पक्षौ च भवेन्मासो द्वौ मासावन्तरावृतुः। ऋतुत्रयमयनं स्याद्द्वैऽयने वर्षमुच्यते ॥ ५०.
निमेषादिकृतः कालः काष्ठाया दश पञ्च च। कलायास्त्रिंशतः काष्ठा मात्राघीतिद्वयात्मिका ॥ ५०.
शतघ्नैकोनकास्त्रिंशन्मात्रात्रिशत् षडुत्तरा। द्विषष्टिभाक् त्रयोविंशन्मात्रायाञ्च चला भवेत् ॥ ५०.
चत्वारिंशत्सहस्राणि शतान्यष्टौ च विद्युतिः। सप्ततिञ्चापि तत्रैव नवतिं विद्धि निस्वये ॥ ५०.
चत्वार्येव शतान्याहुर्विद्युतौ वैधसंयुगे। चरांशो ह्येष विज्ञेयो नालिका चात्र कारणम् ॥ ५०.
संवत्सरादयः पञ्च चतुर्मानविकल्पिताः। निश्चयः सर्वकालस्य युग इत्यभिधीयते ॥ ५०.
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः। इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः। पञ्चमो वत्सरस्तेषां कालस्तु परिसंज्ञितः ॥ ५०.
विंशशतं भवेत्पूर्णं पर्वणां तु रवेर्युगम्। एतान्यष्टादशस्त्रिंशदुदयो भास्करस्य च ॥ ५०.
ऋतवस्त्रिंशतः सौरा अयनानि दशैव तु। पञ्चत्रिंशत् शतं चापि षष्टिर्मासाश्च भास्करः ॥ ५०.
त्रिंशदेव त्वहोरात्रं स तु मासश्च भास्करः। एकषष्टिस्त्वहोरात्रा दनुरेको निभाव्यते ॥ ५०.
अह्नान्तु त्र्यधिकाशीतिः शतं चाप्यधिकं भवेत्। मानं तच्चित्रभानोस्तु विज्ञेयं भुवनस्य तु ॥ ५०.
सौरसौम्यं तु विज्ञेयं नक्षत्रं सावनं तथा। नामान्येतानि चत्वारि यैः पुराणं विभाव्यते ॥ ५०.
खे तस्योत्तरतश्चैव श्रृङ्गवान्नाम पर्वतः। त्रीणि तस्य तु श्रृङ्गाणि स्पृशन्तीव नभस्तलम् ॥ ५०.
तैश्चापि श्रृङ्गवान्नाम सर्वतश्चैव विश्रुतः। एकमार्गश्च विस्तारो विष्कम्भश्चापि कीर्तितः ॥ ५०.
तस्य वै सर्वतः श्रृङ्गं मध्यमन्तद्धिरण्मयम्। दक्षिणं राजतञ्चैव श्रृङ्गं तु स्फटिकप्रभम् ॥ ५०.
सर्वरत्नमयं चैकं श्रृङ्गमुत्तरमुत्तमम्। एवं कूटैस्रिभिः शैलैः श्रृङ्गवानिति विश्रुतः ॥ ५०.
यत्तद्विषुवतं श्रृङ्गन्तदर्कः प्रतिपद्यते। शरद्वसन्तयोर्मध्ये मध्यमां गतिमास्थितः। अहस्तुल्यामथो रात्रिं करोति तिमिरापहः ॥ ५०.
हरिताश्च हया दिव्यास्ते नियुक्ता महारथे। अनुलिप्ता इवाभान्ति पझरक्तैर्गभस्तिभिः ॥ ५०.
मेषान्ते च तुलान्ते च भास्करोदयतः स्मृताः । मुहूर्त्ता दश पञ्चैव अहोरात्रिश्च तावती ॥ ५०.
कृत्तिकानां यदा सूर्यः प्रथमांशगतो भवेत् । विशाखानां तथा ज्ञेयश्चतुर्थांशे निशाकरः॥ ५०.
विशाखायां यदा सूर्य श्च्रतेंऽशं तृतीयकम्। तदा चन्द्रं विजानीयात् कृत्तिकाशिरसि स्थितम् ॥ ५०.