एकविंशद्योजनानां सहस्राणि समासतः। शते द्वे पुनरप्यन्ये योजनानां प्रकीर्त्तिते ॥ ५०.
एकविंशतिभिश्चैव योजनैरधिकैर्हि ते। एतत्प्रमाणमाख्यातं योजनैर्मण्डलं हि तत् ॥ ५०.
विष्कम्भो मण्डलस्यैष तिर्यक् स तु विधीयते। प्रत्यहञ्चरते तानि सूर्यो वै मण्डलक्रमम् ॥ ५०.
कुलालचक्रपर्यन्तो यथा शीघ्रं निवर्त्तते। दक्षिणे प्रक्रमे सूर्यस्तथा शीघ्रं निवर्त्तते ॥ ५०.
तस्मात् प्रकृष्टां भूमिञ्च कालेनाल्पेन गच्छति। सूर्यो द्वादशभिः शीघ्रं मुहूर्त्तेर्दक्षिणोत्तरे ॥ ५०.
त्रयोदशार्द्धमृक्षाणामह्नानुचरते रविः। मुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ ५०.
कुलालचक्रमध्यस्तु यथा मन्दं प्रसर्पति। तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥ ५०.
त्रयोदशार्द्धमर्द्धेन ऋक्षाणां चरते रविः। तस्माद्दीर्घेण कालेन भूमिमिल्पां निगच्छति ॥ ५०.
अष्टादशमुहूर्त्तैस्तु उत्तरायणपश्चिमम्। अहर्भवति तच्चापि चरते मन्दविक्रमः ॥ ५०.
त्रयोदशार्द्धमर्धेन ऋक्षाणाञ्चरते रविः। मुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ ५०.
ततो मन्दतरं ताभ्याञ्चक्रं भ्रमति वै यथा। मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै यथा ॥ ५०.
त्रिंशन्मुहूर्त्ताने वाहुरहोरात्रं ध्रुवो भ्रमन् । उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि सः ॥ ५०.
कुलालचक्रनाभिस्तु यथा तत्रैव वर्त्तते। ध्रुवस्तथा हि विज्ञेयस्तत्रैव परिवर्त्तते ॥ ५०.
उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु। दिवा नक्तञ्च सूर्यस्य मन्दा शीघ्रा च वै गतिः ॥ ५०.
उत्तरे प्रक्रमे त्विन्दो र्दिवा मन्दा गतिः स्मृता। तथैव च पुनर्नक्तं शीघ्रा सूर्यस्य वै गतिः ॥ ५०.
दक्षिणे प्रक्रमे चैव दिवा शीघ्रं विधीयते । गतिः सूर्यस्य नक्तं वै मन्दा चापि तथा स्मृता ॥ ५०.
एवं गतिविशेषेण विभजन् रात्र्यहानि तु। तथा विचरते मार्गं समेन विषमेण च ॥ ५०.
लोकालोके स्थिता ये ते लोकपालाश्चतुर्दिशम्। अगस्त्यश्चरते तेषामुपरिष्टाज्जवेन तु । भजन्नसावहोरात्रमेवङ्गतिविशेषणैः ॥ ५०.
दक्षिणे नागवीथ्यायां लोकालोकस्य चोत्तरम्। लोकसन्तारको ह्येष वैश्वानरपथाद्बहिः ॥ ५०.
पृष्ठे यावत् प्रभा सौही पुरस्तात् सम्प्रकाशते। पार्श्वयोः पृष्ठतस्तावल्लोकालोकस्य सर्वतः ॥ ५०.
योजनानां सहस्राणि दशोर्द्द्वन्तूच्छ्रितो गिरिः। प्रकाशश्चाप्रकाशश्च सर्वतः परिमण्डलः ॥ ५०.
नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह। अभ्यन्तरं प्रकाशन्ते लोकालोकस्य वै गिरेः ॥ ५०.
एतावानेव लोकस्तु निरालोकस्त्वतः परम्। लोकालोक एकधा तु निरालोकस्त्वनेकधा ॥ ५०.
लोकालोकन्तु सन्धत्ते यस्मात् सूर्यः परिग्रहम्। तस्मात्सन्ध्येति तामाहुरुषाव्युष्ट्योर्यदन्तरम् । उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि त्वहः स्मृतम् ॥ ५०.
सूर्यं हि ग्रसमानानां सन्ध्याकाले हि रक्षसाम्। प्रजापतिनियोगेन शापस्तेषां दुरात्मनाम् । अक्षयत्वञ्च देहस्य प्रापिता मरणं तथा ॥ ५०.
तिस्रः कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः। प्रार्थयन्ति सहस्रांशुमुदयन्ति दिने दिने। तापयन्तो दुरात्मानः सूर्यमिच्छन्ति खादितुम् ॥ ५०.
अथ सूर्यस्य तेषाञ्च युद्धमासीत् सुदारुणम्। ततो ब्रह्मा च देवाश्च ब्राह्मणाश्चैव सत्तमाः। सन्ध्येति समुपासन्तः क्षेपयन्ति महाजलम् ॥ ५०.
ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम्। तेन दह्यन्ति ते दैत्या वज्रभूतेन वारिणा ॥ ५०.
ततः पुनर्महातेजा महाद्युतिपराक्रमः. योजनानां सह स्राणि ऊर्द्ध्वमुत्तिष्ठते शतम् ॥ ५०.
ततः प्रयाति भगवान् ब्राह्मणैः परिवारितः। वालखिल्यैश्च मुनिभिः कृतार्थैः समरीचिभिः ॥ ५०.