दिनं सूर्यप्रकाशाख्यं तामसी रात्रिरुच्यते। तस्माद्व्यवस्थिता रात्रिः सूर्यावेक्ष्यमहः स्मृतम् ॥ ५०.
एवं पुष्करमध्येन यदा सर्पति भास्करः। त्रिंशां शकन्तु मेदिन्या मुहूर्तेनैव गच्छति ॥ ५०.
योजनाग्रान्मुहूर्त्तस्य इमां सङ्ख्यां निबोधत। पूर्णं शतसहस्राणामेकत्रिंशत्तु सा स्मृता ॥ ५०.
पञ्चाशत्तु तथान्यानि सहस्राण्यधिकानि तु। मौहूर्त्तिकी गतिर्ह्येषा सूर्यस्य तु विधीयते ॥ ५०.
एतेन गतियोगेन यदा काष्ठान्तु दक्षिणाम्। पर्य्यागच्छेत्तदादित्यो माघे काष्ठान्तमेव हि ॥ ५०.
सर्पते दक्षिणायान्तु काष्ठायां तन्निबोधत। नवकोट्यः प्रसङ्ख्याता योजनैः परिमण्डलम् ॥ ५०.
तथा शतसहस्राणि चत्वारिंशच्च पञ्च च। अहोरात्रात्पतङ्गस्य गतिरेषा विधीयते ॥ ५०.
दक्षिणाद्विनिवृत्तोऽसौ विषुवस्थो यदा रविः। क्षीरोदस्य समुद्रस्य उत्तरान्ता दिशश्चरन् ॥ ५०.
मण्डलं विषुवद्यापि योजनैस्तन्निबोधत। तिस्रः कोट्यस्तु विस्तीर्णा विषुवद्यापि सा स्मृता ॥ ५०.
तथा शतसहस्राणामशीत्येकाधिका पुनः । श्रवणे चोत्तरां काष्ठाञ्चित्रभानुर्यदा भवेत् । शाकद्वीपस्य षष्ठस्य उत्तरान्ता दिशश्चरन् ॥ ५०.
उत्तरायाञ्च काष्ठायां प्रमाणं मण्डलस्य च। योजनाग्रात्प्रसङ्ख्याता कोटिरेका तु सा द्विजैः ॥ ५०.
अशीतिर्नियुतानीह योजनानां तथैव च। अष्टपञ्चाशतञ्चैव योजनान्यधिकानि तु ॥ ५०.
नागवीथ्युत्तरावीथी अजवीथी च दक्षिणा। मूलं चैव तथाषाडे ह्यजवीथ्युदयास्त्रयः। अभिजित्पूर्वतः स्वातिर्नागवीथ्युदयास्त्रयः ॥ ५०.
काष्ठयोरन्तरं यच्च तद्वक्ष्ये योजनैः पुनः। एतच्छतसहस्राणामेकत्रिंशोत्तरं शतम् ॥ ५०.
त्रयस्त्रिंशाधिकाश्चान्ये त्रयस्त्रिंशच्च योजनैः। काष्ठयोरन्तरं ह्येतद्योजनाग्रात् प्रतिष्ठितम् ॥ ५०.
काष्ठयोर्लेखयोश्चैव अन्तरे दक्षिणोत्तरे । ते तु वक्ष्यामि सङ्ख्याय योजनैस्तन्निबोधत ॥ ५०.
एकैकमन्तरन्तस्या नियुतान्येकसप्ततिः। सहस्राण्यतिरिक्ताश्च ततोऽन्या पञ्चसप्ततिः ॥ ५०.
लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोः स्मृतम्। अभ्यन्तरन्तु पर्येति मण्डलान्युत्तरायणे ॥ ५०.
बाह्यतो दक्षिणे चैव सततन्तु यथाक्रमम्। मण्डलानां शतं पूर्णमशीत्यधिकमुत्तरम् ॥ ५०.
चरते दक्षिणे चापि तावदेव विभावसुः। प्रमाणं मण्डलस्याथ योजनाग्रान्निबोधत ॥ ५०.
एकविंशद्योजनानां सहस्राणि समासतः। शते द्वे पुनरप्यन्ये योजनानां प्रकीर्त्तिते ॥ ५०.
एकविंशतिभिश्चैव योजनैरधिकैर्हि ते। एतत्प्रमाणमाख्यातं योजनैर्मण्डलं हि तत् ॥ ५०.
विष्कम्भो मण्डलस्यैष तिर्यक् स तु विधीयते। प्रत्यहञ्चरते तानि सूर्यो वै मण्डलक्रमम् ॥ ५०.
कुलालचक्रपर्यन्तो यथा शीघ्रं निवर्त्तते। दक्षिणे प्रक्रमे सूर्यस्तथा शीघ्रं निवर्त्तते ॥ ५०.
तस्मात् प्रकृष्टां भूमिञ्च कालेनाल्पेन गच्छति। सूर्यो द्वादशभिः शीघ्रं मुहूर्त्तेर्दक्षिणोत्तरे ॥ ५०.
त्रयोदशार्द्धमृक्षाणामह्नानुचरते रविः। मुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ ५०.
कुलालचक्रमध्यस्तु यथा मन्दं प्रसर्पति। तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥ ५०.
त्रयोदशार्द्धमर्द्धेन ऋक्षाणां चरते रविः। तस्माद्दीर्घेण कालेन भूमिमिल्पां निगच्छति ॥ ५०.
अष्टादशमुहूर्त्तैस्तु उत्तरायणपश्चिमम्। अहर्भवति तच्चापि चरते मन्दविक्रमः ॥ ५०.
त्रयोदशार्द्धमर्धेन ऋक्षाणाञ्चरते रविः। मुहूर्त्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ ५०.