दक्षिणेन पुनर्मेरोर्मानसस्यैव मूर्द्धनि। वैवस्वतो निवसति यमः संयमने पुरे ॥ ५०.
प्रतीच्यान्तु पुनर्मेरोर्मानसस्यैव मूर्द्धनि। सुखा नाम पुरी रम्या वरुणस्याथ धीमतः ॥ ५०.
दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्द्धनि। तुल्या माहेन्द्रपुर्य्या तु सोमस्यापि विभावरी ॥ ५०.
मानसोत्तरपृष्ठे तु लोकपालाश्चतुर्द्दिशम्। स्थिता धर्म्मव्यवस्थायै लोकसंरक्षणाय च ॥ ५०.
लोकपालोपरिष्टात्तु सर्व्वतो दक्षिणायने। काष्ठागतस्य सूर्य्यस्य गतिर्या तां निबोधत ॥ ५०.
दक्षिणे प्रक्रमे सूर्य्यः क्षिप्तेषुरिव सर्पति। ज्योतिषाञ्चक्रमादाय सततं परिगच्छति ॥ ५०.
मध्यगश्चामरावत्यां यदा भवति भास्करः। वैवस्वते संयमने उदयस्तत्र उच्यते ॥ ५०.
सुखायामर्द्धरात्रञ्च मध्यगः स्याद्रविर्यदा। सुखायामथ वारुण्यामुत्तिष्ठन् स तु दृश्यते ॥ ५०.
विभायामर्द्धरात्रं स्यान्माहेन्द्य्रामस्तमेति च। तदा दक्षिणपूर्व्वेषामपराह्नो विधीयते ॥ ५०.
दक्षिणापर देश्यानां पूर्व्वाह्नः परिकीर्त्त्यते। तेषामपररात्रञ्च ये जना उत्तरापथे ॥ ५०.
देशा उत्तरपूर्व्वा ये पूर्व्वरात्रन्तु तान् प्रति। एवमेवोत्तरेष्वर्को भवनेषु विराजते ॥ ५०.
सुखायामथ वारुण्यां मध्याह्ने चार्य्यमा यदा। विभावर्य्यां सोमपुर्य्यामुत्तिष्ठति विभावसुः ॥ ५०.
रात्र्यर्द्धं चामरावत्यामस्तमेति यमस्य च। सोमपुर्यां विभायान्तु मध्याह्ने स्याद्धिवाकरः ॥ ५०.
महेन्द्रस्यामरावत्यामुत्तिष्ठति यदा रविः। अर्द्धरात्रं संयमने वारुण्यामस्तमेति च ॥ ५०.
स शीग्रमेति पर्य्येति भास्करोऽलातचक्रवत्। भ्रमन् वै भ्रममाणानि ऋक्षाणि गगने रविः ॥ ५०.
एवं चतुर्षु द्वीपेषु दक्षिणान्तेन सर्पति। उदयास्तमनेनासावुत्तिष्ठति पुनः पुनः ॥ ५०.
पूर्व्वाह्ने चापराह्ने तु द्वौ द्वौ देवालयौ तु सः। तपत्येकन्तु मध्याह्ने तैरेव तु सरश्मिभिः ॥ ५०.
उदितो वर्द्धमानाभिरामध्याह्नं तपन् रविः। अतः परं ह्रसन्तीभिर्गोभिरस्तं स गच्छति ॥ ५०.
उदयास्तमयाभ्यां हिस्मृते पूर्वापरे दिशो। यावत्पुरस्तात्तपति तावत् पृष्ठे तु पार्श्वयोः ॥ ५०.
यत्रोद्यन् दृश्यते सूर्यस्तेषां स उदयः स्मृतः। यत्र प्रणाशमायाति तेषामस्तः स उच्यते ॥ ५०.
सर्वेषामुत्तरे मेरुर्लोकालोकस्तु दक्षिणे। विदूरभावादर्कस्य भूमेर्लेखावृतस्य च। ह्रियन्ते रश्मयो यस्मात्तेन रात्रौ न दृश्यते ॥ ५०.
ग्रहनक्षत्रताराणां दर्शनं भास्करस्य च। उच्छ्रायस्य प्रमाणेन ज्ञेयमस्तमनोदयम् ॥ ५०.
शुक्लच्छायोग्निरापश्च कृष्णच्छाया च मेदिनी। विदूरभावादर्कस्य उद्यातस्य विरश्मिता। रक्ताबावो विरश्मित्वाद्रक्तत्वाच्चाप्यनुष्णता ॥ ५०.
लेखयावस्थितः सूर्यो यत्र यत्र तु दृश्यते। ऊर्द्ध्वं गतः सहस्रन्तु योजनानां स दृश्यते ॥ ५०.
प्रभा हि सौरी पादेन अस्तङ्गच्छति भास्करे। अग्निमाविशते रात्रौ तस्माद्दूरात् प्रकाशते ॥ ५०.
उदितस्तु पुनः सूर्यः अस्तमाग्नेयमाविशत्। संयुक्तो वह्निना सूर्यस्ततः स तपते दिवा ॥ ५०.
प्राकाश्यञ्च तथौष्ण्यञ्च सूर्याग्नेयी च तेजसी। परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ ५०.
उत्तरे चैव भूम्यर्द्धे तथा तस्मिंश्च दक्षिणे। उत्तिष्ठति तथा सूर्ये रात्रिराविशते त्वपः । तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् ॥ ५०.
अस्तं याति पुनः सूर्ये दिनं वै प्रविशत्यपः। तस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात् ॥ ५०.
एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे। उदयास्तमनेऽर्कस्य अहोरात्रं विशत्यपः ॥ ५०.