संस्थितिर्विहिता सर्वा येषु तिष्ठन्ति जन्तवः। एतदण्डकटाहस्य प्रमाणं परिकीर्त्तितम् ॥ ५०.
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी। भूर्लोकस्व भुवश्चैव तृतीयः स्वरिति स्मृतः । महर्लोको जनश्चैव तपः सत्यश्च सप्तमः ॥ ५०.
एते सप्त कृता लोकाश्छत्राकारा व्यवस्थिताः। स्वकैरावरणैः सूक्ष्मैर्धार्यमाणाः पृथक् पृथक् ॥ ५०.
दशभागाधिकाभिश्च ताभिः प्रकृतिभिर्बहिः। धार्यमाणा विशेषैश्च समुत्पन्नैः परस्परम् ॥ ५०.
अस्याण्डस्य समन्ताच्च सन्निविष्टो घनोदधिः। पृथिवीमण्डलं कृत्स्नं घनतोयेन धार्यते ॥ ५०.
घनोदधिपरेणाथ धार्य्यते घनतेजसा। बाह्यतो घनतेजस्तु तिर्य्यगूर्द्ध्वन्तु मण्डलम् ॥ ५०.
समन्ताद्वनवातेन धार्य्यमाणं प्रतिष्ठितम्। घनवातात्तथाकाशमाकाशञ्च महात्मना ॥ ५०.
भूतादिना वृतं सर्व्वं भूताधिर्महता वृतः । वृतो महाननन्तेन प्रधानेनाव्ययात्मना ॥ ५०.
पुराणि लोकपालानां प्रवक्ष्यामि यथाक्रमम् । ज्योतिर्गणप्रचारस्य प्रमाणं परिवक्ष्यते ॥ ५०.
मेरोः प्राच्यां दिशि तथा मानसस्यैव मूर्द्धनि। वस्वोकसारा माहेन्द्री पुण्या हेमपरिष्कृता । ५०.
दक्षिणेन पुनर्मेरोर्मानसस्यैव मूर्द्धनि। वैवस्वतो निवसति यमः संयमने पुरे ॥ ५०.
प्रतीच्यान्तु पुनर्मेरोर्मानसस्यैव मूर्द्धनि। सुखा नाम पुरी रम्या वरुणस्याथ धीमतः ॥ ५०.
दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्द्धनि। तुल्या माहेन्द्रपुर्य्या तु सोमस्यापि विभावरी ॥ ५०.
मानसोत्तरपृष्ठे तु लोकपालाश्चतुर्द्दिशम्। स्थिता धर्म्मव्यवस्थायै लोकसंरक्षणाय च ॥ ५०.
लोकपालोपरिष्टात्तु सर्व्वतो दक्षिणायने। काष्ठागतस्य सूर्य्यस्य गतिर्या तां निबोधत ॥ ५०.
दक्षिणे प्रक्रमे सूर्य्यः क्षिप्तेषुरिव सर्पति। ज्योतिषाञ्चक्रमादाय सततं परिगच्छति ॥ ५०.
मध्यगश्चामरावत्यां यदा भवति भास्करः। वैवस्वते संयमने उदयस्तत्र उच्यते ॥ ५०.
सुखायामर्द्धरात्रञ्च मध्यगः स्याद्रविर्यदा। सुखायामथ वारुण्यामुत्तिष्ठन् स तु दृश्यते ॥ ५०.
विभायामर्द्धरात्रं स्यान्माहेन्द्य्रामस्तमेति च। तदा दक्षिणपूर्व्वेषामपराह्नो विधीयते ॥ ५०.
दक्षिणापर देश्यानां पूर्व्वाह्नः परिकीर्त्त्यते। तेषामपररात्रञ्च ये जना उत्तरापथे ॥ ५०.
देशा उत्तरपूर्व्वा ये पूर्व्वरात्रन्तु तान् प्रति। एवमेवोत्तरेष्वर्को भवनेषु विराजते ॥ ५०.
सुखायामथ वारुण्यां मध्याह्ने चार्य्यमा यदा। विभावर्य्यां सोमपुर्य्यामुत्तिष्ठति विभावसुः ॥ ५०.
रात्र्यर्द्धं चामरावत्यामस्तमेति यमस्य च। सोमपुर्यां विभायान्तु मध्याह्ने स्याद्धिवाकरः ॥ ५०.
महेन्द्रस्यामरावत्यामुत्तिष्ठति यदा रविः। अर्द्धरात्रं संयमने वारुण्यामस्तमेति च ॥ ५०.
स शीग्रमेति पर्य्येति भास्करोऽलातचक्रवत्। भ्रमन् वै भ्रममाणानि ऋक्षाणि गगने रविः ॥ ५०.
एवं चतुर्षु द्वीपेषु दक्षिणान्तेन सर्पति। उदयास्तमनेनासावुत्तिष्ठति पुनः पुनः ॥ ५०.
पूर्व्वाह्ने चापराह्ने तु द्वौ द्वौ देवालयौ तु सः। तपत्येकन्तु मध्याह्ने तैरेव तु सरश्मिभिः ॥ ५०.
उदितो वर्द्धमानाभिरामध्याह्नं तपन् रविः। अतः परं ह्रसन्तीभिर्गोभिरस्तं स गच्छति ॥ ५०.
उदयास्तमयाभ्यां हिस्मृते पूर्वापरे दिशो। यावत्पुरस्तात्तपति तावत् पृष्ठे तु पार्श्वयोः ॥ ५०.
यत्रोद्यन् दृश्यते सूर्यस्तेषां स उदयः स्मृतः। यत्र प्रणाशमायाति तेषामस्तः स उच्यते ॥ ५०.