स जिह्वामालया देवो लोलज्वालानलार्चिषा। ज्वालामालापरिक्षिप्तः कैलास इव लक्ष्यते ॥ ५०.
स तु नेत्रसहस्रेण द्विगुणेन विराजता। बालसूर्य्याभिताम्रेण शोभते स्निग्धमण्डलः ॥ ५०.
तस्य कुन्देन्दुवर्णस्य अक्षमाला विराजते । तरुणादित्यमालेव श्वेतपर्व्वतमूर्द्धनि ॥ ५०.
जटाकरालो द्युतिमान् लक्ष्यते शयनासने। विस्तीर्ण इव मेदिन्यां सहस्रशिखरो गिरिः ॥ ५०.
महाभोगैर्महाभागैर्महानागैर्महाबलैः। उपास्यते महातेजा महानागपतिः स्वयम् ॥ ५०.
स राजा सर्वनागानां शेषो नाम महाद्युतिः। सा वैष्णवी ह्यहितनुर्मर्यादायां व्यवस्थिता ॥ ५०.
सप्तैवमेते कथिता व्यवहार्या रसातलाः । देवासुरमहानागराक्षसाध्युषिताः सदा ॥ ५०.
अतःपरमनालोक्यमगम्यं सिद्धसाधुभिः। देवा मानप्यविदितं व्यवहारविवर्ज्जितम् ॥ ५०.
पृथिव्यग्न्यम्बुवायूनां नभसश्च द्विजोत्तमाः। महत्त्वमेवमृषिभिर्वर्ण्यते नात्र संशयः ॥ ५०.
अत ऊर्द्ध्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम्। सूर्याचन्द्रमसावेतौ भ्रमन्तौ यावदेव तु। प्रकाशतः स्वभाभिस्तौ मण्डलाभ्यां समास्थितौ ॥ ५०.
सप्तानाञ्च समुद्राणां द्वीपानान्तु स विस्तरः। विस्तरार्द्धं पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥ ५०.
पर्यासपारिमाण्यन्तु चान्द्रादित्यौ प्रकाशतः। पर्यासपारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम् ॥ ५०.
अवति त्रीनिमान् लोकान् यस्मात् सूर्यः परिभ्रमन्। अवधातुः प्रकाशाख्यो ह्यवनात्स रविः स्मृतः ॥ ५०.
अतः परं प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः। महितत्वान्महीशब्दो ह्यस्मिन् वर्षे निपात्यते ॥ ५०.
अस्य भारतवर्षस्य विष्कम्भन्तु सुविस्तरम्। मण्डलं भास्करस्याथ योजनानां निबोधत ॥ ५०.
नवयोजनसाहस्रो विस्तारो भास्करस्य तु। विस्तारात्र्रिगुणश्चास्य परिणाहोऽथ मण्डलम्। विष्कम्बो मण्जलस्यैव भास्कराद् द्विगुणः शशी ॥ ५०.
अतः पृथिव्यां वक्ष्यामि प्रमाणं योजनैः सह। सप्तद्वीपसमुद्राया विस्तारो मण्जलञ्च यत् ॥ ५०.
इत्येतदिह सङ्ख्यातं पुराणं परिमाणतः। तद्वक्ष्यामि प्रसङ्ख्याय साम्प्रतैरभिमानिभिः ॥ ५०.
अभिमानिव्यतीता ये तुल्यास्ते साम्प्रतैरिह। देवा ये वै ह्यतीतास्ते रूपैर्नामभिरेव च ॥ ५०.
तस्मात्तु साम्प्रतैर्देवैर्वक्ष्यामि वसुधातलम्। दिवस्तु सन्निवेशो वै साम्प्रतैरेव कृत्स्नशः ॥ ५०.
शतार्द्ध कोटिविस्तारा पृथिवी कृत्स्नतः स्मृता। तस्या वार्धप्रमाणेन मेरोर्वै चातुरन्तरम् ॥ ५०.
पृथिव्या वार्धविस्तारो योजनाग्रात्प्रकीर्त्तितः । मेरुमध्यात् प्रति दिशं कोटिरेकादश स्मृताः ॥ ५०.
तथा शतसहस्राणि एकोननवतिः पुनः। पञ्चाशच्च सहस्राणि पृथिव्या वार्धविस्तरः ॥ ५०.
पृथिव्या विस्तरं कृत्स्नं योजनैस्तन्निबोधत। तिस्रः कोट्यस्तु विस्तारः संख्यातः स चतुर्दिशम् ॥ ५०.
तथा शतसहस्राणामेकोनाशीतिरुच्यते। सप्तद्वीपसमुद्रायाः पृथिव्यास्त्वेष विस्तरः ॥ ५०.
विस्तारात् त्रिगुण़ञ्चैव पृथिव्यन्तस्य मण्डलम्। गणितं योजनाग्रन्तु कोट्यस्त्वेकादश स्मृताः ॥ ५०.
तथा शतसहस्रन्तु सप्त त्रिंशाधिकानि तु। इत्येतद्वै प्रसङ्ख्यातं पृथिव्यन्तस्य मण्डलम् ॥ ५०.
तारकासन्निवेशस्य दिवि यावद्धि मण्डलम्। पर्यासः सन्निवेशस्य भूमस्तावत्तु मण्डलम् ॥ ५०.
पर्यासपारिमाण्डेन भूमेस्तुल्यं दिवं स्मृतम्। सप्तानामपि लोकानामेतन्मानं प्रकीर्तितम् ॥ ५०.
पर्यासपारिमाण्डेन मण्डलानुगतेन च। उपर्युपरि लोकानां छत्रवत्परिमण्डलम् ॥ ५०.