षष्ठे तले दैत्यपतेः केसरेर्नगरोत्तमम्। सुपर्व्वणः सुलोम्नश्च नगरं महिषस्य च। राक्षसेन्द्रस्य च पुरमुत्क्रोशस्य महात्मनः ॥ ५०.
तत्रास्ते सुरसापुत्रः शतशीर्षो मुदा युतः। कश्यपस्य सुतः श्रीमान् वासुकिर्नाम नागराट् ॥ ५०.
एवं पुरसहस्राणि नागदानवरक्षसाम् । षष्ठे तलेऽस्मिन् विख्याते शिलाभौमे रसातले ॥ ५०.
सप्तमे तु तले ज्ञेयं पाताले सर्व्वपश्चिमे । पुरं बलेः प्रमुदितं नरनारीसमाकुलम् ॥ ५०.
असुराशीविषैः पूर्णमुद्धृतैर्द्देवशत्रुभिः। मुचुकुन्दस्य दैत्यस्य तत्र वै नगरं महत् ॥ ५०.
अनेकैर्दितिपुत्राणां समुदीर्णैर्महापुरैः। तथैव नागनगरैऋद्धिमद्भिः सहस्रशः ॥ ५०.
दैत्यानां दानवानाञ्च समुदीर्णै र्महापुरैः। उदीर्णै राक्षसावासैरनेकैश्च समाकुलम् ॥ ५०.
पातालान्ते च विप्रेन्द्रा विस्तीर्णे बहुयोजने। आस्ते रक्तारविन्दाक्षो महात्मा ह्यजरामरः ॥ ५०.
धौतशङ्खोदरवपुर्नीलवासा महाभुजः। विशालभोगो द्युतिमांश्चित्रमालाधरो बली ॥ ५०.
रुक्मश्रृङगावदातेन दीप्तास्येन विराजता। प्रभुर्मुखसहस्रेण शोभते वै स कुण्डली ॥ ५०.
स जिह्वामालया देवो लोलज्वालानलार्चिषा। ज्वालामालापरिक्षिप्तः कैलास इव लक्ष्यते ॥ ५०.
स तु नेत्रसहस्रेण द्विगुणेन विराजता। बालसूर्य्याभिताम्रेण शोभते स्निग्धमण्डलः ॥ ५०.
तस्य कुन्देन्दुवर्णस्य अक्षमाला विराजते । तरुणादित्यमालेव श्वेतपर्व्वतमूर्द्धनि ॥ ५०.
जटाकरालो द्युतिमान् लक्ष्यते शयनासने। विस्तीर्ण इव मेदिन्यां सहस्रशिखरो गिरिः ॥ ५०.
महाभोगैर्महाभागैर्महानागैर्महाबलैः। उपास्यते महातेजा महानागपतिः स्वयम् ॥ ५०.
स राजा सर्वनागानां शेषो नाम महाद्युतिः। सा वैष्णवी ह्यहितनुर्मर्यादायां व्यवस्थिता ॥ ५०.
सप्तैवमेते कथिता व्यवहार्या रसातलाः । देवासुरमहानागराक्षसाध्युषिताः सदा ॥ ५०.
अतःपरमनालोक्यमगम्यं सिद्धसाधुभिः। देवा मानप्यविदितं व्यवहारविवर्ज्जितम् ॥ ५०.
पृथिव्यग्न्यम्बुवायूनां नभसश्च द्विजोत्तमाः। महत्त्वमेवमृषिभिर्वर्ण्यते नात्र संशयः ॥ ५०.
अत ऊर्द्ध्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम्। सूर्याचन्द्रमसावेतौ भ्रमन्तौ यावदेव तु। प्रकाशतः स्वभाभिस्तौ मण्डलाभ्यां समास्थितौ ॥ ५०.
सप्तानाञ्च समुद्राणां द्वीपानान्तु स विस्तरः। विस्तरार्द्धं पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥ ५०.
पर्यासपारिमाण्यन्तु चान्द्रादित्यौ प्रकाशतः। पर्यासपारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम् ॥ ५०.
अवति त्रीनिमान् लोकान् यस्मात् सूर्यः परिभ्रमन्। अवधातुः प्रकाशाख्यो ह्यवनात्स रविः स्मृतः ॥ ५०.
अतः परं प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः। महितत्वान्महीशब्दो ह्यस्मिन् वर्षे निपात्यते ॥ ५०.
अस्य भारतवर्षस्य विष्कम्भन्तु सुविस्तरम्। मण्डलं भास्करस्याथ योजनानां निबोधत ॥ ५०.
नवयोजनसाहस्रो विस्तारो भास्करस्य तु। विस्तारात्र्रिगुणश्चास्य परिणाहोऽथ मण्डलम्। विष्कम्बो मण्जलस्यैव भास्कराद् द्विगुणः शशी ॥ ५०.
अतः पृथिव्यां वक्ष्यामि प्रमाणं योजनैः सह। सप्तद्वीपसमुद्राया विस्तारो मण्जलञ्च यत् ॥ ५०.
इत्येतदिह सङ्ख्यातं पुराणं परिमाणतः। तद्वक्ष्यामि प्रसङ्ख्याय साम्प्रतैरभिमानिभिः ॥ ५०.
अभिमानिव्यतीता ये तुल्यास्ते साम्प्रतैरिह। देवा ये वै ह्यतीतास्ते रूपैर्नामभिरेव च ॥ ५०.
तस्मात्तु साम्प्रतैर्देवैर्वक्ष्यामि वसुधातलम्। दिवस्तु सन्निवेशो वै साम्प्रतैरेव कृत्स्नशः ॥ ५०.