एतावान् सन्निवेशस्तु मया शक्यः प्रभावितु म्। एतावदेव श्रोतव्यं सन्निवेशे तु पार्थिव ।। ४९.
सप्त प्रकृतयस्त्वेता धारयन्ति परस्परम्। तास्वल्पपरिमाणेन प्रसङ्ख्यातुमिहोच्यते। असङ्ख्येयाः प्रकृतयस्तिर्यगूर्द्ध्वमधश्च याः ।। ४९.
तारकासन्निवेशश्च यावद्दिव्यं तु मण्जलम्। मर्यादासन्निवेशस्तु भूमेस्तदनुमण्डलम्। अतः परं प्रवक्ष्यामि पृथिव्यां वै द्विजोत्तमाः ।। ४९.
अधःप्रमाणमूर्द्ध्वञ्च वर्ण्यमानं निबोधत। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। अनन्तधातवो ह्येते व्यापकास्तु प्रकीर्तिताः ॥ ५०.
जननी सर्वभूतानां सर्व भूतधरा धरा। नानाजनपदाकीर्णा नानाधिष्ठानपत्तना ॥ ५०.
नानानदनदीशैला नैकजातिसमाकुला। अनन्ता गीयते देवी पृथिवी बहुविस्तरा ॥ ५०.
नदीनदसमुद्रस्थास्तथा क्षुद्राश्रयाः स्थिताः। पर्वताकाशसंस्थाश्च अन्तर्भूमिगताश्च याः ॥ ५०.
आपोऽनन्ताश्च विज्ञेयास्तथाग्निः सर्वलौकिकः। अनन्तः पठ्यते चैव व्यापकः सर्वसम्भवः ॥ ५०.
तथाकाशमनालम्बं रम्यं नानाश्रयं स्मृतम्। अनन्तं प्रथितं सर्वं वायुश्चाकाशसम्भवः ॥ ५०.
आपः पृथिव्यामुदके पृथिवी चोपरि स्थिता। आकाशञ्चापरमधः पुनर्भूमिः पुनर्ज्जलम् ॥ ५०.
एवमन्तमनन्तस्य भौतिकस्य न विद्यते। पुरा सुरैरभिहितं निश्चितन्तु निबोधत ॥ ५०.
भूमिर्जलमथाकाशमिति ज्ञेया परम्परा। स्थितिरेषा तु विज्ञेया सप्तमेऽस्मिन् रसातले ॥ ५०.
दशयोजनसाहस्रमेकभौमं रसातलम्। साधुभिः परिविख्यातमेकैकं बहुविस्तरम् ॥ ५०.
प्रथममतलञ्चैव सुतलन्तु ततः परम्। ततः परतरं विद्याद्वितलं बहुविस्तरम् ॥ ५०.
ततो गभस्तलं नाम परतश्च महातलम्। श्रीतलञ्च ततः प्राहुः पातालं सप्तमंस्मृतम् ॥ ५०.
कृष्णभौमञ्च प्रथमं भूमिभागञ्च कीर्त्तितम्। पाण्डुभौमं द्वितीयन्तु तृतीयं रक्तमृत्तिकम् ॥ ५०.
पीतभौमञ्चतुर्थन्तु पञ्चमं शर्करातलम्। षष्ठं सिलामयञ्चैव सौवर्णं सप्तमन्तलम् ॥ ५०.
प्रथमे तु तले ख्यातमसुरेन्द्रस्य मन्दिरम्। नमुचेरिन्द्रशत्रोर्हि महानादस्य चालयम् ॥ ५०.
पुरञ्च शङ्कुकर्णस्य कबन्धस्य च मन्दिरम्। निष्कुलादस्य च पुरं प्रहृष्टजनसङ्कुलम् ॥ ५०.
राक्षसस्य च भीमस्य शूलदन्तस्य चालयम्। लोहिताक्षकलिङ्गानां नगरं श्वापदस्य तु ॥ ५०.
धनञ्जयस्य च पुरं माहेन्द्रस्य महात्मनः । कालियस्य च नागस्य नगरं कलसस्य च ॥ ५०.
एवं पुरसहस्राणिं नागदानवरक्षसाम्। तले ज्ञेयानि प्रथमे कृष्णभौमे न संशयः ॥ ५०.
द्वितीयेऽपि तले विप्रा दैत्येन्द्रस्य सुरक्षसः। महाजम्भस्य च तथा नगरं प्रथमस्य तु ॥ ५०.
हयग्रीवस्य कृष्णस्य निकुम्भस्य च मन्दिरम्। शङ्खाख्येयस्य च पुरं नगरं गोमुखस्य च ॥ ५०.
राक्षसस्य च नीलस्य मेघस्य क्रथनस्य च। पुरञ्च कुरुपादस्य महोष्णीषस्य चालयम् ॥ ५०.
कम्बलस्य च नागस्य पुरमश्वतरस्य च। कद्रुपुत्रस्य च पुरं तक्षकस्य महात्मनः ॥ ५०.
एवं पुरसहस्राणि नागदानवरक्षसाम्। द्वितीयेऽस्मिन् तले विप्राः पाण्डुभौमे न संशयः ॥ ५०.
तृतीये तु तलेख्यातं प्रह्लादस्य महात्मनः। अनुह्लादस्य च पुरं देत्येन्द्रस्य महात्मनः ॥ ५०.
तारकाख्यस्य च पुरं पुरं त्रिशिरसस्तथा। शिशुमारस्य च पुरं हृष्टपुष्टजनाकुलम् ॥ ५०.
च्यवनस्य च विज्ञेयं राक्षसस्य च मन्दिरम्। राक्षसेन्द्रस्य च पुरंकुम्भिलस्य खरस्यच ॥ ५०.