आपातालाद्दिवं यावदत्र पञ्चविधा गतिः। प्रमाणमेतज्जगत एष संसारसागरः ।। ४९.
अनाद्यन्ता प्रयात्येवं नैकजातिसमुद्भवाः। विचित्रा जगतः सा वै प्रवृत्तिरनवस्थिता ।। ४९.
यथैतद् भौतिकं नाम निसर्गबहुविस्तरम्। अतीन्द्रियैर्महाभागैः सिद्धैरपि न लक्ष्यते ।। ४९.
पृथिव्याञ्चाग्निवायूनां महतस्तमसस्तथा। ईश्वरस्य तु देवस्य अनन्तस्य द्विजोत्तमाः ।। ४९.
क्षयो वा परिमाणं वा अन्तो वापि न विद्यते। अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते। तस्य चोक्तं मया पूर्वं तस्मिन्नामानुकीर्त्तने ।। ४९.
य एष शिवनाम्ना हि तद्वः कार्त्स्न्येन कीर्तितम्। स एष सर्वत्र गतः सर्वस्थानेषु पूज्यते ।। ४९.
भूमौ रसातले चैव आकाशे पवनेऽनले। अर्णवेषु च सर्वेषु दिवि चैव न संशयः ।। ४९.
तथा तपसि विज्ञेय एष एव महाद्युतिः। अनेकधा विभक्ताङ्गो महायोगी महेश्वरः। सर्वलोकेषु लोकेश इज्यते बहुधा प्रभुः ।। ४९.
एवं परस्परोत्पन्ना धार्यन्ते च परस्परान्। आधाराधेयभावेन विकारास्ते विकारिणः ।। ४९.
पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम्। परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम् ।। ४९.
यस्माद्विष्टाश्च तेऽन्योन्यं तस्मात् स्थैर्यमुपागताः। प्रागासन् ह्यविशेषास्तु विशेषान्योन्यवेशनात्। पृथिव्याद्याश्च वाय्वन्ताः परिच्छिन्नास्त्रयस्तु ते ।। ४९.
गुणापचयसारेण परिच्छेदो विशेषतः। शेषाणां तु परिच्छेदः सौक्ष्म्यान्नेह विभाव्यते ।। ४९.
भूतेभ्यः परतस्तेभ्यो ह्यालोकः परतः स्मृतः। भूतान्यालोक आकाशे परिच्छिन्नानि सर्वशः ।। ४९.
पात्रे महति पात्राणि यथैवान्तर्गतानि तु। भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात्। तथा ह्यालोक आकाशे भेदास्त्वन्तर्गता मताः ।। ४९.
कृत्स्नान्येतानि चत्वारि अन्योन्यस्याधिकानि तु । यावदेतानि भूतानि तावदुत्पत्ति रुच्यते ।। ४९.
जन्तूनामिह संस्कारो भूतेष्वन्तर्गतो मताः। प्रत्याख्याय च भूतानि कार्योत्पत्तिर्न विद्यते ।। ४९.
तस्मात्परिमिता भेदाः स्मृताः कार्यात्मकास्तु ते। कारणात्मकास्तथैव स्युर्भेदा ये महदादयः ।। ४९.
इत्येष सन्निवेशो वो मया प्रोक्तो विभागशः। सप्तद्वीपसमुद्राया याथातथ्येन वै द्विजाः ।। ४९.
विस्तारान्मण्जलाच्चैव प्रसंख्यातेन चैव हि । वैश्वरूपं प्रधानस्य परिमाणैकदेशिकम् ।। ४९.
अदिष्ठानं भगनतो यस्य सर्वमिदं जगत् । एवं भूतगणाः सप्त सन्निविष्टाः परस्परम् ।। ४९.
एतावान् सन्निवेशस्तु मया शक्यः प्रभावितु म्। एतावदेव श्रोतव्यं सन्निवेशे तु पार्थिव ।। ४९.
सप्त प्रकृतयस्त्वेता धारयन्ति परस्परम्। तास्वल्पपरिमाणेन प्रसङ्ख्यातुमिहोच्यते। असङ्ख्येयाः प्रकृतयस्तिर्यगूर्द्ध्वमधश्च याः ।। ४९.
तारकासन्निवेशश्च यावद्दिव्यं तु मण्जलम्। मर्यादासन्निवेशस्तु भूमेस्तदनुमण्डलम्। अतः परं प्रवक्ष्यामि पृथिव्यां वै द्विजोत्तमाः ।। ४९.
अधःप्रमाणमूर्द्ध्वञ्च वर्ण्यमानं निबोधत। पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्। अनन्तधातवो ह्येते व्यापकास्तु प्रकीर्तिताः ॥ ५०.
जननी सर्वभूतानां सर्व भूतधरा धरा। नानाजनपदाकीर्णा नानाधिष्ठानपत्तना ॥ ५०.
नानानदनदीशैला नैकजातिसमाकुला। अनन्ता गीयते देवी पृथिवी बहुविस्तरा ॥ ५०.
नदीनदसमुद्रस्थास्तथा क्षुद्राश्रयाः स्थिताः। पर्वताकाशसंस्थाश्च अन्तर्भूमिगताश्च याः ॥ ५०.
आपोऽनन्ताश्च विज्ञेयास्तथाग्निः सर्वलौकिकः। अनन्तः पठ्यते चैव व्यापकः सर्वसम्भवः ॥ ५०.
तथाकाशमनालम्बं रम्यं नानाश्रयं स्मृतम्। अनन्तं प्रथितं सर्वं वायुश्चाकाशसम्भवः ॥ ५०.
आपः पृथिव्यामुदके पृथिवी चोपरि स्थिता। आकाशञ्चापरमधः पुनर्भूमिः पुनर्ज्जलम् ॥ ५०.