तस्मात्परेण शैलस्तु मर्यादान्ते तु मण्डलम्। प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ।। ४९.
आलोकस्तस्य चार्वाक्तु निरालोकस्ततः परम्। योजनानां सहस्राणि दश तस्योच्छ्रयः स्मृतः ।। ४९.
तावांश्च विस्तरस्तस्य पृथिव्यां कामगश्च सः। आलोके लोकशब्दस्तु निरालोके सलोकता। लोकार्थं सम्मतो लोको निरालोकस्तु बाह्यतः ।। ४९.
लोकविस्तारमात्रन्तु आलोकः सर्वतो बहिः। परिच्छिन्नः समन्ताच्च उदकेनावृतश्च सः। निरालोकात्परश्चापि अण्डमावृत्य तिष्ठति ।। ४९.
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी। भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा ।। ४९.
जनस्तपस्तथा सत्य एतावान् लोकसङ्ग्रहः। एकावानेव विज्ञेयो लोकान्तश्चैव तत्परः ।। ४९.
कुम्बस्थायी भवेद्यादृक् प्रतीच्यान्दिशि चन्द्रमाः। आदितः शुक्लपक्षस्य वपुरण्डस्य तद्विधम् ।। ४९.
अण्डानामीदृशानान्तु कोट्यो ज्ञेयाः सहस्रशः। तिर्यगूर्ध्वमधस्ताच्च कारणस्याव्ययात्मनः। कारणैः प्राकृतैस्तत्र ह्यावृतं प्रतिसप्तभिः ।। ४९.
दशाधिक्येन चान्योन्यं धारयन्ति परस्परम्। परस्परावृताः सर्वे उत्पन्नाश्च परस्परात् ।। ४९.
अण्डस्यास्य समन्तात्तु सन्निविष्टो घनोदधिः। समन्ताद्येन तोयेन धार्यमाणः स तिष्ठति ।। ४९.
बाह्यतो घनतोयस्य तिर्यगूर्द्ध्वानुमण्डलम्। धार्यमाणं समन्तात्तु तिष्ठते घनतेजसा ।। ४९.
अयोगुडनिभो वह्निः समन्तान्मण्डलाकृतिः। समन्ताद्धनवातेन धार्यमाणः स तिष्ठति। घनवातस्तथाकाशन्धारयाणस्तु तिष्ठति ।। ४९.
भूतादिश्च तथाकाशं भूताद्यञ्चाप्यसौ महान् । महान् व्याप्तो ह्यनन्तेन अव्यक्तेन तु धार्यते ।। ४९.
अनन्तमपरिव्यक्तन्दशधा सूक्ष्म एव च। अनन्तमकृतात्मानमनादिनिधनञ्च तत् ।। ४९.
अतीत्य पर तो घोरमनालम्बमनामयम्। नैकयोजनसाहस्रं विप्रकृष्टं तमोवृतम् ।। ४९.
तम एव निरालोकममर्यादमदेशिकम्। देवानामप्यविदिंतं व्यवहारविवर्ज्जितम् ।। ४९.
तमसोऽन्ते च विख्यातमाकाशान्ते च भास्वरम्। मर्यादायामतस्तस्य शिवस्यायतनं महत् ।। ४९.
त्रिदशानामगम्यन्तु स्थानं दिव्यमिति श्रुतिः। महतो देवदेवस्य मर्यादायां व्यवस्थितम् ।। ४९.
चन्द्रादित्यावतप्तास्तु ये लोकाः प्रथिता बुधैः। ते लोका इत्यभिहिता जगतश्च न संशयः ।। ४९.
रसातलतलात् सप्त सप्तैवोर्द्ध्वतलाः क्षितौ। सप्तस्कन्धास्तथा वायोः सब्रह्मसदना द्विजाः ।। ४९.
आपातालाद्दिवं यावदत्र पञ्चविधा गतिः। प्रमाणमेतज्जगत एष संसारसागरः ।। ४९.
अनाद्यन्ता प्रयात्येवं नैकजातिसमुद्भवाः। विचित्रा जगतः सा वै प्रवृत्तिरनवस्थिता ।। ४९.
यथैतद् भौतिकं नाम निसर्गबहुविस्तरम्। अतीन्द्रियैर्महाभागैः सिद्धैरपि न लक्ष्यते ।। ४९.
पृथिव्याञ्चाग्निवायूनां महतस्तमसस्तथा। ईश्वरस्य तु देवस्य अनन्तस्य द्विजोत्तमाः ।। ४९.
क्षयो वा परिमाणं वा अन्तो वापि न विद्यते। अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते। तस्य चोक्तं मया पूर्वं तस्मिन्नामानुकीर्त्तने ।। ४९.
य एष शिवनाम्ना हि तद्वः कार्त्स्न्येन कीर्तितम्। स एष सर्वत्र गतः सर्वस्थानेषु पूज्यते ।। ४९.
भूमौ रसातले चैव आकाशे पवनेऽनले। अर्णवेषु च सर्वेषु दिवि चैव न संशयः ।। ४९.
तथा तपसि विज्ञेय एष एव महाद्युतिः। अनेकधा विभक्ताङ्गो महायोगी महेश्वरः। सर्वलोकेषु लोकेश इज्यते बहुधा प्रभुः ।। ४९.
एवं परस्परोत्पन्ना धार्यन्ते च परस्परान्। आधाराधेयभावेन विकारास्ते विकारिणः ।। ४९.
पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम्। परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम् ।। ४९.