ऋषयो निवसन्त्यस्मिन् प्रजा यस्माच्चतुर्विधाः। तस्माद्वर्षमिति प्रोक्तं प्रजानां सुखदन्तु तत् ।। ४९.
ऋष इत्येव ऋषयः वृषः शक्तिप्रबन्धने। इति प्रबन्धनात् सिद्धं वर्षत्वं तेन तेषु तत् ।। ४९.
शुक्लपक्षे चन्द्रवृद्धौ समुद्रः पूर्यते तदा। प्रक्षीयमाणे बहुले क्षीयतेऽस्तमिते खगे ।। ४९.
आपूर्यमाणे उदधिः स्वत एवाभिपूर्यते। ततोऽपक्षीयमाणेऽपि स्वात्मनैवापकृष्यते ।। ४९.
उखास्थमग्निसंयोगात् जलमुद्रिच्यते यथा। तथा महोदधिगतं तोयमुद्रिच्यते ततः ।। ४९.
अन्यूनाह्यतिरिक्ताश्च वर्द्धन्त्यापो ह्रसन्ति च। उदयास्तमितैश्चेन्दोः पक्षयोः शुक्लकृष्णयोः। क्षयवृद्धिरेवमुदधेः सोमवृद्धिक्षयात्पुनः ।। ४९.
दशोत्तराणि पञ्चैव अङ्गुलीनां शतानि तु। अपां वृद्धिः क्षयो दृष्टः समुद्राणान्तु पर्वसु ।। ४९.
द्विरापत्वात् स्मृता द्वीपाः सर्वतश्चोदकावृताः। उदकस्याधानं यस्माच्च तस्मादुदधिरुच्यते ।। ४९.
अपर्वाणस्तु गिरयः पर्वभिः पर्वताः स्मृताः । प्लक्षद्वीपे तु गोमेदः पर्वतस्तेन चोच्यते ।। ४९.
शाल्मलिः शाल्मलद्वीपे पूज्यते च महाद्रुमाः। कुशद्वीपे कुशस्तम्बस्तस्य नाम्ना स उच्यते ।। ४९.
क्रौञ्चद्वीपे गिरिः क्रौञ्चो मध्ये जनपदस्य ह। शकद्वीपे द्रुमः शाकस्तस्य नाम्ना स उच्यते ।। ४९.
न्यग्रोधः पुष्करद्वीपे तत्र तैः स नमस्कृतः। महादेवः पुष्करे तु ब्रह्मा त्रिभुवनेश्वरः ।। ४९.
तस्मिन्निवसति ब्रह्मा साध्यैः सार्द्धं प्रजापतिः। उपासते तत्र देवास्त्रयस्त्रिंशन्महर्षिभिः। स तत्र पूज्यते चैव देवैर्देवोत्तमोत्तमः ।। ४९.
जम्बूद्वीपात्प्रवर्त्तन्ते रत्नानि विविधानि च। द्वीपेषु तेषु सर्वेषु प्रजानां हि क्रमास्त्विह ।। ४९.
सर्वसो ब्रह्मचर्येण सत्येन च दमेन च। आरोग्यायुःप्रमाणाद्धि द्विगुणञ्च समन्ततः ।। ४९.
एतस्मिन् पुष्करद्वीपे यदुक्तं वर्षकद्वयम्। गोपायति प्रजास्तत्र स्वयं सज्जनमण्डिताः ।। ४९.
ईश्वरो दण्डमुद्यम्य ब्रह्मा त्रिभुवनेश्वरः। सविष्णुः सशिवो देवः सपिता सपितामहः ।। ४९.
भोजनञ्चाप्रयत्नेन तत्र स्वयमुपस्थितम् । षड्रसं सुमहावीर्यं भुञ्जते च प्रजाः सदा ।। ४९.
परेण पुष्करस्याथ आवृत्या यः स्थितो महान् । स्वादूदकः समुद्रस्तु समन्तात्परिवेष्टितः ।। ४९.
परेण तस्य महती दृश्यते लोक संस्थितिः। काञ्चनी द्विगुणा भूमिः सर्वा चैकशिलोपमा ।। ४९.
तस्मात्परेण शैलस्तु मर्यादान्ते तु मण्डलम्। प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ।। ४९.
आलोकस्तस्य चार्वाक्तु निरालोकस्ततः परम्। योजनानां सहस्राणि दश तस्योच्छ्रयः स्मृतः ।। ४९.
तावांश्च विस्तरस्तस्य पृथिव्यां कामगश्च सः। आलोके लोकशब्दस्तु निरालोके सलोकता। लोकार्थं सम्मतो लोको निरालोकस्तु बाह्यतः ।। ४९.
लोकविस्तारमात्रन्तु आलोकः सर्वतो बहिः। परिच्छिन्नः समन्ताच्च उदकेनावृतश्च सः। निरालोकात्परश्चापि अण्डमावृत्य तिष्ठति ।। ४९.
अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी। भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्तथा ।। ४९.
जनस्तपस्तथा सत्य एतावान् लोकसङ्ग्रहः। एकावानेव विज्ञेयो लोकान्तश्चैव तत्परः ।। ४९.
कुम्बस्थायी भवेद्यादृक् प्रतीच्यान्दिशि चन्द्रमाः। आदितः शुक्लपक्षस्य वपुरण्डस्य तद्विधम् ।। ४९.
अण्डानामीदृशानान्तु कोट्यो ज्ञेयाः सहस्रशः। तिर्यगूर्ध्वमधस्ताच्च कारणस्याव्ययात्मनः। कारणैः प्राकृतैस्तत्र ह्यावृतं प्रतिसप्तभिः ।। ४९.
दशाधिक्येन चान्योन्यं धारयन्ति परस्परम्। परस्परावृताः सर्वे उत्पन्नाश्च परस्परात् ।। ४९.
अण्डस्यास्य समन्तात्तु सन्निविष्टो घनोदधिः। समन्ताद्येन तोयेन धार्यमाणः स तिष्ठति ।। ४९.