अनुगच्छन्ति तास्त्वन्या नदीनद्यः सहस्रशः। बहूदक परिस्रावा यतो वर्षति वासवः ।। ४९.
तासान्तु नामधेयानि परिमाणं तथैव च। न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः। ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ।। ४९.
शंशपायन विस्तीर्णो द्वीपोऽसौ चक्रसंस्थितः। नदीजलैः प्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः ।। ४९.
सर्वधातुविचित्रैश्च मणि विद्रुमभूषितैः। पुरैश्च विविधाकारैः स्फीतैर्जनपदैरपि ।। ४९.
वृक्षैः पुष्पफलोपेतैः समन्ताद्धनधान्यवान्। क्षीरोदेन समुद्रेण सर्वतः परिवारितः। शाकद्वीपस्तु विस्तारात् समेन तु समन्ततः ।। ४९.
तस्मिन् जनपदाः पुण्याः पर्वतान्तरिते शुभाः । वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः ।। ४९.
न सङ्करश्च तेष्वस्ति वर्णाश्रमकृतः व्कचित् । धर्मस्य चाव्यभीचारादेकान्तसुखिताः प्रजाः ।। ४९.
न तेषु लोभो माया वा ईर्ष्यासूयाऽधृतिः कुतः। विपर्ययो न तेष्वस्ति एतत् स्वाभाविकं स्मृतम् ।। ४९.
करोत्पत्तिर्नतेष्वस्ति न दण्डो न च दण्डकाः। स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ।। ४९.
एतावदेव शक्यं वै तस्मिन् द्वीपे निवासिनाम्। पुष्करं सप्तमं द्वीपं प्रवक्ष्यामि निबोधत ।। ४९.
पुष्करेण तु द्वीपेन वृतः क्षीरोदको बहिः। शाकद्वीपस्य विस्ताराद्द्विगुणेन समन्ततः ।। ४९.
पुष्करे पर्वतः श्रीमान् एक एव महाशिलः। चित्रै र्मणिमयैः शीलैः शिखरैस्तु समुच्छ्रितैः ।। ४९.
द्वीपस्य तस्य पूर्वार्द्धे चित्रसानुः स्थितो महान्। परिमण्डलसहस्राणि विस्तीर्णः पञ्चविंशतिः ।। ४९.
ऊर्द्द्वञ्चैव चतुस्त्रिशत्सहस्राणि समाचितः। द्वीपार्द्धस्य परिस्तोमः पर्वतो मानसोत्तमः ।। ४९.
स्थितो वेलासमीपे तु नवचन्द्र इवोदितः। योजनानां सहस्राणि ऊर्द्ध्वं पञ्चशदुच्छ्रितः ।। ४९.
तावदेव स विस्तीर्णः सर्वतः परिमण्डलः। स एवं द्वीपपश्चार्द्धे मानसः पृथिवीधरः ।। ४९.
एक एव महासानुः सन्निवेशाद्द्विधा कृतः। स्वादूदकेनोदधिना सर्वतः परिवारितः ।। ४९.
पुष्करद्वीपविस्ताराद्विस्तीर्णोऽसौ समन्ततः। तस्मिन् द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ। अभितो मानसस्याथ पर्वतस्यानुमण्डलौ ।। ४९.
महावीतन्तु यद्वर्षं बाह्यतो मानसस्य तत्। तस्यैवाभ्यन्तरे यत्तु धातकीखण्डमुच्यते ।। ४९.
दशवर्षसहस्राणि तत्र जेवन्ति मानवाः। आरोग्यसुखभूयिष्ठा मानसीं सिद्धिमास्थिताः ।। ४९.
सममायुश्च रूपञ्च तस्मिन् वर्षद्वये स्थितम्। अधमोत्तमौ न तेष्वास्तां तुल्यास्ते रूपशीलतः ।। ४९.
न तत्र वञ्चको नेर्ष्या न स्तेना न भयं तथा। निग्रहो न च दण्डोऽस्ति न लोभो न परिग्रहः ।। ४९.
सत्यानृतं न तत्रास्ति धर्माधर्मौ तथैव च। वर्णाश्रमाणां वार्त्ता वा पाशुपाल्यं वणिक्क्रिया ।। ४९.
त्रयी विद्या दण्डनीतिः शुश्रूषा शल्यमेव च। वर्षद्वये सर्वमेतत् पुष्करस्य न विद्यते ।। ४९.
न तत्र नद्यो वर्षञ्च शीतोष्णं वा न विद्यते । उद्भिज्जान्युदकान्यत्र गिरिप्रस्रवणानि च ।। ४९.
उत्तराणां कुरूणाञ्च तुल्यकालो जनः सदा। सर्वत्र सुसुखस्तत्र जराक्लमविवर्जितः ।। ४९.
इत्येष धातकीखण्डो महावीते तथैव च । आनुपूर्व्याद्विधिः कृत्स्नः पुष्करस्य प्रकीर्तितः ।। ४९.
स्वादूदकेनोदधिना पुष्करः परिवारितः। विस्तरान्मण्डलाच्चैव पुष्करस्य तथैव च ।। ४९.
एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः। द्वीपस्यानन्तरो यस्तु समुद्रस्तु समन्ततः ।। ४९.
एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परात्। अपाञ्चैव समुद्रेकात् समुद्रा इति संज्ञिताः ।। ४९.