अत ऊर्द्द्वं प्रवक्ष्यामि शाकद्वीपस्य यो विधिः। शाकद्वीपस्य कृत्स्नस्य यथावदिह निश्चयात्। श्रृणुध्वं वै यथातत्त्वं ब्रुवतो मे यथार्थवत् ।। ४९.
क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणस्तस्य विस्तरः। परिवार्य समुद्रं स दधिमण्डोदकं स्थितः ।। ४९.
तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः। कुत एव तु दुर्भिक्षञ्चराव्याधिभयं कुतः ।। ४९.
तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः। रत्नाकरास्तथा नद्यस्तासां नामानि मे श्रृणु ।। ४९.
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते। प्रागायतः स सौवर्ण उदयो नाम पर्वतः ।। ४९.
तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्ति च यान्ति च। तस्यापरेण सुमहान् जलधारो महागिरिः ।। ४९.
तस्मान्नित्यमुपादत्ते वासवः परमं जलम्। ततो वर्षं प्रभवति वर्षाकाले प्रजास्विह ।। ४९.
तस्यापरे रैवतको यत्र नित्यं प्रतिष्ठिता । रेवती दिवि नक्षत्रं पितामहकृतो गिरिः ।। ४९.
तस्यापरेण सुमहान् श्यामो नाम महागिरिः। तस्माच्छयामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ।। ४९.
तस्यापरेण रजतो महानस्तो गिरिः स्मृतः। तस्यापरेणाम्बिकेयो दुर्गः शैलो हिमाचितः ।। ४९.८२ . आम्बिकेयात्परो रम्यः सर्वौषधिसमन्वितः । स चैव केशरीत्युक्तो यतो वायुः प्रवायति ।। ४९.
श्रृणुध्वं नामतस्तानि यथावदनुपूर्वशः। उदयस्योदयं वर्षं जलदं नाम विश्रुतम् ।। ४९.
द्वितीयं जलधारस्य सुकुमारमिति स्मृतम्। रैवतस्य तु कौमारं श्यामस्य तु मणीचकम् ।। ४९.
अस्तस्यापि शुभं वर्षं विज्ञेयं कुसुमोत्तरम्। आम्बिकेयस्य मोदाकं केसरेषु महाद्रुमम् ।। ४९.
द्वीपस्य परिमाणञ्च ह्रस्वदीर्घत्वमेव च। शाकद्वीपेन विख्यातस्तस्य मध्ये वनस्पतिः । शाको नाम महावृक्षस्तस्य पूजां प्रयुञ्जते ।। ४९.
एतेन देवगन्धर्वाः सिद्धाश्च सह चारणैः। विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह ।। ४९.
तत्र पुण्या जनपदाश्चातुर्वर्णसमन्विताः। तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः । विद्धि नाम्नश्च ताः सर्वा गङ्गास्ताः सप्तधा स्मृताः ।। ४९.
प्रथमा सुकुमारीति गङ्गा शिवजला तथा। अनु तप्ता च नाम्नैव नदी सम्परिकीर्त्तिता ।। ४९.
कुमारी नामतः सिद्धा द्वितीया सा पुनः सती । नन्दा च पार्वती चैव तृतीय परिकीर्त्तिता ।। ४९.
शिवेतिका चतुर्थी स्यात् त्रिदिवा च पुनः स्मृता। इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः क्रतुः ।। ४९.
धेनुका च मृता चैव षष्ठी संपरिकीर्त्तिता। एताः सप्त महागङ्गाः प्रतिवर्षं शिवोदकाः। भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम् ।। ४९.
अनुगच्छन्ति तास्त्वन्या नदीनद्यः सहस्रशः। बहूदक परिस्रावा यतो वर्षति वासवः ।। ४९.
तासान्तु नामधेयानि परिमाणं तथैव च। न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः। ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते ।। ४९.
शंशपायन विस्तीर्णो द्वीपोऽसौ चक्रसंस्थितः। नदीजलैः प्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः ।। ४९.
सर्वधातुविचित्रैश्च मणि विद्रुमभूषितैः। पुरैश्च विविधाकारैः स्फीतैर्जनपदैरपि ।। ४९.
वृक्षैः पुष्पफलोपेतैः समन्ताद्धनधान्यवान्। क्षीरोदेन समुद्रेण सर्वतः परिवारितः। शाकद्वीपस्तु विस्तारात् समेन तु समन्ततः ।। ४९.
तस्मिन् जनपदाः पुण्याः पर्वतान्तरिते शुभाः । वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः ।। ४९.
न सङ्करश्च तेष्वस्ति वर्णाश्रमकृतः व्कचित् । धर्मस्य चाव्यभीचारादेकान्तसुखिताः प्रजाः ।। ४९.
न तेषु लोभो माया वा ईर्ष्यासूयाऽधृतिः कुतः। विपर्ययो न तेष्वस्ति एतत् स्वाभाविकं स्मृतम् ।। ४९.
करोत्पत्तिर्नतेष्वस्ति न दण्डो न च दण्डकाः। स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् ।। ४९.
एतावदेव शक्यं वै तस्मिन् द्वीपे निवासिनाम्। पुष्करं सप्तमं द्वीपं प्रवक्ष्यामि निबोधत ।। ४९.