कुस्तुम्बुरुं पिशङ्गाभं स्थूलकर्णं महाजयम्। श्वेतञ्च विपुलञ्चैव पुष्पवन्तं भयावहम् ॥ ८.
पद्मवर्णं सुनेत्रञ्च यक्षं बालं बकं तथा। कुमुदं क्षेमकञ्चैव वर्द्धमानं तथा दमम् ॥ ८.
पद्मनाभं वराङ्गञ्च सुवीरं विजयं कृतिम्। पूर्णमासं हिरण्याक्षं सुरूपञ्चैवमादयः ॥ ८.
पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः । सुरूपाश्च विरूपाश्च स्रग्विणः प्रियदर्शनाः। तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ८.
खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः । तेषां यथा प्रधानान् वै वर्ण्यमानान्निबोधत ॥ ८.
लालाविः कुथनो भीमः सुमाली मधुरेव च। विस्फूर्ज्जितो विद्युज्जिह्वो मातङ्गो धूम्रितस्तता ॥ ८.
चन्द्रार्कः सुकरो बुध्नः कपिलोमा प्रहासकः। क्रीडः परशुनाभश्च चक्राक्षश्च निशाचरः ॥ ८.
त्रिशिराः शतदंष्ट्रश्च तुण्डकेशश्च राक्षसः। यक्षश्चाकम्पनश्चैव दुर्मुखश्च शिलीमुखः ॥ ८.
इत्येते राक्षसवरा विक्रान्ता गणरूपिणः. सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः ॥ ८.
सप्त चान्या दुहितरस्ताः श्रृणुध्वं यथाक्रमम्। तासाञ्च यः प्रजासर्गो येन चोत्पादिता गणाः ॥ ८.
आलम्बा उत्कचा कृष्णा निऋतो कपिला शिवा। केशिनी च महाभागा भगिन्यः सप्त याः स्मृताः ॥ ८.
ताभ्यो लोकामिषादश्च हन्तारो युद्धदुर्मदाः। उदीर्णा राक्षसगणा इमे उत्पादिताः शुभाः ॥ ८.
आलम्बेयो गणः क्रूर उत्कचेयो गणस्तथा। तथा कार्ष्णेयशैवेया राक्षसा ह्युत्तमा गणाः ॥ ८.
तथैव नैऋतो नाम त्र्यम्बकानुचरेण ह। उत्पादितः प्रजासर्गो गणेश्वरचरेण तु ॥ ८.
उत्पादिता बलवता उदीर्णा यक्षराक्षसाः । विक्रान्ताः शौर्यसम्पन्ना नैऋता देवराक्षसाः। येषामधिपतिर्युक्तो नाम्ना ख्यातो विरूपकः ॥ ८.
तेषां गणशतानेका उद्धृतानां महात्मनाम्। प्रायेणानुचरन्त्येते शङ्करं जगतः प्रभुम् ॥ ८.
दैत्यराजेन कुम्भेन महाकाया महात्मना ।. उत्पादिता महावीर्या महाबलपराक्रमाः ॥ ८.
कपिलेया महावीर्या उदीर्णा दैत्यराक्षसाः। कम्पनेन च यक्षेण केशिन्यास्ते परे जनाः ॥ ८.
उत्पादिता महावाता उदीर्णा यक्षराक्षसाः। केशिनीदुहितुश्चैव नीलायाः क्षुद्रमानसाः ॥ ८.
आलम्बेयेन जनिता नैकाः सुरसिकेन हि। नैला इति समाख्याता दुर्जया घोरविक्रमाः ॥ ८.
चरन्ति पृतिवीं कृत्स्नां तत्र ते देवलौकिकाः। बहुत्वाच्चैव सर्गस्य तेषां वक्तुं न शक्यते ॥ ८.
तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी। दुहिता स्वभावविकचा मन्दसत्त्वपराक्रमा ॥ ८.
तस्या अपि विरूपेण नैऋतेनेह च प्रजाः। उत्पादिताः सुरा घोराः श्रृणु तास्त्वनुपूर्वशः ॥ ८.
दंष्ट्राकरालविकृता महाकर्णा महोदराः। हारका भीषकाश्चैव तथैव क्रामकाः परे ॥ ८.
वैनकाश्च पिशाचाश्च वाहकाः प्राशकाः परे। भूमिराक्षसका ह्येते मन्दाः पुरुषविक्रमाः ॥ ८.
चरन्त्यदृष्टपूर्वाश्च नानाकारा ह्यनेकशः। उत्कृष्ट बलसत्त्वा ये ते च वै खेचराः स्मृताः ॥ ८.
लक्षमात्रेण चाकाशं स्वल्पाः स्वल्पं चरन्ति वै । एतैर्व्याप्तमिमं लोकं शतशोऽथ सहस्रशः ॥ ८.
भूमी राक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः। नानाप्रकारैराक्रान्ता नानादेशाः समन्ततः ॥ ८.
समासाभिहताश्वैव ह्यष्टौ राक्षसमातरः। अष्टौ विभागा ह्येषां हि विख्याता अनुपूर्वशः ॥ ८.
भद्रका निकराः केचिद्यज्ञनिष्पत्तिहेतुकाः। सहस्रसतसङ्ख्याता मर्त्त्यलोकविचारिणः ॥ ८.