इत्येष सन्निवेशो वः शाल्मलस्यापि कीर्तितः। प्लक्षवृक्षेण संख्यातस्तस्य मध्ये महाद्रुमः ।। ४९.
शाल्मलिर्विपुलस्कन्ध स्तस्य नाम्ना स उच्यते। शाल्मलिस्तु समुद्रेण सुरोदेन समन्ततः। विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ।। ४९.
उत्तरेषु तु धर्मज्ञा द्वीपेषु श्रृणुत प्रजाः। यथाश्रुतं यथान्यायं ब्रुवतो मे निबोधत ।। ४९.
कुशद्वीपं प्रवक्ष्यामि चतुर्थं तं समासतः। सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ।। ४९.
सप्तैव गिरयस्तत्र वर्ण्यमानान्निबोधत। शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ।। ४९.
कुखद्वीपे तु विज्ञेयः पर्वतो विद्रुमोच्चयः। द्वीपस्य प्रथमस्तस्य द्वितीयो हेमपर्वतः ।। ४९.
तृतीयो द्युतिमान्नाम जीमूतसदृशो गिरिः। चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ।। ४९.
षष्ठो हरिगिरिर्नाम सप्तमो मन्दरः स्मृतः । मन्दा इति ह्यपां नाम मन्दरो दारणादपाम् ।। ४९.
तेषामन्तरविष्कम्भो द्विगुणः परिवारितः। उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ।। ४९.
तृतीयं स्वैरथाकारं चतुर्थं लवणं स्मृतम्। पञ्चमं धृतिमद्वर्षं षष्ठं वर्ष प्रभाकरम्। सप्तमं कपिलं नाम सप्तैते वर्षपर्वताः ।। ४९.
एतेषु देवगन्धर्वाः प्रभास्तु जगदीश्वराः। विहरन्ति रमन्ते च दृश्यमानास्तु वर्षशः ।। ४९.
न तेषु दस्यवः सन्ति म्लेच्छजात्यस्तथैव च। गौरप्रायो जनः सर्वः क्रमाच्च म्रियते तथा ।। ४९.
तत्रापि नद्यः सप्तैव धुतपापाः शिवास्तथा। पवित्रा सन्ततिश्चैव द्युतिगर्भा मही तथा ।। ४९.
अन्यास्ताभ्यः परिज्ञाताः शतशोऽथ सहस्रशः। अभिगच्छन्ति ताः सर्वा यतो वर्षति वासवः ।। ४९.
घृतोदेन कुशद्वीपो बाह्यतः परिवारितः। विज्ञेयः स तु विस्तारात् कुशद्वीपसमेन तु ।। ४९.
इत्येष सन्निवेशो वः कुशद्वीपस्य वर्णितः। क्रौञ्चद्वीपस्य विस्तारं वक्ष्याम्यहमतः परम् ।। ४९.
कुशद्वीपस्य विस्ताराद् द्विगुणः स तु वै स्मृतः। घृतोदकसमुद्रो वै क्रौञ्चद्वीपेन संवृतः ।। ४९.
तस्मिन् द्वीपे नगश्रेष्ठः क्रौञ्चस्थः प्रथमो गिरिः। क्रौञ्चात्परो वामनको वामनादन्धकारकः ।। ४९.
अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः। दिवावृतः परश्चपि दिविन्दो गिरिरुच्यते ।। ४९.
दिविन्दात्परतश्चापि पुण्डरीको महागिरिः। पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ।। ४९.
एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः। बहुवृक्षफलो पेता नानावृक्षलतावृताः ।। ४९.
परस्परेण द्विगुणा विष्कम्भाद्वर्षपर्व्वताः । वर्षाणि तत्र वक्ष्यामि नामतस्तु निबोधत ।। ४९.
क्रौञ्चस्य कुशली देशो वामनस्य मनोनुगः। मनोनुगात्परश्चोष्णस्तृतीयो देश उच्यते ।। ४९.
उष्णात्परः प्रावरकः प्रावरादन्धकारकः। अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ।। ४९.
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः। सिद्धचारणसङ्कीर्णो गौरप्रायो जनः स्मृतः ।। ४९.
तत्रापि नद्यः सप्तैव प्रति वर्ष स्मृताः शुभाः । गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा । ख्यातिश्च पुण्डरीका च गङ्गा सप्तविधा स्मृता ।। ४९.
तासां समुद्रगाश्चान्या नद्यो यास्तु समीपगाः। अनुगच्छन्ति ताः सर्वा विपुलाः सुबहूदकाः ।। ४९.
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन तु। आवृतः सर्वतः श्रीमान् क्रौञ्चद्वीपसमेन तु ।। ४९.
प्लक्षद्वीपादयो ह्येते समासेन प्रकीर्त्तिताः। तेषां निसर्गो द्वीपानामानुपूर्व्येण सर्वशः ।। ४९.
न शक्यं विस्तराद्वक्तु मपि वर्षशतैरपि । निसर्गोऽयं प्रजानां तु संहारो यश्च तासु वै ।। ४९.