पञ्चवर्षसहस्राणि तेषु जीवन्ति मानवाः। सुरूपाश्च सुवेषाश्च अरोगा बलिनस्तथा ।। ४९.
सुखमायुर्बलं रूपमारोग्यं धर्म एव च। प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपान्तकेषु च ।। ४९.
प्लक्षद्वीपः पृथुः श्रीमान् सर्वतो धनधान्यवान्। दिव्यौषधि फलोपेतः सर्वौषधिवनस्पतिः ।। ४९.
आवृतः पशुभिः सर्वैर्ग्रामारण्यैः सहस्रशः। जम्बूवृक्षेण संख्यातस्तस्य मध्ये द्विजोत्तमाः। प्लक्षो नाम्ना महावृक्षस्तस्य नाम्ना स उच्यते ।। ४९.
स तत्र पूज्यते स्थाणुर्मध्ये जनपदस्य हि। स चापीक्षुरसोद्देशः प्लक्षद्वीपसमावृतः। प्लक्षद्वीपस्य चैवेह वैपुल्याद्विस्तरेण तु ।। ४९.
इत्येष सन्निवेशोवः प्लक्षद्वीपस्य कीर्तितः। आनुपूर्व्या समासेन शाल्मलन्तन्निबोधत ।। ४९.
ततस्तृतीयं द्वीपानां शाल्मलं द्वीपमुत्तमम्। शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदकः। प्लक्षद्वीपस्य विस्ताराद्द्विगुणेन समावृतः ।। ४९.
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः। रत्नाकरास्तथा नद्यस्तेषु वर्षेषु सप्तसु ।। ४९.
प्रथमः सूर्यसङ्काशः कुमुदो नाम पर्वतः। सर्वधातुमयैः श्रृङ्गैः शिलाजालसमुद्गतैः ।। ४९.
द्वितीयः पर्वतस्तस्य उन्नतो नाम विश्रुतः। हरितालमयैः श्रृङ्गैर्दिवमावृत्य तिष्ठति ।। ४९.
तृतीयः पर्वतस्तस्य बलाहक इति श्रुतः। जात्यञ्जनमयैः श्रृङ्गैर्दिवमावृत्य तिष्ठति ।। ४९.
चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महाबलाः। विशल्यकरणी चैव मृतसञ्जीवनी तथा ।। ४९.
कङ्कस्तु पञ्चमस्तत्र पर्वतः सुमहोदयः। दिव्यपुष्पफलो पेतो वृक्षवीरुत्समावृतः ।। ४९.
षष्ठस्तु पर्वतस्तत्र महिषो मेघसन्निभः। यस्मिन् सोऽग्निर्निवसति महिषो नाम वारिजः ।। ४९.
सप्तमः पर्वतस्तत्र ककुझान्नाम भाष्यते। तत्र रत्नान्यनेकानि स्वयं वर्षति वासवः। प्रजापतिमुपादाय प्राजापत्ये विधिस्त्वयम् ।। ४९.
इत्येते पर्वताः सप्त शाल्मले मणिभूषिताः । तेषां वर्षाणि वक्ष्यामि सप्तैव तु शुभानि वै। कुमुदात् प्रथमं श्वेतमुन्नतस्य तु लोहितम् ।। ४९.
बलाहकस्य जीमूतं द्रोणस्य हरितं स्मृतम् । कङ्कस्य वैद्युतं नाम महिषस्य तु मानसम् ।। ४९.
ककुदः सुप्रभं नाम सप्तैतानि तु सप्तधा। वर्षाणि पर्वतांश्चैव नदीस्तेषु निबोधत ।। ४९.
पानितोया वितृष्णा च चन्द्रा शुक्रा विमोचनी। निवृत्तिः सप्तमी तासां प्रतिवर्षं तु ताः स्मृताः ।। ४९.
तासां समीपगाश्चान्याः शतशोऽथ सहस्रशः। अशक्याः परिसंख्यातुं श्रद्धेयास्तु बुभूषता ।। ४९.
इत्येष सन्निवेशो वः शाल्मलस्यापि कीर्तितः। प्लक्षवृक्षेण संख्यातस्तस्य मध्ये महाद्रुमः ।। ४९.
शाल्मलिर्विपुलस्कन्ध स्तस्य नाम्ना स उच्यते। शाल्मलिस्तु समुद्रेण सुरोदेन समन्ततः। विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ।। ४९.
उत्तरेषु तु धर्मज्ञा द्वीपेषु श्रृणुत प्रजाः। यथाश्रुतं यथान्यायं ब्रुवतो मे निबोधत ।। ४९.
कुशद्वीपं प्रवक्ष्यामि चतुर्थं तं समासतः। सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ।। ४९.
सप्तैव गिरयस्तत्र वर्ण्यमानान्निबोधत। शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ।। ४९.
कुखद्वीपे तु विज्ञेयः पर्वतो विद्रुमोच्चयः। द्वीपस्य प्रथमस्तस्य द्वितीयो हेमपर्वतः ।। ४९.
तृतीयो द्युतिमान्नाम जीमूतसदृशो गिरिः। चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ।। ४९.
षष्ठो हरिगिरिर्नाम सप्तमो मन्दरः स्मृतः । मन्दा इति ह्यपां नाम मन्दरो दारणादपाम् ।। ४९.
तेषामन्तरविष्कम्भो द्विगुणः परिवारितः। उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ।। ४९.
तृतीयं स्वैरथाकारं चतुर्थं लवणं स्मृतम्। पञ्चमं धृतिमद्वर्षं षष्ठं वर्ष प्रभाकरम्। सप्तमं कपिलं नाम सप्तैते वर्षपर्वताः ।। ४९.