तत्र पुण्या जनपदाश्चिराच्च म्रियते प्रजा। कुत एव हि दुर्भिक्षं जराव्याधिभयं कुतः ।। ४९.
तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषणाः। रत्नाकरास्तथा नद्यस्तासान्नामानि वच्मि भोः ।। ४९.
प्लक्षद्वीपादिषु तेषु सप्त सप्तसु सप्तसु। ऋज्वायताः प्रतिदिशं निविष्टाः पर्वताः सदा ।। ४९.
प्लक्षद्वीपे तु वक्ष्यामि सप्त द्वीपान्महाचलान्। गोमेद कोऽत्र प्रथमः पर्वतो मेघसन्निभः। ख्यायते तस्य नाम्ना वै वर्षं गोमेदकन्तु तत् ।। ४९.
द्वितीयः पर्वतश्चन्द्रः सर्वौषधिसमन्वितः। अश्विभ्याममृतस्यार्थे ओषध्यस्तत्र संस्थिताः ।। ४९.
तृतीयो नारदो नाम दुर्गशैलो महोच्छ्रयः। तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ ।। ४९.
चतुर्थस्तत्र वै शैलो दुन्दुभिर्नाम नामतः। शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः । रज्जुदारो रज्जुमयः शाल्मलस्वासुरान्तकृत् ।। ४९.
पञ्चमः सोमको नाम देवै र्यत्रामृतं पुरा। सम्भृतञ्च हृतं चैव मातुरर्थे गरुत्मता ।। ४९.
षष्ठस्तु सुमना नाम स एवर्षभ उच्यते। हिरण्याक्षो वराहेण तस्मिन् शैले निषूदितः ।। ४९.
वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान्। यस्माद्विभ्राजतेऽर्चिर्भिर्वैभ्राजस्तेन स स्मृतः ।। ४९.
तेषां वर्षाणि वक्ष्यामि नामतस्तु यथाक्रमम्। गोमेदं प्रथमं वर्षं नाम्ना शान्तभयं स्मृतम् ।। ४९.
चन्द्रस्य शिखरं नाम नारदस्य सुखोदयम्। आनन्दं दुन्दुभेर्वर्ष सोमकस्य शिवंस्मृतम्। क्षेमकं ऋषभस्यापि वैभ्राजस्य ध्रुवं तथा ।। ४९.
एतेषु देवगन्धर्वाः सिद्धाश्च सहचारणैः विहरन्ति रमन्ते च दृश्यमानास्तु तैः सह ।। ४९.
तेषां नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः। नामतस्ताः प्रवक्ष्यामि सप्तगङ्गा महानदी ।। ४९.
अभिगच्छन्ति ता नद्यस्ताभ्यश्चान्याः सहस्रशः। बहूदकाश्चौघवत्यो यतो वर्षति वासवः ।। ४९.
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते। शुभाः शान्तवहाश्चैव प्रमोदा ये च ते शिवाः ।। ४९.
आनन्दाश्च ध्रुवाश्चैव क्षेमकाश्च शिवै सह। वर्णाश्रमाचारयुक्ताः प्रजास्तेष्वथ सर्वशः ।। ४९.
सर्वेष्वरोगाः सुबला- प्रजास्त्वामयवर्जिताः। अधःसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी न च ।। ४९.
न तत्रास्ति युगावस्था चतुर्युगकृता व्कचित्। त्रेतायुगसमः कालः सर्वदा तत्र वर्त्तते ।। ४९.
प्लक्षद्वीपादिषु ज्ञेयः पञ्चस्वेतेषु सर्वशः। देशस्यानुविधानेन कालस्यानुविधाः स्मृताः ।। ४९.
पञ्चवर्षसहस्राणि तेषु जीवन्ति मानवाः। सुरूपाश्च सुवेषाश्च अरोगा बलिनस्तथा ।। ४९.
सुखमायुर्बलं रूपमारोग्यं धर्म एव च। प्लक्षद्वीपादिषु ज्ञेयं शाकद्वीपान्तकेषु च ।। ४९.
प्लक्षद्वीपः पृथुः श्रीमान् सर्वतो धनधान्यवान्। दिव्यौषधि फलोपेतः सर्वौषधिवनस्पतिः ।। ४९.
आवृतः पशुभिः सर्वैर्ग्रामारण्यैः सहस्रशः। जम्बूवृक्षेण संख्यातस्तस्य मध्ये द्विजोत्तमाः। प्लक्षो नाम्ना महावृक्षस्तस्य नाम्ना स उच्यते ।। ४९.
स तत्र पूज्यते स्थाणुर्मध्ये जनपदस्य हि। स चापीक्षुरसोद्देशः प्लक्षद्वीपसमावृतः। प्लक्षद्वीपस्य चैवेह वैपुल्याद्विस्तरेण तु ।। ४९.
इत्येष सन्निवेशोवः प्लक्षद्वीपस्य कीर्तितः। आनुपूर्व्या समासेन शाल्मलन्तन्निबोधत ।। ४९.
ततस्तृतीयं द्वीपानां शाल्मलं द्वीपमुत्तमम्। शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदकः। प्लक्षद्वीपस्य विस्ताराद्द्विगुणेन समावृतः ।। ४९.
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः। रत्नाकरास्तथा नद्यस्तेषु वर्षेषु सप्तसु ।। ४९.
प्रथमः सूर्यसङ्काशः कुमुदो नाम पर्वतः। सर्वधातुमयैः श्रृङ्गैः शिलाजालसमुद्गतैः ।। ४९.
द्वितीयः पर्वतस्तस्य उन्नतो नाम विश्रुतः। हरितालमयैः श्रृङ्गैर्दिवमावृत्य तिष्ठति ।। ४९.