तस्य कूटतटे रम्ये हेमप्राकारतोरणा। निर्यूहवलभीचित्रा हर्म्यप्रासादमालिनी ।। ४८.
शतयोजनविस्तीर्णा त्रिंशदायामयोजना। नित्यप्रमुदिता स्फीता लङ्का नाम महापुरी ।। ४८.
सा कामरूपिणां स्थानं राक्षसानां महात्मनाम् । आवासो बलदृप्तानां तद्विद्याद्देवविद्विषाम्। मानुषाणामसम्बाधा ह्यगम्या सा महापुरी ।। ४८.
तस्य द्वीपस्य वै पूर्वे तीरे नदनदीपतेः। गोकर्णनामधेयस्य शङ्करस्यालयं महत् ।। ४८.
तथैकराज्यं विज्ञेयं शङ्खद्वीपसमास्थितम्। शतयोजनविस्तीर्णं नानाम्लेच्छगणालयम् ।। ४८.
तत्र शङ्खगिरिर्नाम धौतशङ्खदलप्रभः। नानारत्नाकरः पुण्यः पुण्यकृद्भिर्निषेवितः ।। ४८.
शङ्ख नागा महापुण्या यस्मात् प्रभवते नदी। यत्र शङ्खमुखो नाम नागराजः कृतालयः ।। ४८.
तथैव कुमुदद्वीपं नानापुण्योपशोभितम्। नानाग्रामसमा कीर्णं नानारत्नाकरं शिवम् ।। ४८.
कुमुदाख्या महाभागा दुष्टचित्तनिबर्हणी। महादेवस्य भगिनी प्रभाभिस्ताभिरिज्यते ।। ४८.
तथा वराहद्वीपे च नानाम्लेच्छगणाकुले। नानाजालिसमाकीर्णे नानाधिष्ठानपत्तने ।। ४८.
धनधान्ययुते स्फीते धर्म्मिष्ठजनसङ्कुले। नदीशैलवनैश्चित्रैर्बहुपुष्पफलोपगैः ।। ४८.
वराहपर्व्वतो नाम तत्र रम्यः शिलोच्चयः। अनेककन्दरदरीगुहानिर्झरशोभितः ।। ४८.
तस्मात्सुरसपानीया पुण्यतीर्थतरङ्गिणी। वाराही नाम वरदा प्रवृत्तास्य महानदी ।। ४८.
वाराहरूपिणे तत्र विष्णवे प्रभविष्णवे। अनन्यदेवतास्तस्मै नमस्कुर्वन्ति विप्रजाः ।। ४८.
एवं षडेते कथिता अनुद्वीपाः समन्ततः। भारतद्वीपदेशो वै दक्षिणे बहुविस्तरः ।।४८.
एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते। समुद्रजलसम्बिन्नं खण्डं खण्डीकृतं स्मृतम् ।। ४८.
एवञ्चतुर्महाद्वीपः सान्तरद्वीपमण्डितः। सानुद्वीपः समाख्यातो जम्बूद्वीपस्य विस्तरः ।। ४८.
इति महापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टचत्वारिंशो ध्यायः
प्लक्षद्वीपं प्रवक्ष्यामि यथावदिव सङ्ग्रहात्। श्रृणुतेमं यतातत्त्वं ब्रुवतो मे द्विजोत्तमाः ।। ४९.
जम्बूद्वीपस्य विस्ताराद्द्विगुणस्तस्य विस्तरः। विस्तारात्र्रिगुणश्चास्य परिणाहः समन्ततः। तेनावृतः समुद्रोऽयं द्वीपेन लवणोदकः।। ४९.
तत्र पुण्या जनपदाश्चिराच्च म्रियते प्रजा। कुत एव हि दुर्भिक्षं जराव्याधिभयं कुतः ।। ४९.
तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषणाः। रत्नाकरास्तथा नद्यस्तासान्नामानि वच्मि भोः ।। ४९.
प्लक्षद्वीपादिषु तेषु सप्त सप्तसु सप्तसु। ऋज्वायताः प्रतिदिशं निविष्टाः पर्वताः सदा ।। ४९.
प्लक्षद्वीपे तु वक्ष्यामि सप्त द्वीपान्महाचलान्। गोमेद कोऽत्र प्रथमः पर्वतो मेघसन्निभः। ख्यायते तस्य नाम्ना वै वर्षं गोमेदकन्तु तत् ।। ४९.
द्वितीयः पर्वतश्चन्द्रः सर्वौषधिसमन्वितः। अश्विभ्याममृतस्यार्थे ओषध्यस्तत्र संस्थिताः ।। ४९.
तृतीयो नारदो नाम दुर्गशैलो महोच्छ्रयः। तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ ।। ४९.
चतुर्थस्तत्र वै शैलो दुन्दुभिर्नाम नामतः। शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः । रज्जुदारो रज्जुमयः शाल्मलस्वासुरान्तकृत् ।। ४९.
पञ्चमः सोमको नाम देवै र्यत्रामृतं पुरा। सम्भृतञ्च हृतं चैव मातुरर्थे गरुत्मता ।। ४९.
षष्ठस्तु सुमना नाम स एवर्षभ उच्यते। हिरण्याक्षो वराहेण तस्मिन् शैले निषूदितः ।। ४९.
वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान्। यस्माद्विभ्राजतेऽर्चिर्भिर्वैभ्राजस्तेन स स्मृतः ।। ४९.