तत्र चक्रगिरिर्नाम नैक निर्झरकन्दरः। तत्र सा तु दरी चास्य नानासत्वसमाश्रया ।। ४८.
स मध्ये नागदेशस्य नैकदेशो महागिरिः। कोटिभ्यां नागनिलयं प्राप्तो नदनदी पतिम् ।। ४८.
यमद्वीपमिति प्रोक्तं नानारत्नाकराचितम् । तत्रापि द्युतिमान्नाम पर्वतो धातुमण्डितः। समुद्रगानां प्रभवः प्रभवः काञ्चनस्य तु ।। ४८.
तथैव मलयद्वीपमेवमेव सुसंवृतम्। मणिरत्नाकरं स्फीतमाकरं कनकस्य च ।। ४८.
आकरं चन्दनानाञ्च समुद्राणां तथाकरम्। नानाम्लेच्छगणाकीर्णं नदीपर्वतमण्डितम् ।। ४८.
तत्र श्रीमांस्तु मलयः पर्वतो रजताकरः। महामलय इत्येवं विख्यातो वरपर्वतः ।। ४८.
द्वितीयं मन्दरं नाम प्रथितञ्च सदा क्षितौ। आगस्त्यभवनं तत्र देवासुरनमस्कृतम् ।। ४८.
तथा काञ्चनपादस्य मलयस्यापरस्य हि। निकुञ्जैस्तृणसोमाङ्गैराश्रमं पुण्यसेवितम् ।। ४८.
नानापुष्पफलोपेतं स्वर्गादपि विशिष्यते। तत्रावतरते स्वर्गः सदा पर्वसु पर्वसु ।। ४८.
तथा त्रिकूटनिलये नानाधातुविभूषिते । अनेकयोजनोत्सेधे चित्रसानुदरीगृहे ।। ४८.
तस्य कूटतटे रम्ये हेमप्राकारतोरणा। निर्यूहवलभीचित्रा हर्म्यप्रासादमालिनी ।। ४८.
शतयोजनविस्तीर्णा त्रिंशदायामयोजना। नित्यप्रमुदिता स्फीता लङ्का नाम महापुरी ।। ४८.
सा कामरूपिणां स्थानं राक्षसानां महात्मनाम् । आवासो बलदृप्तानां तद्विद्याद्देवविद्विषाम्। मानुषाणामसम्बाधा ह्यगम्या सा महापुरी ।। ४८.
तस्य द्वीपस्य वै पूर्वे तीरे नदनदीपतेः। गोकर्णनामधेयस्य शङ्करस्यालयं महत् ।। ४८.
तथैकराज्यं विज्ञेयं शङ्खद्वीपसमास्थितम्। शतयोजनविस्तीर्णं नानाम्लेच्छगणालयम् ।। ४८.
तत्र शङ्खगिरिर्नाम धौतशङ्खदलप्रभः। नानारत्नाकरः पुण्यः पुण्यकृद्भिर्निषेवितः ।। ४८.
शङ्ख नागा महापुण्या यस्मात् प्रभवते नदी। यत्र शङ्खमुखो नाम नागराजः कृतालयः ।। ४८.
तथैव कुमुदद्वीपं नानापुण्योपशोभितम्। नानाग्रामसमा कीर्णं नानारत्नाकरं शिवम् ।। ४८.
कुमुदाख्या महाभागा दुष्टचित्तनिबर्हणी। महादेवस्य भगिनी प्रभाभिस्ताभिरिज्यते ।। ४८.
तथा वराहद्वीपे च नानाम्लेच्छगणाकुले। नानाजालिसमाकीर्णे नानाधिष्ठानपत्तने ।। ४८.
धनधान्ययुते स्फीते धर्म्मिष्ठजनसङ्कुले। नदीशैलवनैश्चित्रैर्बहुपुष्पफलोपगैः ।। ४८.
वराहपर्व्वतो नाम तत्र रम्यः शिलोच्चयः। अनेककन्दरदरीगुहानिर्झरशोभितः ।। ४८.
तस्मात्सुरसपानीया पुण्यतीर्थतरङ्गिणी। वाराही नाम वरदा प्रवृत्तास्य महानदी ।। ४८.
वाराहरूपिणे तत्र विष्णवे प्रभविष्णवे। अनन्यदेवतास्तस्मै नमस्कुर्वन्ति विप्रजाः ।। ४८.
एवं षडेते कथिता अनुद्वीपाः समन्ततः। भारतद्वीपदेशो वै दक्षिणे बहुविस्तरः ।।४८.
एवमेकमिदं वर्षं बहुद्वीपमिहोच्यते। समुद्रजलसम्बिन्नं खण्डं खण्डीकृतं स्मृतम् ।। ४८.
एवञ्चतुर्महाद्वीपः सान्तरद्वीपमण्डितः। सानुद्वीपः समाख्यातो जम्बूद्वीपस्य विस्तरः ।। ४८.
इति महापुराणे वायुप्रोक्ते भुवनविन्यासो नामाष्टचत्वारिंशो ध्यायः
प्लक्षद्वीपं प्रवक्ष्यामि यथावदिव सङ्ग्रहात्। श्रृणुतेमं यतातत्त्वं ब्रुवतो मे द्विजोत्तमाः ।। ४९.
जम्बूद्वीपस्य विस्ताराद्द्विगुणस्तस्य विस्तरः। विस्तारात्र्रिगुणश्चास्य परिणाहः समन्ततः। तेनावृतः समुद्रोऽयं द्वीपेन लवणोदकः।। ४९.