पुण्डरीकापयोदा च तस्मान्नद्यौ विनिर्गते। श्वेतात् प्रभवते पुण्यं सरस्तूत्तरमानसम् ।। ४७.
ज्योत्स्ना च मृगकान्ता च तस्माद्द्वे संबभूवतुः। मधुमत्सरः पुण्यञ्च पझमीनद्विजाकुलम् ।। ४७.
कल्पवृक्षसमाकीर्णं मधुवत्सर्वतः सुखम्। रुद्रकान्तमिति ख्यातं निर्मितं तद्भवेन तु ।। ४७.
अन्ये चाप्यत्र विख्याताः पझमीनद्विजाकुलाः। नाम्ना रुद्राजया नाम द्वादशोदधिसन्निभाः ।। ४७.
तेभ्यः शान्ता च माध्वी च द्वे नद्यौ सम्बभूवतुः। यनि किम्पुरुषाद्यानि तेषु देवो न वर्षति ।। ४७.
उद्भिद्यान्युदकान्यत्र प्रवहन्ति सरिद्वराः। ऋषभो दुन्दुभिश्चैव धूम्रश्चैव महागिरिः ।। ४७.
पूर्वायता महभागा निम्नगा लवणाम्भसि। चन्द्रकङ्कस्तथा प्राणो महानग्निः शिलोच्चयः। उदग्याता उदीच्यान्ता अवगाढा महोदधिम् ।। ४७.
सोमकश्च वराहश्च नारदश्च महीधरः। प्रतीचीमायतास्ते वै प्रविष्टा लवणोदधिम् ।। ४७.
चक्रो बलाहकश्चैव मैनाकश्चैव पर्वतः। आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति। चन्द्रमैनाकयोर्मध्येविदिशं दक्षिणां प्रति ।। ४७.
तत्र संवर्त्तको नाम सोऽग्निः पिबति तज्जलम्। नाम्ना समुद्रपः श्रीमानौर्वः स वडवामुखः ।। ४७.
द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम्। महेन्द्रभयवित्रस्ताः पक्षच्छेदभयात्तदा। यदेतदॄश्यते चन्द्रे श्वेते कृष्णशशाकृतिः ।। ४७.
भारतस्य तु वर्षस्य भेदास्ते नव कीर्तिताः। इहोदितस्य दृश्यन्ते तथान्येऽन्यत्र नोदिते ।। ४७.
उत्तरोत्तरमेतेषां वर्षमुद्दिश्यते गुणैः। आरोग्यायुः प्रमाणाभ्यां धर्मतः कामतोऽर्थतः ।। ४७.
समन्वितानि भूतानि गुणै रेतैस्तु भागतः। वसन्ति नानाजातीनि तेषु वर्षेषु तानि वै। इत्येषाऽधारयत् सर्वं पृत्वी विश्वं जगत्स्थिता ।। ४७.
दक्षिणेनापि वर्षस्य भारतस्य निबोधत। दशयोजनसाहस्रं समतीत्य महार्णवम् ।। ४८.
त्रीण्येव तु सहस्राणि योजनानां समायतम्। अतस्त्रिभागविस्तीर्णं नानापुष्पफलोदयम् ।। ४८.
विद्युत्वन्तं महाशैलं तत्रैकं कुलपर्वतम्। येन कूटतटैर्नैकैस्तद्द्वीपं समलंकृतम् ।। ४८.
प्रसन्नस्वादुसलिलास्तत्र नद्यः सहस्रशः। वाप्यस्तस्य तु द्वीपस्य प्रवृत्ता विमलोदकाः ।। ४८.
तस्य शैलस्य छिद्रेषु विस्तीर्णेष्वायतेषु च। अनेकेषु समृद्धानि नानाकाराणि सर्व्वशः ।। ४८.
नरनारीसमाढ्यानि मुदितानि महान्ति च। तेषां तलप्रवेशानि सहस्राणि शतानि च ।। ४८.
पुराणि सन्निविष्टानि पर्वतान्तर्गतानि च। सुसम्बद्धानि चान्योन्यमेकद्वाराणि चान्यथ ।। ४८.
दीर्घश्मश्रुधरात्मानो नीला मेघसमप्रभाः। जातमात्राः प्रजास्तत्र अशीतिपरमायुषः ।। ४८.
शाखामृगसधर्माणः फलमूलाशिनस्तथा। गोधर्माणो ह्यनिर्दिष्टाः शौचाचारविवर्जिताः ।। ४८.
तद्द्वीपं तादृशैः पूर्णं मनुजैः क्षुद्रमानुषैः । एवमेतेऽन्तरद्वीपा व्याख्याता आनुपूर्वशः ।। ४८.
विंशत्र्रिंशच्च पञ्चाशत् षष्ट्यशीतिः शतं तथा। सहस्रमपि चाप्युक्तं योजनानां समन्ततः ।। ४८.
विस्तीर्णाश्चायताश्चैव नानासत्त्वसमाकुलाः। बर्हिणद्वीपपर्वाणि क्षुद्रद्वीपाः सहस्रशः ।। ४८.
जम्बूद्वीपप्रदेशात्तु षडन्ये विविधाश्रयाः। अत्र द्वीपाः समाख्याता नानारत्नाकराः क्षितौ ।। ४८.
अङ्गद्वीपं यमद्वीपं मलयद्वीपमेव च। शङ्खद्वीपं कुशद्वीपं वराहद्वीपमेव च ।। ४८.
अङ्गद्वीपं निबोध त्वं नानासङ्घसमाकुलम्। नानाम्लेच्छगणाकीर्णं तद्द्वीपं बहुविस्तरम् ।। ४८.
हेमविद्रुमपूर्णानां रत्नानामाकरं क्षितौ। नदीशैलवनैश्चित्रं सन्निभं लवणाम्भसा ।। ४८.