गन्धर्वान् किन्नरान् यक्षान् रक्षोविद्याधरोरगान्। कलापग्रामकांश्चैव पारदान् सीगणान् खसान् ।। ४७.
किरातांश्च पुलिन्दांश्च कुरून् सभरतानपि। पञ्चालकाशिमात्स्यांश्च मगधाङ्गांस्तथैव च ।। ४७.
ब्रह्मोत्तरांश्च वङ्गांश्च तामलिप्तांस्तथैव च। एतान् जनपदानार्यान् गङ्गा भावयते शुभान् ।। ४७.
ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोददिम्। ततक्ष्वाह्लादिनी पुण्या प्राचीनाभिमुखी ययौ ।। ४७.
प्लावयन्त्युपभोगांश्च निषादानां च जातयः। धीवरानृषिकांश्चैव तथा नीलमुखानपि ।। ४७.
केरलानुष्ट्रकर्णांश्च किरातानपि चैव हि। कालोदरान् विवर्णांश्च कुमारान् स्वर्णभूषितान् ।। ४७.
सा मण्डले समुद्रस्य तिरोभूताऽनुपूर्वतः। ततस्तु पावनी चैव प्राचीमेव दिशङ्गता ।। ४७.
अपथान् भावयन्तीह इन्द्रद्युम्नसरोऽपि च। तता खरथांश्चैव इन्द्रशङ्कुपथानपि ।। ४७.
मध्येनोद्यानमस्कारान् कुथप्रावरणान् ययौ। इन्द्रद्वीपसमुद्रे तु प्रविष्टा लवणोदधिम् ।। ४७.
ततश्च नलिनी चागात् प्राचीमाशां जवेन तु। तोमरान् भावयन्तीह हंसमार्गान् सहूहुकान् ।। ४७.
पूर्वान् देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरीन्। कर्णप्रावरणांश्चैव प्राप्य चाश्वमुखानपि ।। ४७.
सिकतापर्वतमरून् गत्वा विद्याधरान् ययौ। नेमिमण्डलकोष्ठे तु प्रविष्टा सा महोदधिम् ।। ४७.
तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः। उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः ।। ४७.
वस्वोकसायास्तीरे तु वारिसुरभिविश्रुते। हरिश्रृङ्गे तु वसति विद्वान् कौबैरको वशी ।। ४७.
यज्ञोपेतः स सुमहानमितौजाः सुविक्रमः। तत्रागस्त्यैः परिवृतो विद्वद्भिर्ब्रह्मराक्षसैः। कुबैरानुचराः ह्येते चत्वारस्तत्समाः स्मृताः ।। ४७.
एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम्। परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः ।। ४७.
हेमकूटस्य पॄष्ठे तु सायनं नाम तत्सरः। मनस्विनी प्रभवति तस्माज्ज्योतिष्मती च सा ।। ४७.
अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ । सरो विष्णुपदं नाम निषधे पर्वतोत्तमे ।। ४७.
तस्माद्द्वयं प्रभवति गान्धर्वी नन्वली च या। मेरोः पश्चात् प्रभवति ह्रदश्चन्द्रप्रभो महान् ।। ४७.
तत्र जाम्बूनदी पुण्या यस्यां जाम्बूनदं शुभम्। पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवत् ।। ४७.
पुण्डरीकापयोदा च तस्मान्नद्यौ विनिर्गते। श्वेतात् प्रभवते पुण्यं सरस्तूत्तरमानसम् ।। ४७.
ज्योत्स्ना च मृगकान्ता च तस्माद्द्वे संबभूवतुः। मधुमत्सरः पुण्यञ्च पझमीनद्विजाकुलम् ।। ४७.
कल्पवृक्षसमाकीर्णं मधुवत्सर्वतः सुखम्। रुद्रकान्तमिति ख्यातं निर्मितं तद्भवेन तु ।। ४७.
अन्ये चाप्यत्र विख्याताः पझमीनद्विजाकुलाः। नाम्ना रुद्राजया नाम द्वादशोदधिसन्निभाः ।। ४७.
तेभ्यः शान्ता च माध्वी च द्वे नद्यौ सम्बभूवतुः। यनि किम्पुरुषाद्यानि तेषु देवो न वर्षति ।। ४७.
उद्भिद्यान्युदकान्यत्र प्रवहन्ति सरिद्वराः। ऋषभो दुन्दुभिश्चैव धूम्रश्चैव महागिरिः ।। ४७.
पूर्वायता महभागा निम्नगा लवणाम्भसि। चन्द्रकङ्कस्तथा प्राणो महानग्निः शिलोच्चयः। उदग्याता उदीच्यान्ता अवगाढा महोदधिम् ।। ४७.
सोमकश्च वराहश्च नारदश्च महीधरः। प्रतीचीमायतास्ते वै प्रविष्टा लवणोदधिम् ।। ४७.
चक्रो बलाहकश्चैव मैनाकश्चैव पर्वतः। आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति। चन्द्रमैनाकयोर्मध्येविदिशं दक्षिणां प्रति ।। ४७.
तत्र संवर्त्तको नाम सोऽग्निः पिबति तज्जलम्। नाम्ना समुद्रपः श्रीमानौर्वः स वडवामुखः ।। ४७.