अपरेण तु कैलासान्मुख्यसत्त्वौषधिं गिरिम्। अरुणं पर्वतश्रेष्ठं रुक्मधातुमयं प्रति ।। ४७.
भवस्य दयितः श्रीमान् पर्वतो मेघसन्निभः। शातकुम्भमयैः शुभ्रैः शिलाजालैः समावृतः ।। ४७ .
शतसङ्ख्यैस्तापनीयैः श्रृङ्गैर्दिवमिवोल्लिखन्। मुञ्जवान् स महादिव्यो दुर्गशैलो हिमार्चितः ।। ४७.
तस्मिन् गिरौ निवसति गिरिशो धूम्रलोहितः। तस्य पादात् प्रभवति शैलोदं नाम तत्सरः ।। ४७.
तस्मात् प्रभवते हिव्या शैलोदा नाम निम्नगा। सा चक्षुःशीतयोर्मध्ये प्रविष्टा लवणोदधिम् ।। ४७.
तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै। अस्त्युत्तरेण कैलासाच्छिवसत्त्वौषधो गिरिः ।। ४७.
गौरो नाम गिरिस्तत्र हरितालमयः शुभः। हिरण्यश्रृङ्गः सुमहान् दिव्यो मणिमयो गिरिः ।। ४७.
तस्य पादे महद्दिव्यं शुभं काञ्चनवालुकम्। रम्यं बिन्दुसरो नाम यत्र यातो भगीरथः ।। ४७.
गङ्गानिमित्तं राजर्षिरुवास बहुलाः समाः । दिवं यास्यन्ति मे पूर्वे गङ्गातोयपरिप्लुताः ।। ४७.
तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता। सोमपादप्रसूता सा सप्तधा प्रतिपद्य ते ।। ४७.
यूपा मणिमयास्तत्र चितयश्च हिरण्मयाः । तत्रेष्ट्वा तु गतः शर्वं शक्रः सर्वैः सुरैः सह ।। ४७.
दिविच्छायापथो यस्तु अनुनक्षत्रमण्डलम् । दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा ।। ४७.
अन्तरिक्षं दिवञ्चैव भावयन्ती भुवङ्गता। भवोत्तमाङ्गे पतिता संरुद्धा योगमायया ।। ४७.
तस्या ये बिन्दवः केचित् क्रुद्धायाः पतिताः क्षितौ। कृतं बिन्दुसरस्तत्र ततो बिन्दुसरः स्मृतम् ।। ४७.
ततो निरुद्धा देवी सा भवेन स्मयता किल। चिन्तयामास मनसा शङ्करक्षेपणं प्रति ।। ४७.
भित्त्वा विशामि पातालं स्रोतसा गृह्य शङ्करम्। ज्ञात्वा तस्या अभिप्रायं क्रूरं देव्या चिकीर्षितम् ।। ४७.
तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम्। तस्यावलेपं तं बुद्ध्वा नद्याः क्रुद्धस्तु शङ्करः। निरुध्य तु शिरस्येनां वेगेन पतितां भुवि ।। ४७.
एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः। धमनीसन्ततं क्षीणं क्षुधापरिगतेन्द्रियम् ।। ४७.
अनेन तोषितश्चाहं नद्यर्थं पूर्वमेव हि। बुद्ध्वास्य वरदानं तु कोपं नियतवांस्तु सः ।। ४७.
ब्रह्मणो हि वचः श्रुत्वा प्रतिज्ञाधारणं प्रति। ततो विसर्जयामास संरुद्धां स्वेन तेजसा। नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ।। ४७.
ततो विसृज्यमानायाः स्रोतस्तत्सप्तताङ्गतम्। त्रयः प्राचीमभिमुखं प्रतीचीं त्रयः एव तु ।। ४७.
नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा। नलिनी ह्रादिनी चैव पावनी चैव प्राग्गता ।। ४७.
सीता चक्षुश्च सिन्धुश्च प्रतीचीं दिशमाक्षिताः। सप्तमी त्वनुगा तासां दक्षिणेन भगीरथी ।। ४७.
तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम्। सप्तैता भावयन्तीह हिमाह्वं वर्षमेव तु ।। ४७.
प्रसूताः सप्त नद्यस्ताः शुभा बिन्दुसरोद्भवाः। नानादेशान् भावयन्त्यो म्लेच्छप्रायांश्च सर्वशः ।। ४७.
उपगच्छन्ति ताः सर्वा यतो वर्षति वासनः। सिरिन्ध्रान् कुन्तलांश्चीनान् बर्भरान् यवसान् द्रुहान् ।। ४७.
रुषाणांश्च कुणिन्दांश्च अङगलोकवराश्च ये। कृत्वा द्विधा सिन्धुमरुं सीतागात्पश्चिमोदधिम् ।। ४७.
अथ चीनमरूंश्चैव नङ्गणान् सर्वमूलिकान् । साध्रांस्तु षारांस्तम्पाकान् पह्नवान् दरदान् शकान्। एतान् जनपदान् चक्षुः स्रावयन्ती गतोदधिम् ।। ४७.
दरदांश्च सकांश्मीरान् गान्धारान् वरपान् ह्रदान्। शिवपौरानिन्द्रहासान् वदातींश्च विसर्जयान् ।। ४७.
सैन्धवान् रन्ध्रकरकान् भ्रमराभीररोहकान् । शुनामुखांश्चोर्द्ध्वमनून् सिद्धचारणसोवितान् ।। ४७.