तस्य नाम्ना समाख्यातो जम्बूद्वीपे वनस्पतिः। योजनानां सहस्रं तु शतचान्यमहाद्रुमः। उत्सेधो वृक्षराजस्प दिवं स्पृशति सर्वशः ।। ४६.
अरत्नीनां शतान्यष्टौ एकषष्ट्यधिकानि तु। फलप्रमाणं संख्यातमृषिभिस्तत्त्वदर्शिभिः ।। ४६.
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम्। तस्या जम्ब्वाः फलरसो नदीभूय प्रसर्पति ।। ४६.
मेरुं प्रदक्षिणीकृत्य जम्बू वृक्षंविशत्यधः। ते पिबन्ति सदा हृष्टा जम्बूरसफलावृताः ।। ४६.
जम्बूरसफलं पीत्वा न जरां प्राप्नुवन्ति ते। न च ध्रुवं न रोगं तु न च मृत्युं तथाविधम् ।। ४६.
तत्र जाम्बूनदं नाम कनकं देवभूषणम्। इन्द्रगोपकशङ्काशं जायते भास्वरन्तु तत् ।। ४६.
सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः। स्कन्नं भवति तच्छुक्रं कनकं देवभूषणम् ।। ४६.
तेषां मूत्रं पुरीषञ्च दिक्षु सर्वासु भागशः। ईश्वरानुग्रहाद्भूमिर्मृतांश्च ग्रसते तु तान् ।। ४६.
रक्षः पिशाचा यक्षाश्च सर्वे हैमवताः स्मृताः। हेमकूटे तु गन्धर्वा विज्ञेयाः साप्सरोगणाः ।। ४६.
सर्वे नागास्तु निषधे शेषवासुकितक्षकाः। महामेरौ त्रयस्त्रिंशद्भ्रमन्ते याज्ञिकाः सुराः । नीले तु वैडूर्यमये सिद्धब्रह्मर्षयो मताः ।। ४६.
दैत्यानां दानवानाञ्च श्वेतपर्वत उच्यते। श्रृङ्गवान् पर्वतः श्रेष्ठः पितॄणां प्रतिसञ्चरः ।। ४६.
नवस्वेतेषु वर्षेषु यथाभागस्थितेषु वै। भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ।। ४६.
तेषां विवृद्धिर्बहुला दृश्यते देवमानुषोः। न शक्या परिसङ्ख्यातुं श्रद्धेयानु बुभूषता ।। ४६.
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम षट्चत्वारिंशोऽध्यायः
सव्ये हिमवतः पार्श्वे कैलासो नाम पर्वतः। तस्मिन्निवसति श्रीमान् कुबेरः सह राक्षसैः। अप्सरोगणसंयुक्तो मोदते ह्यलकाधिपः ।। ४७.
कैलासपादात् सम्भूतं पुण्यं शीत जलं शुभम्। मन्दं नाम्ना कुमुद्वन्तं शरदम्बुदसन्निभम् ।। ४७.
तस्माद्दिव्या प्रभवति नदी मन्दाकिनी शुभा। दिव्यञ्च नन्दनं तत्र तस्यास्तीरे महद्वनम् ।। ४७.
प्रागुत्तरेण कैलासाद्दिव्यसत्त्वौषधं गिरिम्। सुरधातुमयं चित्रं सुवर्णं पर्वतं प्रति ।। ४७.
चन्द्रप्रभो नाम गिरिः सशुद्धां रत्नसन्निभः। तस्य पादे महद्दिव्यमच्छोदं नाम तत्सरः ।। ४७.
तस्माद्दिव्या प्रभवति ह्यच्छोदा नाम निम्नगा। तस्यास्तीरे महादिव्यं वनं चैत्ररथं स्मृतम् ।। ४७.
तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः। यक्षसेनापतिः क्रूरगुह्यकैः परिवारितः ।। ४७.
पुण्या मन्दाकिनी चैव निम्नगाच्छोदिका तथा। महीमण्डलमध्येन प्रविष्टे ते महोदधिम् ।। ४७.
कैलासाद्दक्षिणप्राच्यां शिवसत्त्वौषधिं गुरुम् । मनःशिलामयं दिव्यं पिशङ्गं पर्वतं प्रति ।। ४७.
लोहितो हेमश्रृङ्गस्तु गिरिः सूर्य प्रभो महान्। तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः ।। ४७.
तस्मात् पुण्यः प्रभवति लौहित्यः सदनो महान्। देवारण्यं विशोकञ्च तस्य तीरे महावनम् ।। ४७.
तस्मिन् गिरौ निवसति यक्षो मणिवरो वशी। सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः ।। ४७.
कैलासाद्दक्षिणे पार्श्वे क्रूरसत्वौषधं गिरिम्। वृत्रकायात् किलोत्पन्नमञ्जनं त्रिककुत्प्रति ।। ४७.
सर्वधातुमयस्तत्र सुमहान् वैद्युतो गिरिः। तस्य पादे सरः पुण्यं मानसं सिद्धसेवितम् ।। ४७.
तस्मात् प्रभवते पुण्या सरयूर्लोकभावनी। तस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् ।। ४७.
कुबेरानुचरस्तत्र प्रहेतृतनयो वशी। ब्रह्म पातो निवसति राक्षसोऽनन्तविक्रमः। अन्तरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः ।। ४७.