दशवर्षसहस्राणि स्थितिः किम्पुरुषे स्मृता। सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ।। ४६.
अनामया ह्यशोकाश्च सर्वे ते शुद्धमानसाः। जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः ।। ४६.
वर्षे किम्पुरुषे पुण्ये प्लक्षो मधुवहः शुभः। तस्य किम्पुरुषाः सर्वे पिबन्ति रसमुत्तमम् ।। ४६.
अतःपरं किं पुरुषाद्धरिवर्षः प्रचक्ष्यते। महारजतसङ्काशा जायन्ते तत्र मानवाः ।। ४६.
देवलोकाच्च्युताः सर्वे देवरूपाश्च सर्वशः। हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम् ।। ४६.
एकादश सहस्राणि वर्षाणां तु मुदा युताः। हरिवर्षे तु जीवन्ति सर्वे मुदितमानसाः। न जरा बाधते तत्र जीर्यन्ति न च ते नराः ।। ४६.
मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम्। न तत्र सूर्यस्तपति न च जीर्यन्ति मानवाः ।। ४६.
चन्द्रसूर्यौ सनक्षत्रावप्रकाशाविलावृते । पद्मवर्णाः पद्म प्रभाः पद्मपत्रनिभेक्षणाः। पक्षपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ।। ४६.
जम्बूरसफलाहारा ह्यनिष्पन्दाः सुगन्धिनः। मनस्विनो भुक्तभोगाः सत्कर्मफलभोगिनः ।। ४६.
देवलोकाच्च्युताः सर्वे जायन्ते ह्यजरामराः. त्रयोदशसहस्राणि वर्षाणान्ते नरोत्तमाः ।। ४६.
आयुष्प्रमाणं जीवन्ति ते तु वर्षे त्विलावृते । मेरोः प्रतिदिशं ते तु नवसाहस्रविस्तृते ।। ४६.
योजनानां सहस्राणि षड्विंशस्तस्य विस्तरः। चतुरस्रः समन्ताच्च शरावाकार संस्थितः ।। ४६.
मेरोस्तु पश्चिमे भागे नवसाहस्रसंमिते। चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः ।। ४६.
उदग्दक्षिणतश्चैव आनीलनिषधायतः। चत्वारिंशत्सहस्राणि परिवृद्धो महीतलात्। सहस्रमवगाढस्तु तावदेव तु धिष्ठितः ।। ४६.
पूर्वेण माल्यवान् शैलस्तत्प्रमाणः प्रकीर्तितः। दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।। ४६.
तेषां मध्ये महामेरुः सुप्रमाणः प्रकीर्तितः। सर्वेषामेव शैलानामवगाढो यथा भवेत् ।। ४६.
विस्तरस्तत्प्रमाणः स्यादायामे नियुतः स्मृतः। वृत्तभावात् समुद्रस्य महीमण्डलभावनः ।। ४६.
आयामाः परिहीयन्ते चतुरस्राः समस्ततः। अनावृत्ताश्चतुष्केण भिद्यन्ते मध्यमागताः ।। ४६.
प्रभिन्नाञ्जनसङ्काशा जम्बूरसवती नदी। मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण तु ।। ४५.
सुदर्शनो नाम महाजम्बूवृक्षः सनातनः। नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ।। ४६.
तस्य नाम्ना समाख्यातो जम्बूद्वीपे वनस्पतिः। योजनानां सहस्रं तु शतचान्यमहाद्रुमः। उत्सेधो वृक्षराजस्प दिवं स्पृशति सर्वशः ।। ४६.
अरत्नीनां शतान्यष्टौ एकषष्ट्यधिकानि तु। फलप्रमाणं संख्यातमृषिभिस्तत्त्वदर्शिभिः ।। ४६.
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम्। तस्या जम्ब्वाः फलरसो नदीभूय प्रसर्पति ।। ४६.
मेरुं प्रदक्षिणीकृत्य जम्बू वृक्षंविशत्यधः। ते पिबन्ति सदा हृष्टा जम्बूरसफलावृताः ।। ४६.
जम्बूरसफलं पीत्वा न जरां प्राप्नुवन्ति ते। न च ध्रुवं न रोगं तु न च मृत्युं तथाविधम् ।। ४६.
तत्र जाम्बूनदं नाम कनकं देवभूषणम्। इन्द्रगोपकशङ्काशं जायते भास्वरन्तु तत् ।। ४६.
सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः। स्कन्नं भवति तच्छुक्रं कनकं देवभूषणम् ।। ४६.
तेषां मूत्रं पुरीषञ्च दिक्षु सर्वासु भागशः। ईश्वरानुग्रहाद्भूमिर्मृतांश्च ग्रसते तु तान् ।। ४६.
रक्षः पिशाचा यक्षाश्च सर्वे हैमवताः स्मृताः। हेमकूटे तु गन्धर्वा विज्ञेयाः साप्सरोगणाः ।। ४६.
सर्वे नागास्तु निषधे शेषवासुकितक्षकाः। महामेरौ त्रयस्त्रिंशद्भ्रमन्ते याज्ञिकाः सुराः । नीले तु वैडूर्यमये सिद्धब्रह्मर्षयो मताः ।। ४६.