अन्ध्रवाकाः सुजरका अन्तर्गिरिबहिर्गिराः। तथा प्रवङ्गवङ्गेया मालदा मालवर्तिनः ।। ४५.
ब्रह्मोत्तराः प्रविजया भार्गवा गेयमर्थकाः। प्राग्ज्योतिषाश्च मुण्डाश्च विदेहास्तामलिप्तकाः। माला मगधगोविन्दाः प्राच्यां जनपदाः स्मृताः ।। ४५.
अथापरे जनपदा दक्षिणापथ वासिनः । पाण्ड्याश्च केरलाश्चैव चौल्याः कुल्यास्तथैव च ।। ४५.
सेतुका मूषिकाश्चैव कुमना वनवासिकाः। महाराष्ट्रा माहिषकाः कलिङ्गाश्चैव सर्वशः ।। ४५.
अभीराः सह चैषीकाः आटव्याश्च वराश्च ये। पुलिन्द्रा विन्ध्यमूलीका वैदर्बा दण्डकैः सह ।। ४५.
पौनिका मौनिकाश्चैव अस्मका भोगवर्द्धनाः। नैर्मिकाः कुन्तला आन्ध्रा उद्भिदा नलकालिकाः ।। ४५.
दाक्षिणात्याश्च वै देशा अपरांस्तान्निबोधत। शूर्पाकाराः कोलवनाः दुर्गाः कालीतकैः सह ।। ४५.
पुलेयाश्च सुरालाश्च रूपसास्तापसैः सह। तथा तुरसिताश्चैव सर्वे चैव परक्षराः ।। ४५.
नासिक्याद्योश्च ये चान्ये ये चैवान्तरनर्मदाः। भानुकच्छाः समा हेयाः सहसा शाश्वतैरपि ।। ४५.
कच्छीयाश्च सुराष्ट्राश्च अनर्त्ताश्चार्बुदैः सह। इत्येते सम्परीताश्च श्रृणुध्वं विन्ध्यवासिनः ।। ४५.
मालवाश्च करूषाश्च मेकलाश्चोत्कलैः सह। उत्तमर्णा दशार्णाश्च भोजाः किष्किन्धकैः सह ।। ४५.
तोसलाः कोसलाश्चैव त्रैपुरा वैदिकास्तथा। तुमुरास्तुम्बुराश्चैव षट्सुरा निषधैः सह ।। ४५.
अनुपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः। एते जनपदाः सर्वे विन्ध्य पृष्ठनिवासिनः ।। ४५.
अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च ये। निगर्हरा हंसमार्गाः क्षुपणास्तङ्गणाः खसाः ।। ४५.
कुशप्रावरणाश्चैव हूणा दर्वाः सहूदकाः। त्रिगर्त्ता मालवाश्चैव किरातास्तामसैः सह ।। ४५.
चत्वारि भारते वर्षे युगानि कवयो विदुः। कृतं त्रेता द्वारपञ्च कलिश्चेति चतुष्टयम्। तेषां निसर्गं वक्ष्यामि उपरिष्टान्निबोधत ।। ४५.
एतच्छ्रुत्वा तु ऋषय उत्तरं पुनरेव ते। शुश्रूषवो मुदा युक्ताः पप्रच्छुर्लोमहर्षणम् ।। ४६.
यच्च किम्पुरुषं वर्षं हरिवर्षं तथैव च। आचक्ष्व नो यथातत्त्वं कीर्त्तितं भारतं त्वया ।। ४६.
पृष्टत्स्विदं यथा विप्रैर्यथा प्रश्रं विशेषतः। उवाच मुनिनिर्दिष्टं पुराणं विहितं यथा ।। ४६.
शुश्रूषा यत्र वो विप्रास्तच्छृणुध्वं मुदा युताः। पुक्षखण्डः किम्पुरुषे सुमहान्नन्दनोपमः ।। ४६.
दशवर्षसहस्राणि स्थितिः किम्पुरुषे स्मृता। सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ।। ४६.
अनामया ह्यशोकाश्च सर्वे ते शुद्धमानसाः। जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः ।। ४६.
वर्षे किम्पुरुषे पुण्ये प्लक्षो मधुवहः शुभः। तस्य किम्पुरुषाः सर्वे पिबन्ति रसमुत्तमम् ।। ४६.
अतःपरं किं पुरुषाद्धरिवर्षः प्रचक्ष्यते। महारजतसङ्काशा जायन्ते तत्र मानवाः ।। ४६.
देवलोकाच्च्युताः सर्वे देवरूपाश्च सर्वशः। हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम् ।। ४६.
एकादश सहस्राणि वर्षाणां तु मुदा युताः। हरिवर्षे तु जीवन्ति सर्वे मुदितमानसाः। न जरा बाधते तत्र जीर्यन्ति न च ते नराः ।। ४६.
मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम्। न तत्र सूर्यस्तपति न च जीर्यन्ति मानवाः ।। ४६.
चन्द्रसूर्यौ सनक्षत्रावप्रकाशाविलावृते । पद्मवर्णाः पद्म प्रभाः पद्मपत्रनिभेक्षणाः। पक्षपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ।। ४६.
जम्बूरसफलाहारा ह्यनिष्पन्दाः सुगन्धिनः। मनस्विनो भुक्तभोगाः सत्कर्मफलभोगिनः ।। ४६.
देवलोकाच्च्युताः सर्वे जायन्ते ह्यजरामराः. त्रयोदशसहस्राणि वर्षाणान्ते नरोत्तमाः ।। ४६.