पुष्पगिर्युज्जयन्तौ च शैलो रैवतकस्तथा। श्रीपर्वतश्च कारुश्च कूटशैलो गिरिस्तथा ।। ४५.
अन्ये तेभ्यः परिज्ञाता ह्रस्वाः स्वल्पोपजीविनः। तैर्विमिश्रा जतपदा आर्यम्लेच्छाश्च नित्यशः ।। ४५.
पीयन्ते यैरिमा नद्यो गङ्गा सिन्धुः सरस्वती। शतद्रुश्चन्द्रभागा च यमुना सरयूस्तथा ।। ४५.
इरावती वितस्ता च विपाशा देविका कुहूः । गोमती धुतपापा च बाहुदा च दृषद्वती ।। ४५.
कौशिकी च तृतीया तु निश्चीरा गण्डकी तथा। इक्षु र्लोहित इत्येता हिमवत्पादनिःसृताः ।। ४५.
वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धुरेव च। वर्णाशा चन्दना चैव सतीरा महती तथा ।। ४५.
परा चर्म्मण्वती चैव विदिशा वेत्रवत्यपि। शिप्रा ह्यवन्ती च तथा पारियात्राश्रयाः स्मृताः ।। ४५.
शोणो महानदश्चैव नर्मदा सुमहाद्रुमा। मन्दाकिनी दशार्णा च चित्रकूटा तथैव च ।। ४५.
तमसा पिप्पला श्रोणी करतोया पिशाचिका। नीलोत्पला विपाशा च जम्बुला वालुवाहिनी ।। ४५.
सितेरजा शुक्तिमती मकुणा त्रिदिवा क्रमात् । ऋक्षपादात् प्रसूतास्ता नद्यो मणिनिभोदकाः ।। ४५.
तापी पयोष्णी निर्विन्ध्या मद्रा च निषधा नदी। वेन्वा वैतरणी चैव शितिबाहुः कुमुद्वती ।। ४५.
तोया चैव महागौरी दुर्गा चान्तशिला तथा। विन्ध्यपादप्रसूताश्च नद्यः पुण्यजलाः शुभाः ।। ४५.
गोदावरी भीमरथी कृष्णा वैण्यथ वञ्जुला। तुङ्गभद्रा सुप्रयोगा कावेरी च तथापगा। दक्षिणापथनद्यस्तु सह्यपादाद्विनिःसृताः ।। ४५.
कृतमाला ताम्रवर्णा पुष्पजात्युत्पलावती। मलयाभिजातास्ता नद्यः सर्वाः शीतजलाः शुभाः ।। ४५.
त्रिसामा ऋतुकुल्या च इक्षुला त्रिदिवा च या। लाङ्गुलिनी वंशधरा महेन्द्रतनयाः स्मृताः ।। ४५.
ऋषीका सुकुमारी च मन्दगा मन्दवाहिनी। कूपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ।। ४५.
सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः । विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः ।। ४५.
तासां नद्युपनद्योऽपि शतशोऽथ सहस्रशः। तास्त्विमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः ।। ४५.
शूरसेना भद्रकारा बोधाः शतपथेश्वरैः। वत्साः किसष्णाः कुल्याश् च कुन्तलाः काशिकोशलाः ।। ४५.
अथ पार्श्वे तिलङ्गाश्च मगधाश्च वृकैः सह। मध्यदेशा जनपदाः प्रायशोऽमी प्रकीर्तिताः ।। ४५.
सह्यस्य चोत्तरार्द्धे तु यत्र गोदावरी नदी। पृथिव्यामिह कृत्स्नायां सप्रदेशो मनोरमः ।। ४५.
तत्र गोवर्द्धनो नाम सुरराजेन निर्मितः। रामप्रियार्थं स्वर्गोऽयं वृक्षा ओषधयस्तथा ।। ४५.
भरद्वाजेन मुनिना तत्प्रियार्थेऽवतारिताः। अन्तःपुरवनोद्देशस्तेन जज्ञे मनोरमः ।। ४५.
वाह्लीका वाढधानाश्च आभीराः कालतोयकाः। अपरीताश्च शूद्राश्च पह्नवाश्चर्मखण्डिकाः ।। ४५.
गान्धारा यवनाश्चैव सिन्धुसौवीरभद्रकाः। शका ह्रदाः कुलिन्दाश्च परिता हारपूरिकाः ।। ४५.
रमटा रद्धकटकाः केकया दशमानिकाः। क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ।। ४५.
काम्बोजा दरदाश्चैव बर्बराः प्रियलौकिकाः। पीनाश्चैव तुषाराश्च पह्लवा बाह्यतोदराः ।। ४५.
आत्रेयाश्च भरद्वाजाः प्रस्थलाश्च कसेरुकाः. लम्पाका स्तनपाश्चैव पीडिका जुहुडैः सह ।। ४५.
अपगाश्चालिमद्राश्च किरातानाञ्च जातयः। तोमरा हंसमार्गाश्च काश्मीरास्तङ्गणास्तथा ।। ४५.
चूलिकाश्चाहुकाश्चैव पूर्णदर्वास्तथैव च। एते देशा ह्युदीच्याश्च प्राच्यान् देशान्निबोधत ।। ४५.