निसर्ग एष विख्यातः कुरूणान्तु यथार्थवत्। भारतस्य तु वक्ष्यामि निसर्गं तं निबोधत ।। ४५.
पुण्यतीर्थे हिमवतो दक्षिणस्याचलस्य हि। पूर्वपश्चायतस्यास्य दक्षिणेन द्विजोत्तमाः ।। ४५.
तथा जनपदानां च विस्तरं श्रोतुमर्हथ। अत्र वो वर्णयिष्यामि वर्षेऽस्मिन् भारते प्रजाः ।। ४५.
इदं तु मध्यमं चित्रं शुभाशुभफलोदयम्। उत्तरं यत्समुद्रस्य हिमवद्दक्षिणं च यत् ।। ४५.
वर्षं यद्भारतं नाम यत्रेयं भारती प्रजा। भरणाञ्च प्रजानां वै मनुर्भरत उच्यते। निरुक्तवचनाच्चैव वर्षं तद्भारतं स्मृतम् ।। ४५.
ततः स्वर्गश्च मोक्षश्च मध्यश्रान्तश्च गम्यते। न खल्वन्यत्र मर्त्त्यानां भूमौ कर्म विधीयते ।। ४५.
भारतस्यास्य वर्षस्य नव भेदाः प्रकीर्तिताः। समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ।। ४५.
इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान्। नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ।। ४५.
अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः। योजनांनां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरम् ।। ४५.
आयतो ह्याकुमारिक्यादाङ्गाप्रभवाच्च वै। तिर्यगुत्तरविस्तीर्णः सहस्राणि नवैव तु ।। ४५.
द्वीपो ह्युपनिविष्टोऽयं म्लेच्छैरन्तेषु नित्यशः। पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः ।। ४५.
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः। इज्यायुद्धवणिज्याभिर्वर्त्तयन्तो व्यवस्थिताः ।। ४५.
तेषां संव्यवहारोऽयं वर्त्तते तु परस्परम्। धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ।। ४५.
सङ्कल्पपञ्चमानां तु आश्रमाणां यथाविधि। इह स्वर्गापवर्गार्थं प्रवृत्तिर्येषु मानुषी ।। ४५.
यस्त्वयं नवमो द्वीपस्तिर्यगायत उच्यते। कृत्स्नं जयति यो ह्येनं स सम्राडिह कीर्त्त्यते ।। ४५.
अयं लोकस्तु वै सम्राडन्तरिक्षो विराट् स्मृतः। स्वराडन्यः स्मृतो लोकः पुनर्वक्ष्यामि विस्तरम् ।। ४५.
सप्त चास्मिन् सुपर्वाणो विश्रुताः कुलपर्वताः। महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः। विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ।। ४५.
तेषां सहस्रशश्चान्ये पर्वतास्तु समीपगाः। अभिजाताः सर्वगुणा विपुलाश्चित्रसानवः ।। ४५.
मन्दरः पर्वत श्रेष्ठो वैहारो दर्दुरस्तथा। कोलाहलः ससुरसः मैनाको वैद्युतस्तथा ।। ४५.
पातन्धमो नाम गिरिस्तथा पाण्डुरपर्वतः। गन्तुप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च ।। ४५.
पुष्पगिर्युज्जयन्तौ च शैलो रैवतकस्तथा। श्रीपर्वतश्च कारुश्च कूटशैलो गिरिस्तथा ।। ४५.
अन्ये तेभ्यः परिज्ञाता ह्रस्वाः स्वल्पोपजीविनः। तैर्विमिश्रा जतपदा आर्यम्लेच्छाश्च नित्यशः ।। ४५.
पीयन्ते यैरिमा नद्यो गङ्गा सिन्धुः सरस्वती। शतद्रुश्चन्द्रभागा च यमुना सरयूस्तथा ।। ४५.
इरावती वितस्ता च विपाशा देविका कुहूः । गोमती धुतपापा च बाहुदा च दृषद्वती ।। ४५.
कौशिकी च तृतीया तु निश्चीरा गण्डकी तथा। इक्षु र्लोहित इत्येता हिमवत्पादनिःसृताः ।। ४५.
वेदस्मृतिर्वेदवती वृत्रघ्नी सिन्धुरेव च। वर्णाशा चन्दना चैव सतीरा महती तथा ।। ४५.
परा चर्म्मण्वती चैव विदिशा वेत्रवत्यपि। शिप्रा ह्यवन्ती च तथा पारियात्राश्रयाः स्मृताः ।। ४५.
शोणो महानदश्चैव नर्मदा सुमहाद्रुमा। मन्दाकिनी दशार्णा च चित्रकूटा तथैव च ।। ४५.
तमसा पिप्पला श्रोणी करतोया पिशाचिका। नीलोत्पला विपाशा च जम्बुला वालुवाहिनी ।। ४५.
सितेरजा शुक्तिमती मकुणा त्रिदिवा क्रमात् । ऋक्षपादात् प्रसूतास्ता नद्यो मणिनिभोदकाः ।। ४५.