सर्वत्रैव तथोद्यानं सर्वत्रैव हि तत्पुरम्। सर्वद्वीपप्रमुदितं नरनारी समाकुलम्। प्रवाति चानिलस्तत्र नानापुष्पाधिवासितः ।। ४५.
चन्द्रकान्ता नरवराः श्यामाङ्काः पूर्वकूलजाः। श्यामावदाताः सुखिनः सूर्यकान्ता वराः प्रजाः ।। ४५.
तस्मिन् देशे नराः श्रेष्ठा देवसत्त्वपराक्रमाः। सदा विहारिणः सर्वे कामवृत्त्या सुवर्चसः ।। ४५.
वलयाङ्गदकेयूरहारकुण्डलभूषिताः । स्रग्विणश्चित्र मुकुटाश्चित्राच्छादनवाससः ।। ४५.
अजीर्णयौवनधराः सुप्रियाः प्रियदर्शनाः। प्रजा वर्षसहस्राणि जीवन्ति सुबहून्युत ।। ४५.
न ताः प्रसवधर्मिण्यो न वंशप्रक्षयो विधिः। मिथुनं जायते वृक्षादुपक्षममनीदृशम् ।। ४५.
सामान्यविभवाः सर्वे ममत्वपरिवर्जिताः। न तत्र विद्यते धर्मो नाधर्मः सम्प्रवर्त्तते ।। ४५.
न व्यधिर्न जरा तत्र न दुर्मेधा न च क्लमः। पूर्णे काले विनश्यन्ति जलबुद्बुदवच्च ते ।। ४५.
एवमत्यन्तसुखिनः सर्वदुःखविवर्जिताः। रक्ता धर्मं न पश्यन्ति दुःखाद्धर्मोऽभिजायते ।। ४५.
उत्तराणां कुरूणान्तु पार्श्वे ज्ञेयन्तु दक्षिणे। समुद्रमूर्मिमालाढ्यं नानास्वरविभूषितम् ।। ४५.
पञ्चयोजनसाहस्रमतिक्रम्य सुरालयम्। चन्द्रद्वीपमिति ख्यातं चद्रमण्डलसंस्थितम् ।। ४५.
सहस्रयोजनानान्तु सर्वतः परिमण्डलम्। नाना पुष्पफलोपेतं समृद्ध्या परया युतम्। शतयोजनविस्तीर्णमुच्छ्रितं तावदेव तु ।। ४५.
तस्य मध्ये गिरिवरः सिद्धचारणसेवितः। चन्द्र तुल्यप्रभैः कान्तैश्चन्द्राकारैः सुलक्षणैः ।। ४५.
श्वेतवैढूर्यकुमुदैश्चित्रोऽसौ कुमुदप्रभः। अनेकचित्रकोद्यानो नैकनिर्झरकन्दरः। महासानुदरीकुञ्जैर्विविधैः समलंकृतः ।। ४५.
तस्माच्छैलान्महापुण्या चन्द्रांशुविमलोदका। प्रवहत्युत्तमनदी चन्द्रावर्त्ता तरङ्गिणी ।। ४५.
तत्र चन्द्रमसः स्थानं नक्षत्राधिपतेर्वरम्। सदाऽवतरते तत्र चन्द्रमा ग्रहनायकः ।। ४५.
तत्र चन्द्रमसो नाम्ना शैलः स तु परिश्रुतः। चन्द्रद्वीपं महाद्वीपं प्रकाशं दिवि चेह च ।। ४५.
तत्र चन्द्रप्रतीकाशाः पूर्णचन्द्रनिभाननाः। चन्द्रकान्ताः प्रजाः सर्वा विमलाश्चन्द्रदैवताः ।। ४५.
अत्यन्तधार्मिकाः सौम्याः सत्यसन्धाः सुतेजसः। प्रजास्तत्र सदाचारा दशवर्षशतायुषः ।। ४५.
पश्चिमेन तु द्वीपस्य पश्चिमस्य प्रकीर्त्तितम्। चतुर्योजनसाहस्रं समतीत्य महोदधिम् ।। ४५.
दशयोजनसाहस्रं समन्तात् परिमण्डलम्। द्वीपं भद्राकरं नाम नानापुष्पोपशोभितम् ।। ४५.
प्रभूतधनधान्याढ्यमनेकनृपपालितम् । नित्यं प्रमुदितं स्फीतं महाशैलैश्च शोभितम् ।। ४५.
तत्र भद्रासनं वायोर्नानारत्नैश्च मण्डितम्। तत्र विग्रहवान् वायुः सदा पर्वसु पूज्यते ।। ४५.
तपनीयसुवर्णाभास्तपनीयविभूषिताः। विराजन्तेऽमर प्रख्यास्तत्र चित्राम्बरस्रजः ।। ४५.
वीर्यवन्तो महाभागाः पञ्चवर्षशतायुषः। सत्यसन्धा मुदा युक्ताः प्रजास्ता वायुदैवताः ।। ४५.
एवमेव निसर्गोऽयं वर्षाणां भारते युगे। दृष्टः परमतत्त्वज्ञैर्भूयः किं कीर्त्तयामि ते ।। ४५.
आख्याते त्वेवमृषयः सूतपुत्रेण धीमता। उत्तरश्रवणे भूयः पप्रच्छुस्तदनन्तरम् ।। ४५.
ऋषय ऊचुः। यदिदं भारतं वर्ष यस्मिन् स्वायम्भुवादयः। चतुर्दशैते मनवः प्रजासर्गे भवन्त्युत ।। ४५.
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम। एतत् श्रुत्वा वचस्तेषामब्रवील्लोमहर्षणः ।। ४५.
पौराणिकस्तदा सूत ऋषीणां भावितात्मनाम् । एत द्विस्तरतो भूयस्तानुवाच समाहितः ।। ४५.