गन्धवर्णरसाढ्यानि स्पर्शोपेतानि सर्वशः। तमालागुरुगन्धानां चन्दनानां वनानि च ।। ४५.
भ्रमरैरुपगीतानि प्रफुल्लानि सदैव च। वृक्षगुल्मलताढयानि वनानि सुसुखानि च ।। ४५.
षट्पदैरुपगीतानि द्विजैश्चान्यैर्द्विजोत्तमाः। पझोत्पलवनाढ्यानि सरांसि च सहस्रशः ।। ४५.
भक्ष्यमाल्यसमृद्धाश्च बहुमाल्यानुलेपनाः। मनोहरमुखैश्चित्रैः पक्षिसङ्घैर्निकूजिताः ।। ४५.
शयनासनोपभोगाश्च अनेकगुणविस्तराः। विहारभूमयो रम्याः सर्वर्तुषु सुखप्रदाः ।। ४५.
आक्रीडाः सर्वतः स्फीताः मणिहेमपरिष्कृताः। शिलागृहा वृक्षगृहा वरेण्याः कदली गृहाः ।। ४५.
लतागृहसहस्राणि सुसुखानि समन्ततः। शुद्धशङ्खदलाभानि भूमिवेश्मशतानि च ।। ४५.
तपनीयगवाक्षाणि माणिजालान्तराणि च। सुवर्णमणिचित्राणि सर्वत्र विपुलानि च ।। ४५.
महावृक्षसहस्राणि वरेण्यानि च सर्वशः। नानाकाराणि वासांसि सूक्ष्माणि सुसुखानि च ।। ४५.
मृदङ्ग वेणुपणववीणाद्या बहुविस्तराः। फलन्ति कल्पवृक्षाणां सहस्राणि शतानि च ।। ४५.
सर्वत्रैव तथोद्यानं सर्वत्रैव हि तत्पुरम्। सर्वद्वीपप्रमुदितं नरनारी समाकुलम्। प्रवाति चानिलस्तत्र नानापुष्पाधिवासितः ।। ४५.
चन्द्रकान्ता नरवराः श्यामाङ्काः पूर्वकूलजाः। श्यामावदाताः सुखिनः सूर्यकान्ता वराः प्रजाः ।। ४५.
तस्मिन् देशे नराः श्रेष्ठा देवसत्त्वपराक्रमाः। सदा विहारिणः सर्वे कामवृत्त्या सुवर्चसः ।। ४५.
वलयाङ्गदकेयूरहारकुण्डलभूषिताः । स्रग्विणश्चित्र मुकुटाश्चित्राच्छादनवाससः ।। ४५.
अजीर्णयौवनधराः सुप्रियाः प्रियदर्शनाः। प्रजा वर्षसहस्राणि जीवन्ति सुबहून्युत ।। ४५.
न ताः प्रसवधर्मिण्यो न वंशप्रक्षयो विधिः। मिथुनं जायते वृक्षादुपक्षममनीदृशम् ।। ४५.
सामान्यविभवाः सर्वे ममत्वपरिवर्जिताः। न तत्र विद्यते धर्मो नाधर्मः सम्प्रवर्त्तते ।। ४५.
न व्यधिर्न जरा तत्र न दुर्मेधा न च क्लमः। पूर्णे काले विनश्यन्ति जलबुद्बुदवच्च ते ।। ४५.
एवमत्यन्तसुखिनः सर्वदुःखविवर्जिताः। रक्ता धर्मं न पश्यन्ति दुःखाद्धर्मोऽभिजायते ।। ४५.
उत्तराणां कुरूणान्तु पार्श्वे ज्ञेयन्तु दक्षिणे। समुद्रमूर्मिमालाढ्यं नानास्वरविभूषितम् ।। ४५.
पञ्चयोजनसाहस्रमतिक्रम्य सुरालयम्। चन्द्रद्वीपमिति ख्यातं चद्रमण्डलसंस्थितम् ।। ४५.
सहस्रयोजनानान्तु सर्वतः परिमण्डलम्। नाना पुष्पफलोपेतं समृद्ध्या परया युतम्। शतयोजनविस्तीर्णमुच्छ्रितं तावदेव तु ।। ४५.
तस्य मध्ये गिरिवरः सिद्धचारणसेवितः। चन्द्र तुल्यप्रभैः कान्तैश्चन्द्राकारैः सुलक्षणैः ।। ४५.
श्वेतवैढूर्यकुमुदैश्चित्रोऽसौ कुमुदप्रभः। अनेकचित्रकोद्यानो नैकनिर्झरकन्दरः। महासानुदरीकुञ्जैर्विविधैः समलंकृतः ।। ४५.
तस्माच्छैलान्महापुण्या चन्द्रांशुविमलोदका। प्रवहत्युत्तमनदी चन्द्रावर्त्ता तरङ्गिणी ।। ४५.
तत्र चन्द्रमसः स्थानं नक्षत्राधिपतेर्वरम्। सदाऽवतरते तत्र चन्द्रमा ग्रहनायकः ।। ४५.
तत्र चन्द्रमसो नाम्ना शैलः स तु परिश्रुतः। चन्द्रद्वीपं महाद्वीपं प्रकाशं दिवि चेह च ।। ४५.
तत्र चन्द्रप्रतीकाशाः पूर्णचन्द्रनिभाननाः। चन्द्रकान्ताः प्रजाः सर्वा विमलाश्चन्द्रदैवताः ।। ४५.
अत्यन्तधार्मिकाः सौम्याः सत्यसन्धाः सुतेजसः। प्रजास्तत्र सदाचारा दशवर्षशतायुषः ।। ४५.
पश्चिमेन तु द्वीपस्य पश्चिमस्य प्रकीर्त्तितम्। चतुर्योजनसाहस्रं समतीत्य महोदधिम् ।। ४५.