कुरूणामपि चैतेषां श्रृणुध्वं विस्तरेण तु। जारुधेः शैलराजस्याप्युत्तरेणोत्तरस्य हि। दिक्षु सर्वासु यद्यत्र कीर्त्यमानं निबोधत ।। ४५.
अनेककन्दरदरीगुहानिर्झरमण्डितौ। नैककुञ्जवनोपेतौ चित्रधातुविभूषितौ ।। ४५.
अनेकधातुकलिलौ सर्वधातुविभूषितौ। पुष्पमूलफलोपेतौ सिद्धचारणसेवितौ ।। ४५.
द्वावप्येतौ सुमहतावुच्छ्रितौ कुल पर्वतौ। ताभ्यां कूटशतैर्नैकैस्तद्द्वीपमुपसेवितम् ।। ४५.
चन्द्रकान्तश्च शैलश्च सूर्यकान्तश्च सानुमान् । ययोर्मध्ये न सा याता भद्रसोमा महानदी ।। ४५.
सहस्रशश्च नद्योऽन्याः प्रसन्नसुरसोदकाः। पर्याप्तोदाः कुरूणां हि स्नानपानावगाहनैः ।। ४५.
तथाऽन्याः क्षीरवाहिन्यो महानद्यः सहस्रशः। मधुमैरेयवाहिन्यो घृतवाहिन्य एव च ।। ४५.
दध्नः शतह्रदाश्चान्यास्ततः स्वाद्वन्नपर्वतः। अमृतस्वादुकल्पानि फलानि विविधानि च ।। ४५.
गन्धवर्णरसाढ्यानि मूलानि च फलानि च। पञ्चयोजनमानानि महागन्धानि सर्वशः ।। ४५.
नानावर्णप्रकाराणि पुष्पाणि च सहस्रशः। उप भोगसहस्राणि भद्राणि च महान्ति च ।। ४५.
गन्धवर्णरसाढ्यानि स्पर्शोपेतानि सर्वशः। तमालागुरुगन्धानां चन्दनानां वनानि च ।। ४५.
भ्रमरैरुपगीतानि प्रफुल्लानि सदैव च। वृक्षगुल्मलताढयानि वनानि सुसुखानि च ।। ४५.
षट्पदैरुपगीतानि द्विजैश्चान्यैर्द्विजोत्तमाः। पझोत्पलवनाढ्यानि सरांसि च सहस्रशः ।। ४५.
भक्ष्यमाल्यसमृद्धाश्च बहुमाल्यानुलेपनाः। मनोहरमुखैश्चित्रैः पक्षिसङ्घैर्निकूजिताः ।। ४५.
शयनासनोपभोगाश्च अनेकगुणविस्तराः। विहारभूमयो रम्याः सर्वर्तुषु सुखप्रदाः ।। ४५.
आक्रीडाः सर्वतः स्फीताः मणिहेमपरिष्कृताः। शिलागृहा वृक्षगृहा वरेण्याः कदली गृहाः ।। ४५.
लतागृहसहस्राणि सुसुखानि समन्ततः। शुद्धशङ्खदलाभानि भूमिवेश्मशतानि च ।। ४५.
तपनीयगवाक्षाणि माणिजालान्तराणि च। सुवर्णमणिचित्राणि सर्वत्र विपुलानि च ।। ४५.
महावृक्षसहस्राणि वरेण्यानि च सर्वशः। नानाकाराणि वासांसि सूक्ष्माणि सुसुखानि च ।। ४५.
मृदङ्ग वेणुपणववीणाद्या बहुविस्तराः। फलन्ति कल्पवृक्षाणां सहस्राणि शतानि च ।। ४५.
सर्वत्रैव तथोद्यानं सर्वत्रैव हि तत्पुरम्। सर्वद्वीपप्रमुदितं नरनारी समाकुलम्। प्रवाति चानिलस्तत्र नानापुष्पाधिवासितः ।। ४५.
चन्द्रकान्ता नरवराः श्यामाङ्काः पूर्वकूलजाः। श्यामावदाताः सुखिनः सूर्यकान्ता वराः प्रजाः ।। ४५.
तस्मिन् देशे नराः श्रेष्ठा देवसत्त्वपराक्रमाः। सदा विहारिणः सर्वे कामवृत्त्या सुवर्चसः ।। ४५.
वलयाङ्गदकेयूरहारकुण्डलभूषिताः । स्रग्विणश्चित्र मुकुटाश्चित्राच्छादनवाससः ।। ४५.
अजीर्णयौवनधराः सुप्रियाः प्रियदर्शनाः। प्रजा वर्षसहस्राणि जीवन्ति सुबहून्युत ।। ४५.
न ताः प्रसवधर्मिण्यो न वंशप्रक्षयो विधिः। मिथुनं जायते वृक्षादुपक्षममनीदृशम् ।। ४५.
सामान्यविभवाः सर्वे ममत्वपरिवर्जिताः। न तत्र विद्यते धर्मो नाधर्मः सम्प्रवर्त्तते ।। ४५.
न व्यधिर्न जरा तत्र न दुर्मेधा न च क्लमः। पूर्णे काले विनश्यन्ति जलबुद्बुदवच्च ते ।। ४५.
एवमत्यन्तसुखिनः सर्वदुःखविवर्जिताः। रक्ता धर्मं न पश्यन्ति दुःखाद्धर्मोऽभिजायते ।। ४५.
उत्तराणां कुरूणान्तु पार्श्वे ज्ञेयन्तु दक्षिणे। समुद्रमूर्मिमालाढ्यं नानास्वरविभूषितम् ।। ४५.