उत्तरस्य समुद्रस्य समुद्रान्ते च दक्षिणे। कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम् ।। ४५.
तत्र वृक्षा मधुफला नित्यं पुष्पफलोपगाः। वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ।। ४५.
सर्वकामफलास्तत्र व्कचिद्वृक्षा मनोरमाः। गन्धर्वाप्सरसोपेतं प्रक्षरन्ति मधूत्तमम् ।। ४५.
अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः। ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ।। ४५.
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चन वालुका। सर्वातः सुखसंस्पर्शा निष्पङ्का नीरुजा शुभा ।। ४५.
देवलोकाच्च्युतास्तत्र जायन्ते मानवाः शुभाः। शुक्लाभिजनसम्पन्नाः सर्वे च स्थिर यौवनाः ।। ४५.
मिथुनानि प्रसूयन्ते स्त्रियश्चातिमनोहराः। ते च तं क्षीरिणं वृक्षं पिबन्ति ह्यमृतोपमम् ।। ४५.
मिथुनं जायते सद्यः समञ्चैव विवर्द्धते। समं शीलञ्च रूपं च म्रियन्ते चैव ते समम् ।। ४५.
अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः। अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ।। ४५.
त्रयोदश सहस्राणि शतानि दशपञ्च च। जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ।। ४५.
कुरूणामपि चैतेषां श्रृणुध्वं विस्तरेण तु। जारुधेः शैलराजस्याप्युत्तरेणोत्तरस्य हि। दिक्षु सर्वासु यद्यत्र कीर्त्यमानं निबोधत ।। ४५.
अनेककन्दरदरीगुहानिर्झरमण्डितौ। नैककुञ्जवनोपेतौ चित्रधातुविभूषितौ ।। ४५.
अनेकधातुकलिलौ सर्वधातुविभूषितौ। पुष्पमूलफलोपेतौ सिद्धचारणसेवितौ ।। ४५.
द्वावप्येतौ सुमहतावुच्छ्रितौ कुल पर्वतौ। ताभ्यां कूटशतैर्नैकैस्तद्द्वीपमुपसेवितम् ।। ४५.
चन्द्रकान्तश्च शैलश्च सूर्यकान्तश्च सानुमान् । ययोर्मध्ये न सा याता भद्रसोमा महानदी ।। ४५.
सहस्रशश्च नद्योऽन्याः प्रसन्नसुरसोदकाः। पर्याप्तोदाः कुरूणां हि स्नानपानावगाहनैः ।। ४५.
तथाऽन्याः क्षीरवाहिन्यो महानद्यः सहस्रशः। मधुमैरेयवाहिन्यो घृतवाहिन्य एव च ।। ४५.
दध्नः शतह्रदाश्चान्यास्ततः स्वाद्वन्नपर्वतः। अमृतस्वादुकल्पानि फलानि विविधानि च ।। ४५.
गन्धवर्णरसाढ्यानि मूलानि च फलानि च। पञ्चयोजनमानानि महागन्धानि सर्वशः ।। ४५.
नानावर्णप्रकाराणि पुष्पाणि च सहस्रशः। उप भोगसहस्राणि भद्राणि च महान्ति च ।। ४५.
गन्धवर्णरसाढ्यानि स्पर्शोपेतानि सर्वशः। तमालागुरुगन्धानां चन्दनानां वनानि च ।। ४५.
भ्रमरैरुपगीतानि प्रफुल्लानि सदैव च। वृक्षगुल्मलताढयानि वनानि सुसुखानि च ।। ४५.
षट्पदैरुपगीतानि द्विजैश्चान्यैर्द्विजोत्तमाः। पझोत्पलवनाढ्यानि सरांसि च सहस्रशः ।। ४५.
भक्ष्यमाल्यसमृद्धाश्च बहुमाल्यानुलेपनाः। मनोहरमुखैश्चित्रैः पक्षिसङ्घैर्निकूजिताः ।। ४५.
शयनासनोपभोगाश्च अनेकगुणविस्तराः। विहारभूमयो रम्याः सर्वर्तुषु सुखप्रदाः ।। ४५.
आक्रीडाः सर्वतः स्फीताः मणिहेमपरिष्कृताः। शिलागृहा वृक्षगृहा वरेण्याः कदली गृहाः ।। ४५.
लतागृहसहस्राणि सुसुखानि समन्ततः। शुद्धशङ्खदलाभानि भूमिवेश्मशतानि च ।। ४५.
तपनीयगवाक्षाणि माणिजालान्तराणि च। सुवर्णमणिचित्राणि सर्वत्र विपुलानि च ।। ४५.
महावृक्षसहस्राणि वरेण्यानि च सर्वशः। नानाकाराणि वासांसि सूक्ष्माणि सुसुखानि च ।। ४५.
मृदङ्ग वेणुपणववीणाद्या बहुविस्तराः। फलन्ति कल्पवृक्षाणां सहस्राणि शतानि च ।। ४५.