ते नामधेयैर्विक्रान्ता विविधाः प्रथिताः भुवि। अध्यासिता जनपदैः कीर्त्तनैश्च विभूषिताः ।। ४४.
तेषां सनामधेयानि राष्ट्राणि विविधानि च। गिर्य्यन्तरनिविष्टानि समेषु विषमेषु च ।। ४४.
यथैह कथिताः पौरा गोमनुष्यकपोतकाः। तत्सुखा भ्रमरा यूथा माहेयाचलकूटकाः ।। ४४.
सुमौलाः स्तावकाः क्रौञ्चाः कृष्णाङ्गमणिपुञ्जकाः. कूटकम्बलमौषीयाः समुद्रान्तरकास्तथा ।। ४४.
करम्भवाः कुचाः श्वेताः सुवर्णकटकाः शुभाः। श्वेताङ्गाः कृष्णपादाश्च विहगा कपिलकर्णिकाः ।। ४४.
अत्याकरालगोज्वाला हीनानावनपातकाः। महिषाः कुमुदाभाश्च करवाटाः सहोत्कचाः ।। ४४.
शु(नका) कनासा महानासा वनासगजभूमिकाः। करञ्जमञ्जमा वाहाः किष्किण्डीपाण्डुभूमिकीः ।। ४४.
कुबेरा धूमजा जङ्गा वङ्गा राजीवकोकिलाः। वाचाङ्गाश्च महाङ्गाश्च मधौरेयाः सुरेचकाः ।। ४४.
पित्तलाः काचलाश्चैव श्रवणा मत्तकासिकाः। गोदावा बकुला वाङ्गा वङ्गका मोदकाः कलाः ।। ४४.
ते पिबन्ति महाभागाः प्रथमान्तु महानदीम्। सुवप्रां पुण्यसलिलां महानागनिषेविताम् ।। ४४.
कम्बलां तामसीं श्यामां सुमेधां बकुलां नदीम्। विकीर्णां शिखिमालाञ्च तथा दर्भावतीमपि ।। ४४.
भद्रानदीं शुकनदीं पलाशाञ्च महानदीम्। भीमां प्रभञ्जनां काञ्चीं पुण्याञ्चैव कुशावतीम् ।। ४३.
दक्षां शाकवतीञ्चैव पुण्यो दाञ्च महानदीम्। चन्द्रावतीं सुमूलाञ्च ऋषभाञ्चापगोत्तमाम् ।। ४४.
नदीं समुद्रमालाञ्च तथा चम्पावतीमपि। एकाक्षां पुष्कलां वाहां सुवर्णां नन्दि नीमपि ।। ४४.
कालिन्दीञ्चैव पुण्योदां भारतीञ्च महानदीम् । सीतोदाम्पातिकां ब्राह्मीं विशालाञ्च महानदीम् ।। ४४.
पीवरीं कुम्भकारीञ्च रुषा ञ्चैवापगोत्तमाम्। महिषीं मानुषीं दण्डां तथा नदनदीं शुभाम् ।। ४४.
एताञ्चान्याञ्च पीयन्ते बह्वयो हि सरितोत्तमाः । देवर्षिसिद्धचरिताः पुण्योदाः पापहाः शुभाः ।। ४४.
नानाजनपदास्फीतं महापगाविभूषितम्। नानारत्नौघसम्पूर्णं नित्यं प्रमुदितं शिवम् ।। ४४.
उदीर्णं धनधान्यार्थैर्नरवासैः समन्ततः। सन्निविष्टं महाद्वीपं पश्चिमं सुकृतात्मनाम् । निसर्गः केतुमालानामेष वः परिकीर्त्तितः ।। ४४.
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम चतुश्वत्वारिंशोऽध्यायः
पूर्वापरौ समाख्यातौ द्वौ देशौ नस्त्वया प्रभो। उत्तराणाञ्च वर्षाणां दक्षिणानाञ्च सर्वशः। आचक्ष्व नो यथातथ्यं ये च पर्वतवासिनः ।। ४५.
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु। वर्षं रमणकं नाम जायन्ते तत्र मानवाः ।। ४५.
सर्वर्तुकामदाः सत्त्वा जरादुर्गन्धवर्जिताः। शुक्राभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः ।। ४५.
तत्रापि सुमहान् दिव्यो न्यग्रोधो रोहिणो महान्। तस्य पीत्वा फलरसं पिबन्तो वर्त्तयन्त्युत ।। ४५.
दशवर्षसहस्राणि शतानि दशपञ्च च। जीवन्ति ते महाभागा सदा हृष्टा नरोत्तमाः ।। ४५.
उत्तरेण तु श्वेतस्य श्रृङ्गसाह्वस्य दक्षिणे। वर्षं हिरण्यतं नाम यत्र हैरण्यती नदी ।। ४५.
महाबलाः सुतेजस्काजायन्तेतत्र मानवाः। सर्वर्तुकामदाः सत्वा धनिनः प्रिय दर्शनाः ।। ४५.
एकादश सहस्राणि वर्षाणां तेऽमितौजसः। आयुष्प्रमाणं जीवन्ति शतानि दशपञ्च च ।। ४५.
तस्मिन् वर्षे महावृक्षो लकुचः षड्रसाश्रयः। तस्यपीत्वा फलरसं तत्र जीवन्ति मानवाः ।। ४५.
त्रीणि श्रृङ्गवतः श्रृङ्गाण्युच्छ्रितानि महान्ति च । एकं मणिमयं तेषामेकञ्चैव हिरण्ययम्। सर्वरत्न मयं चैकं भवनैरुपशोभितम् ।। ४५.