शाखावती चेन्द्रनदी मेघा मङ्गारवाहिनी। कावेरी हरितोया च सोमावर्त्ता शतह्रदा ।। ४३.
वनमाला वसुमती पम्पा पम्पावती शुभा। सुवर्णा पञ्च वर्णा च तथा पुण्या वपुष्मती ।। ४३.
मणिवप्रा सुवप्रा च ब्रह्मभागा शिलाशिनी। कृष्णतोया च पुण्योदा तथा नागपदी शुभा ।। ४३.
शैवालिनी मणितटा क्षारोदा चारुणावती। तथा विष्णुपदी चैव महापुण्या महानदी ।। ४३.
हिरण्यवाहिनीला च स्कन्दमाला सुरावती । वामोदा च पताका च वेताली च महानदी ।। ४३.
एता गङ्गा महानद्यो नायिकाः परिकीर्तिताः। क्षुद्रनद्यस्त्वसंख्याताः शतशोऽथ सहस्रशः ।। ४३.
पूर्वद्वीपस्य वोहिन्यः पुण्यवत्यश्च कीर्तिताः। कीर्त्तनेनापि चैतासां पूतः स्यादिति मे मतिः ।। ४३.
समृद्धराष्ट्रं स्फीतञ्च नानाजनपदाकुलम्। नानावृक्षवनोद्देशं नानानग सुवेष्टितम् ।। ४३.
नरनारीगणाकीर्णं नित्यं प्रमुदितं शिवम्। बहुधान्यधनोपेतं नानानृपतिपालितम् । उपेतं कीर्तनशतैर्नानारत्नाकराकरम् ।। ४३.
तस्मिन्देशे समाख्याता हेमशङ्खदलप्रभाः। महाकाया महावीर्याः पुरुषाः पुरुषर्षभाः ।। ४३.
सम्भाषणं दर्शनञ्च समस्थानोपसेवनम् । देवैः सह महाभागाः कुर्वते तत्र वै प्रजाः ।। ४३.
दशवर्षसहस्राणि तेषामायुः प्रकीर्तितम्। धर्माधर्मविशेषश्च न तेष्वस्ति महात्मसु। अहिंसा सत्यवाक्यञ्च प्रकृत्यैव हि वर्त्तते ।। ४३.
ते भक्त्या शङ्करं देवं गौरीं परमवैष्णवीम्। इज्यापूजानमस्कारांस्ताभ्यां नित्यं प्रयुञ्जते ।। ४३.
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम त्रिचत्वारिंशोऽध्यायः
निसर्ग एष विख्यातो भद्राश्वानां यथार्थवत् । श्रृणुध्वं केतुमालानां विस्तरेण प्रकीर्त्तनम् ।। ४४.
निषधस्याचलेन्द्रस्य पश्चिमस्य महात्मनः। पश्चिमेन हि यत्तत्र दिक्षु सर्वासु कीर्तितम् ।। ४४.
कुलाचलानां सप्तानां नदीनाञ्च विशेषतः। तथा जनपदानाञ्च विस्तरं श्रोतुमर्हथ ।। ४४.
विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः। अशोको वर्द्धमानश्च सप्तैते कुलपर्व्वताः ।। ४४.
तेषां प्रसूतिरन्येऽपि पर्वता बहुविस्तराः। कोटिकोटिशता ज्ञेयाः शतशोऽथ सहस्रशः ।। ४४.
तैर्विमिश्रा जनपदा नानाजातिसमाकुलाः। नानाप्रकारविज्ञेयास्त्वनेकनृपपालिताः ।। ४४.
ते नामधेयैर्विक्रान्ता विविधाः प्रथिताः भुवि। अध्यासिता जनपदैः कीर्त्तनैश्च विभूषिताः ।। ४४.
तेषां सनामधेयानि राष्ट्राणि विविधानि च। गिर्य्यन्तरनिविष्टानि समेषु विषमेषु च ।। ४४.
यथैह कथिताः पौरा गोमनुष्यकपोतकाः। तत्सुखा भ्रमरा यूथा माहेयाचलकूटकाः ।। ४४.
सुमौलाः स्तावकाः क्रौञ्चाः कृष्णाङ्गमणिपुञ्जकाः. कूटकम्बलमौषीयाः समुद्रान्तरकास्तथा ।। ४४.
करम्भवाः कुचाः श्वेताः सुवर्णकटकाः शुभाः। श्वेताङ्गाः कृष्णपादाश्च विहगा कपिलकर्णिकाः ।। ४४.
अत्याकरालगोज्वाला हीनानावनपातकाः। महिषाः कुमुदाभाश्च करवाटाः सहोत्कचाः ।। ४४.
शु(नका) कनासा महानासा वनासगजभूमिकाः। करञ्जमञ्जमा वाहाः किष्किण्डीपाण्डुभूमिकीः ।। ४४.
कुबेरा धूमजा जङ्गा वङ्गा राजीवकोकिलाः। वाचाङ्गाश्च महाङ्गाश्च मधौरेयाः सुरेचकाः ।। ४४.
पित्तलाः काचलाश्चैव श्रवणा मत्तकासिकाः। गोदावा बकुला वाङ्गा वङ्गका मोदकाः कलाः ।। ४४.
ते पिबन्ति महाभागाः प्रथमान्तु महानदीम्। सुवप्रां पुण्यसलिलां महानागनिषेविताम् ।। ४४.