तैर्विमिश्रा जनपदैर्नानासत्त्वसमाकुलाः। नानाप्रकारजातीयास्त्वनेकनृपपालिताः ।। ४३.
नामधेयैश्च निक्रान्तैः श्रीमद्भिः पुरुषर्षभैः। अध्यासिता जनपदाः कीर्तनीयाश्च शोभिताः ।। ४३.
तेषान्तु नामधेयानि राष्ट्राणि विविधानि च। गिर्यन्तरनिविष्टानि समेषु विषमेषु च ।। ४३.
तथा सुमङ्गलाः शुद्धाश्चन्द्रकान्ताः सुनन्दनाः। व्रजका नीलशैलेयाः सौवीरा विजयस्थलाः ।। ४३.
महास्थलाः सुकामाश्च महाकेशाः सुमूर्द्धजाः। वातरंहाः सोपसङ्गाः परिवायाः पराचकाः ।। ४३.
सम्भवक्रा महानेत्राः शैवालास्तनपास्तथा। कुमुदाः शाकमुण्डाश्च उरः सङ्कीर्णभौमकाः ।। ४३.
सोदका वत्सकाश्चैके वाराहा हारवामकाः। शङ्खाख्या भाविसन्द्राश्च उत्तरा हैमभौमकाः ।। ४३.
कृष्णभौमाः सुभौमाश्च महाभौमाश्च कीर्तिताः। एते चान्ये च विख्याता नानाजनपदा मया ।। ४३.
ते पिबन्ति महापुण्यां महागङ्गां महानदीम्। आदौ त्रैलोक्यविख्याता शीता शीताम्बुवाहिनी ।। ४३.
तथा च हंसवसतिर्महाचक्रा च निम्नगा। चक्रा वक्रा च कञ्ची च सुरसा चापगोत्तमा ।। ४३.
शाखावती चेन्द्रनदी मेघा मङ्गारवाहिनी। कावेरी हरितोया च सोमावर्त्ता शतह्रदा ।। ४३.
वनमाला वसुमती पम्पा पम्पावती शुभा। सुवर्णा पञ्च वर्णा च तथा पुण्या वपुष्मती ।। ४३.
मणिवप्रा सुवप्रा च ब्रह्मभागा शिलाशिनी। कृष्णतोया च पुण्योदा तथा नागपदी शुभा ।। ४३.
शैवालिनी मणितटा क्षारोदा चारुणावती। तथा विष्णुपदी चैव महापुण्या महानदी ।। ४३.
हिरण्यवाहिनीला च स्कन्दमाला सुरावती । वामोदा च पताका च वेताली च महानदी ।। ४३.
एता गङ्गा महानद्यो नायिकाः परिकीर्तिताः। क्षुद्रनद्यस्त्वसंख्याताः शतशोऽथ सहस्रशः ।। ४३.
पूर्वद्वीपस्य वोहिन्यः पुण्यवत्यश्च कीर्तिताः। कीर्त्तनेनापि चैतासां पूतः स्यादिति मे मतिः ।। ४३.
समृद्धराष्ट्रं स्फीतञ्च नानाजनपदाकुलम्। नानावृक्षवनोद्देशं नानानग सुवेष्टितम् ।। ४३.
नरनारीगणाकीर्णं नित्यं प्रमुदितं शिवम्। बहुधान्यधनोपेतं नानानृपतिपालितम् । उपेतं कीर्तनशतैर्नानारत्नाकराकरम् ।। ४३.
तस्मिन्देशे समाख्याता हेमशङ्खदलप्रभाः। महाकाया महावीर्याः पुरुषाः पुरुषर्षभाः ।। ४३.
सम्भाषणं दर्शनञ्च समस्थानोपसेवनम् । देवैः सह महाभागाः कुर्वते तत्र वै प्रजाः ।। ४३.
दशवर्षसहस्राणि तेषामायुः प्रकीर्तितम्। धर्माधर्मविशेषश्च न तेष्वस्ति महात्मसु। अहिंसा सत्यवाक्यञ्च प्रकृत्यैव हि वर्त्तते ।। ४३.
ते भक्त्या शङ्करं देवं गौरीं परमवैष्णवीम्। इज्यापूजानमस्कारांस्ताभ्यां नित्यं प्रयुञ्जते ।। ४३.
इति श्रीमहापुराणे वायुप्रोक्ते भुवनविन्यासो नाम त्रिचत्वारिंशोऽध्यायः
निसर्ग एष विख्यातो भद्राश्वानां यथार्थवत् । श्रृणुध्वं केतुमालानां विस्तरेण प्रकीर्त्तनम् ।। ४४.
निषधस्याचलेन्द्रस्य पश्चिमस्य महात्मनः। पश्चिमेन हि यत्तत्र दिक्षु सर्वासु कीर्तितम् ।। ४४.
कुलाचलानां सप्तानां नदीनाञ्च विशेषतः। तथा जनपदानाञ्च विस्तरं श्रोतुमर्हथ ।। ४४.
विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः। अशोको वर्द्धमानश्च सप्तैते कुलपर्व्वताः ।। ४४.
तेषां प्रसूतिरन्येऽपि पर्वता बहुविस्तराः। कोटिकोटिशता ज्ञेयाः शतशोऽथ सहस्रशः ।। ४४.
तैर्विमिश्रा जनपदा नानाजातिसमाकुलाः। नानाप्रकारविज्ञेयास्त्वनेकनृपपालिताः ।। ४४.