भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसा। भद्रं सालवनं तत्र कालाम्राश्च महाद्रुमाः ।। ४३.
तत्र ते पुरुषाः श्वेता महासत्त्वा महाबलाः। स्त्रियः कुमुदवर्णाभाः सुन्दर्य्यः प्रियदर्शनाः ।। ४३.
चन्द्रप्रभाश्वन्द्रवर्णाः पूर्णचन्द्रनिभाननाः। चन्द्रशीतलगात्राश्च स्त्रियश्चोत्पलगन्धिकाः ।। ४३.
दशवर्षसहस्राणि तेषामायुर्निरामयम्। कालाम्रस्य रसं पीत्वा सर्वदा सिथरयौवनाः ।। ४३.
प्रमाणं वर्णमायुश्च याथातथ्येन कीर्तितम्। चतुर्णामपि द्वीपानां समासान्न तु विस्तरात् ।। ४३.
भद्राश्वानां यथा चिह्नं कीर्तितं कीर्तिवर्द्धनाः। तच्छृणुध्वं तु कार्त्स्न्येन पूर्वसिद्धैरुदाहृतम् ।। ४३.
देवकूटस्य सर्वस्य प्रथितस्येह यत्परम्। पूर्वेण दिक्षु सर्वासु यथावच्च प्रकीर्तितम् ।। ४३.
कुलाचलानां पञ्चानां नदीनाञ्च विशेषतः। तथा जनपदानाञ्च यथा दृष्टं यथाश्रुतम् ।। ४३.
शैवालो वर्णमालाग्रः कोरञ्जश्चाचलोत्तमः। श्वेतवर्णश्च नीलश्च पञ्चैते कुलपर्वताः ।। ४३.
तेषां प्रसूतिरन्येपि पर्वता बहुविस्तराः। कोटिकोटिः क्षितौ ज्ञेयाः शतशोऽथ सहस्रशः ।। ४३.
तैर्विमिश्रा जनपदैर्नानासत्त्वसमाकुलाः। नानाप्रकारजातीयास्त्वनेकनृपपालिताः ।। ४३.
नामधेयैश्च निक्रान्तैः श्रीमद्भिः पुरुषर्षभैः। अध्यासिता जनपदाः कीर्तनीयाश्च शोभिताः ।। ४३.
तेषान्तु नामधेयानि राष्ट्राणि विविधानि च। गिर्यन्तरनिविष्टानि समेषु विषमेषु च ।। ४३.
तथा सुमङ्गलाः शुद्धाश्चन्द्रकान्ताः सुनन्दनाः। व्रजका नीलशैलेयाः सौवीरा विजयस्थलाः ।। ४३.
महास्थलाः सुकामाश्च महाकेशाः सुमूर्द्धजाः। वातरंहाः सोपसङ्गाः परिवायाः पराचकाः ।। ४३.
सम्भवक्रा महानेत्राः शैवालास्तनपास्तथा। कुमुदाः शाकमुण्डाश्च उरः सङ्कीर्णभौमकाः ।। ४३.
सोदका वत्सकाश्चैके वाराहा हारवामकाः। शङ्खाख्या भाविसन्द्राश्च उत्तरा हैमभौमकाः ।। ४३.
कृष्णभौमाः सुभौमाश्च महाभौमाश्च कीर्तिताः। एते चान्ये च विख्याता नानाजनपदा मया ।। ४३.
ते पिबन्ति महापुण्यां महागङ्गां महानदीम्। आदौ त्रैलोक्यविख्याता शीता शीताम्बुवाहिनी ।। ४३.
तथा च हंसवसतिर्महाचक्रा च निम्नगा। चक्रा वक्रा च कञ्ची च सुरसा चापगोत्तमा ।। ४३.
शाखावती चेन्द्रनदी मेघा मङ्गारवाहिनी। कावेरी हरितोया च सोमावर्त्ता शतह्रदा ।। ४३.
वनमाला वसुमती पम्पा पम्पावती शुभा। सुवर्णा पञ्च वर्णा च तथा पुण्या वपुष्मती ।। ४३.
मणिवप्रा सुवप्रा च ब्रह्मभागा शिलाशिनी। कृष्णतोया च पुण्योदा तथा नागपदी शुभा ।। ४३.
शैवालिनी मणितटा क्षारोदा चारुणावती। तथा विष्णुपदी चैव महापुण्या महानदी ।। ४३.
हिरण्यवाहिनीला च स्कन्दमाला सुरावती । वामोदा च पताका च वेताली च महानदी ।। ४३.
एता गङ्गा महानद्यो नायिकाः परिकीर्तिताः। क्षुद्रनद्यस्त्वसंख्याताः शतशोऽथ सहस्रशः ।। ४३.
पूर्वद्वीपस्य वोहिन्यः पुण्यवत्यश्च कीर्तिताः। कीर्त्तनेनापि चैतासां पूतः स्यादिति मे मतिः ।। ४३.
समृद्धराष्ट्रं स्फीतञ्च नानाजनपदाकुलम्। नानावृक्षवनोद्देशं नानानग सुवेष्टितम् ।। ४३.
नरनारीगणाकीर्णं नित्यं प्रमुदितं शिवम्। बहुधान्यधनोपेतं नानानृपतिपालितम् । उपेतं कीर्तनशतैर्नानारत्नाकराकरम् ।। ४३.
तस्मिन्देशे समाख्याता हेमशङ्खदलप्रभाः। महाकाया महावीर्याः पुरुषाः पुरुषर्षभाः ।। ४३.