केतुमालं महाद्वीपं नानाम्लेच्छ गणैर्युतम् । प्लावयन्ती महाभागा प्रयाता पश्चिमार्णवम् ।। ४२.
सुवर्णचित्रपार्श्वे तु सुपार्श्वेऽप्युत्तरे गिरौ । मेरोश्चित्रमहापादे महासत्त्वनिषेविते ।। ४२.
मेरुकूटतटाद्भ्रष्टा पवनेनेरितोदका। अनेकाभोगवक्राङ्गी क्षिप्यमाणा नभस्तले ।। ४२.
षष्टियोजनसाहस्रे निरालम्बेऽम्बरे शुभे। विकीर्यमाणा मालेव निपपात महानदी ।। ४२.
एवं कूटतटैर्भ्रष्टा नैकैर्देवर्षिसेवितैः। विकीर्यमाणसलिला नैकपुष्पोडुपोत्कचा ।। ४२.
नानारत्नवनोद्देशमरण्यं सवितुर्व्वनम्। महावनं महाभागा प्लावयन्ती प्रदक्षिणम् ।। ४२.
सरोवरं महापुण्यं महाभागनिषेवितम्। तत्राविवेश कल्याणी महाभद्रं सितोदका ।। ४२.
भद्रसोमेति नाम्ना हि महापारा महाजवा। महानदी महापुण्या महाभद्रा विनिर्गता ।। ४२.
नैकनिर्झरवप्राढ्या शंखकूटतटे तु सा। तत्र कूटे गिरितटे निपपाताशुगामिनी ।। ४२.
शंखकूटतटाद्भ्रष्टा पपात वृषपर्व्वतम्। वृषपर्व्वताद्वत्सगिरिं नागशैलं ततो गता ।। ४२.
तस्मान्नीलं नगश्रेष्ठं संप्राप्ता वर्षपर्व्वतम्। नीलात् कपिञ्जलञ्चैव इन्द्रनीलं च निम्नगा ।। ४२.
ततः परं महानीलं हेमश्रृङ्गञ्च सा ययौ । हेमश्रृङ्गाद्गता श्वेतं श्वेताच्च सुनगं ययौ ।। ४२.
सुनगात् शतश्रृङ्गञ्च संप्राप्ता सा महानदी। शतश्रृङ्गान्महाशैलं पुष्करं पुष्पमण्डितम् ।। ४२.
पुष्कराच्च महाशैलं द्विराजं सुमहाबलम् । वराहपर्व्वतं तस्मान्मयूरञ्च शिलोच्चयम् ।। ४२.
मयूराच्चैकशिखरं कन्दरोदरमण्डितम् । जारुधिं शैल शिखरं निपपाताशुगामिनी ।। ४२.
एवं गिरिसहस्राणि दारयन्ती महानदी। त्रिश्रृङ्गं श्रृङ्गकलिलं मर्यादापर्वतं गता ।। ४२.
त्रिश्रृङ्गतटविभ्रष्टा महाभागनिषेविता। मेरुकूटतटाद्भ्रष्टा पवनेनेरितोदका ।। ४२.
विरुद्धं पर्वतवरं पपात विमलोदका। प्लावयन्ती महाभागा प्रयाता पश्चिमार्णवम् ।। ४२.
सुवर्णभुवि पार्श्वे तु सुपार्श्वेप्युत्तरे गिरौ ४२.
कन्दरोदरविभ्रष्टा तस्मादपि तरङ्गिणी। नैकभोगा पपातोर्वीं चित्रपुष्पोढुपोत्कचा ।। ४२.
प्लावयन्ती प्रमुदिता उत्तरान् सा कुरून् शिवा। महाद्वीपस्य मध्येन प्रयाता सोत्तरार्णवम् ।। ४२.
एवं तास्तु महानद्यश्चतस्रो विमलोदकाः। महागिरितटभ्रष्टाः संप्रयाताश्चतुर्दिशम् ।। ४२.
तत्सेयं कथितप्राया पृथिवी बहुविस्तरा। मेरुशैलमहाकीर्णाऽविशच्च सर्वतोदिशम् ।। ४२.
चतुर्महाद्वीपवती चतुराक्रीडकानना। चतुष्केतुमहावृक्षा चतुर्वरसरस्वती ।। ४२.
चतुर्महाशैलवती चतुर्भुजगसंश्रया। अष्टोत्तरमहाशैला तथाष्टवरपर्वता ।। ४२.
गन्धमादनपार्श्वे तु स्फीता चोपरि गण्डिका। द्वात्रिंशतं सहस्राणि योजनैः पूर्वपश्चिमा ।। ४३.
अस्यायामशचवतुस्त्रिंशत्सहस्राणि प्रमाणतः। तत्र ते शुभकर्माणः केतुमालाः परिश्रुताः ।। ४३.
तत्र काला नराः सर्वे महासत्त्वा महाबलाः। स्त्रियश्चोत्पलपत्राभाः सर्वास्ताः प्रिय दर्शनाः ।। ४३.
तत्र दिव्यो महावृक्षः पनसः षड्रसाश्रयः। ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः। तस्य पीत्वा फलरसं जीवन्ति हि समायुतम् ।। ४३.
पार्श्वे माल्यवतश्चापि पूर्वे पुर्वा तु गण्डिका। आयामतोऽथ विस्ताराद्यथैवापरगण्डिका ।। ४३.