प्रदक्षिणं प्रकुर्वाणा नानावनविभूषिता। प्रविष्टा पश्विमसरः सितोदं विमलोदकम् ।। ४२.
सा सितोदाद्विनिष्क्रान्ता सुपक्षं पर्व्वतं गता। सुपक्षतस्तु पुण्योदात्ततो देवर्षिसेविता ।। ४२.
सुपक्षकूटतटगा तस्माच्च संशितोदका। निपपात महाभागा रमण्यं शिखिपर्व्वतम् ।। ४२.
शिखेश्च पर्वतात् कङ्कं कङ्काद्वैदूर्य्यपर्व्वतम्। वैदूर्य्यात् कपिलं शैलं तस्माच्च गन्धमादनम् ।। ४२.
तस्माद्गिरिवरात् प्राप्ता पिञ्जरं वरपर्व्वतम्। पिञ्जरात् सरसं याता तस्माच्च कुमुदाचलम् ।। ४२.
मधुमन्तं जनञ्चैव मुकुटञ्च शिलोच्चयम्। मुकुटाच्छैलशिखरात् कृष्णं याता महागिरिम् ।। ४२.
कृष्णात् श्वेतं महाशैलं महानगनिषेवितम्। श्वेतात् सहस्रशिखरं शैलेन्द्रं पतिता पुनः ।। ४२.
अनेकाभिः स्रवन्तीभिराप्यायितजला शिवा । एवं शैलसहस्राणि सादयन्ती महानदी। पारिजाते महाशैले निपपाताशुगामिनी ।। ४२.
अनेकनिर्झरनदी गुहासानुषु राजते। तस्य कुक्षिष्वनेकासु भ्रान्ततोया तरङ्गिणी ।। ४२.
व्याहन्यमानसंवेगा गण्डशैलैरनेकशः। संविद्यमानसलिला गता च धरणीतले ।। ४२.
केतुमालं महाद्वीपं नानाम्लेच्छ गणैर्युतम् । प्लावयन्ती महाभागा प्रयाता पश्चिमार्णवम् ।। ४२.
सुवर्णचित्रपार्श्वे तु सुपार्श्वेऽप्युत्तरे गिरौ । मेरोश्चित्रमहापादे महासत्त्वनिषेविते ।। ४२.
मेरुकूटतटाद्भ्रष्टा पवनेनेरितोदका। अनेकाभोगवक्राङ्गी क्षिप्यमाणा नभस्तले ।। ४२.
षष्टियोजनसाहस्रे निरालम्बेऽम्बरे शुभे। विकीर्यमाणा मालेव निपपात महानदी ।। ४२.
एवं कूटतटैर्भ्रष्टा नैकैर्देवर्षिसेवितैः। विकीर्यमाणसलिला नैकपुष्पोडुपोत्कचा ।। ४२.
नानारत्नवनोद्देशमरण्यं सवितुर्व्वनम्। महावनं महाभागा प्लावयन्ती प्रदक्षिणम् ।। ४२.
सरोवरं महापुण्यं महाभागनिषेवितम्। तत्राविवेश कल्याणी महाभद्रं सितोदका ।। ४२.
भद्रसोमेति नाम्ना हि महापारा महाजवा। महानदी महापुण्या महाभद्रा विनिर्गता ।। ४२.
नैकनिर्झरवप्राढ्या शंखकूटतटे तु सा। तत्र कूटे गिरितटे निपपाताशुगामिनी ।। ४२.
शंखकूटतटाद्भ्रष्टा पपात वृषपर्व्वतम्। वृषपर्व्वताद्वत्सगिरिं नागशैलं ततो गता ।। ४२.
तस्मान्नीलं नगश्रेष्ठं संप्राप्ता वर्षपर्व्वतम्। नीलात् कपिञ्जलञ्चैव इन्द्रनीलं च निम्नगा ।। ४२.
ततः परं महानीलं हेमश्रृङ्गञ्च सा ययौ । हेमश्रृङ्गाद्गता श्वेतं श्वेताच्च सुनगं ययौ ।। ४२.
सुनगात् शतश्रृङ्गञ्च संप्राप्ता सा महानदी। शतश्रृङ्गान्महाशैलं पुष्करं पुष्पमण्डितम् ।। ४२.
पुष्कराच्च महाशैलं द्विराजं सुमहाबलम् । वराहपर्व्वतं तस्मान्मयूरञ्च शिलोच्चयम् ।। ४२.
मयूराच्चैकशिखरं कन्दरोदरमण्डितम् । जारुधिं शैल शिखरं निपपाताशुगामिनी ।। ४२.
एवं गिरिसहस्राणि दारयन्ती महानदी। त्रिश्रृङ्गं श्रृङ्गकलिलं मर्यादापर्वतं गता ।। ४२.
त्रिश्रृङ्गतटविभ्रष्टा महाभागनिषेविता। मेरुकूटतटाद्भ्रष्टा पवनेनेरितोदका ।। ४२.
विरुद्धं पर्वतवरं पपात विमलोदका। प्लावयन्ती महाभागा प्रयाता पश्चिमार्णवम् ।। ४२.
सुवर्णभुवि पार्श्वे तु सुपार्श्वेप्युत्तरे गिरौ ४२.
कन्दरोदरविभ्रष्टा तस्मादपि तरङ्गिणी। नैकभोगा पपातोर्वीं चित्रपुष्पोढुपोत्कचा ।। ४२.